________________
१६६
सिद्धिविनिश्चयटीकायाम्
[ २ सविकल्पसिद्धिः
इति; तत्रोत्तरमाह - [आ] कारविशेषस्यापि इत्यादि । न केवक्तं तत्क्रिया [या ] एव, कस्यचित् लोकप्रसिद्धस्य अनुमेयबुद्धिसहचरस्य धर्मान्तरधर्मस्यादिः (धर्म्यन्तरधर्मस्यापि ) सम्बन्धिनः चैतन्यस्य हेतोः लिङ्गस्य अविप्रतिषेधात् । एतदुक्तं भवति - तंत्र चैतन्याभावे स विपक्षः स्यात् । न चैवम्, तद्व्यवस्थापकप्रमाणान्तरभावादिति ।
किंच, तत्क्रियातः परदेहे चैतन्यरहितं ( चैतन्ये तद्रहितं) तद्विपक्षः, न वा (चा) स्य तत्र चैतन्याभावग्राहकमस्तीति दर्शयन्नाह - सुषुप्तादौ इत्यादि । स्वभावविप्रकर्षिणां 'पक्षसपक्षाभ्याम् अन्यस्य' इति वक्तव्ये 'इन्द्रियायु' ( ) हणम् उत्तरदूषणदित्सया, कथं केन प्रकारेण न केनचिद् अयं सौगतः निरोधम् अभावं विजानीयात् यतः कश्चिद् विपक्षः स्यात् । कुतो न विजानीयात् ? इत्यत्राह - अनुपलब्धि (ब्धेः ) इत्यादि । ननु तत्कार्यस्य व्याहारादेरदर्शनात् १० निरोधं विजानीयादिति चेत्; अत्राह - सुषुप्तादौ । आदिशब्देन मूर्च्छितादिपरिग्रहः तयोर्व्यापारव्याहारयोरभावेऽपि ।
ननु तस्याः क्रियायाः अभावेऽपि 'तदभावेऽपि' इति वक्तव्ये किमर्थम् - ' तयो:' इति वचनम् ? असन्देहार्थम्, इतरथा आकारविशेषस्य अभावेऽपि 'तदभावेऽपि ' इत्यपि मतिः स्या भावात् (स्यात् । भवान् ) कथं तेषां तं 'विजानीयात्' इति सम्बन्धः । एवं मन्यते [१३९क ] १५ प्रतिबद्धसामर्थ्यस्य कार्याऽभावादभावावगतिः, न चैवं चैतन्यमिति ।
"
प्रज्ञा क र स्त्वाह-*“तत्रापि चैतन्यस्याभावे (वः) अन्यथा अवस्थाचतुष्टयाभावः " इति ; न स युक्तकारी ; प्रबोधाऽभावप्रसङ्गात् विनष्टात् कारणात् कार्यानुत्पत्तेरिति निवेदयिष्यते अत्रैव अनन्तरप्रस्तावे । तेषां निरोधमजानतो यदपरं प्राप्तं तद्दर्शयन्नाह - यतः इत्यादि । यतो यस्मात् निरोधविज्ञानात् स्थावरेषु तर्वादिषु तन्निरोधलक्षणस्य असंभवं मरणस्य आच२० क्षीत । यत इति वा आक्षेपे नैव आचक्षीत ।
अत्र पार्श्ववर्त्ती कश्चिदाह-यदि पुनः इत्यादि । यदि पुनः आयुर्निरोधमेव मरणम् ; किं स्यात् किं दूषणं भवेत् यतो दूषणात् तन्मरणं विज्ञानादिनिरोधेन आदिशब्देन इन्द्रियनिरोधेन विशिष्यते इति ? अत्र आचार्यो दूषणमपश्यन् आह-न इत्यादि । न जानेऽहमपि न केवलम् अन्यो न जानाति ईदृशं परेण यादृशमुक्तम् ।
२५
उपसंहारमाह—तद् इत्यादिना । यत एवं तत् तस्माद् अयं सौगतः स्ववेदनमद्वयम् अलक्षयन् । कथंभूतम् ? इत्याह- 'परिच्छिन्न' इत्यादि, स्वतादात्म्यव्यवस्थितमित्यर्थः । यदि वा परिच्छिन्नं प्रमाणेनानवगतम् ( नावगतम्) स्वपरग्रहणे व्यवधानहेतुत्वाद् व्यवधानम् आवरणकारणं कर्म यस्येति व्याख्येयम्, स्वसंवेदनैका [न्सो ] पगमादिति मन्यते । स करोति ? इत्याह-पर इत्यादि । परचित्तम् । कथंभूतम् ? [१३९ख] अत्यन्तपरोक्षं कुतश्चिद्
(१) बुद्धिपूर्वायाः क्रियाया एव । (२) तर्वादौ । (३) बुद्धिपूर्वक्रियातः । ( ४ ) बौद्धस्य । ( ५ ) "विज्ञानेन्द्रियायुर्निरोधलक्षणस्य मरणस्यानेनाभ्युपगमात्, तस्य च तरुष्वसंभवात् । " - न्यायबि० ३।५९ । "विज्ञानादिनिरोधो हि मरणं बौद्धबोधतः । असिद्धं यस्य तरुषु विज्ञानं तन्मतिस्तथा ॥" - प्र० वार्तिकाल० पृ० ४६ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org