________________
१६५
२०२५ ]
अनेकान्तात्मकचिद्पसिद्धिः स्वयं व्यापारव्याहारनिर्भासविज्ञानस्यैव साक्षात् चिकीर्षाविवक्षाप्रभवनियमः संभाव्येत इति कल्पने प्रमाणाभावात् । बुद्धिपूर्वा क्रियैव व्यापारव्याहारात्मिका परोक्षबुद्धे हे तुरिति स्वल्पमुक्तम् , आकारविशेषस्यापि हेतोरविप्रतिषेधात् । सुषुप्तादौ तयोरभावेऽपि कथमयं स्वभावविप्रकर्षिणाम् इन्द्रियायुनिरोधमनुपलब्धेर्विजानीयात् १ यतः स्थावरेषु तन्निरोधलक्षणस्य मरणस्य असंभवमाचक्षीत । यदि पुनरायुर्निरोधमेव मरणं किं ५ स्याद्यतस्तद् विज्ञानादिनिरोधेन विशिष्यते ? न जाने अहमपि ईदृशम् । तदयं स्ववेदनमद्वयं परिच्छिन्नव्यवधानमलक्षयन् परचित्तमत्यन्तपरोक्षं कुतश्चित् परिच्छिनत्ति व्यवच्छिनत्तीति च निष्प्रमाणिकैवास्य प्रवृत्तिः।]
बुद्धिः पूर्वं कारणं यस्याः ताम् । काम् ? क्रियाम् । किम् ? दृष्ट्वा । क ? स्वदेहे । अन्यत्र परदेहे तद्ग्रहात् बुद्धिपूर्वक्रियाग्रहात् 'ज्ञायते बुद्धिरन्यत्र' इति १० पदघटना । कैः ? अभ्रान्तः पुरुषैः क्वचित् तमात्रे (तन्मात्रे) बुद्धिसामान्ये न विभ्रमैः न नानाविभ्रमैयिते (?) तल्लिङ्गस्य वाहारादेरर्थवदसितिभासवहारादि (व्याहारादेरर्थवदसत्त्वात् , व्याहारादि) प्रतिभासस्यापि निरालम्बनत्वादिति मन्यते ।
स्यान्मतम्-जाग्रहशायां [१३८क] व्यापा (हा)रादिनिर्भासः साक्षात् चिकीर्षादेः, अन्यत्र पारम्पर्येण ततोऽयमदोष इति; तत्रोत्तरमाह-स्वयम् इत्यादि । स्वयम् आत्मना व्यापारः १५ कायस्य चेष्टा व्याहारो वचनस्व (वचनं च) तयोनि सो यस्मिन् विज्ञाने तत् तथोक्तं तस्यैव चिकीर्षाविवक्षाप्रभवनियमः सम्भाव्येत । कथम् ? इत्याह-साक्षात् इत्येवं कल्पने प्रमाणाभावात् ।
यस्तु प्रज्ञा क रः स्वप्नान्तिकशरीरवादी स्वप्नदशायामपि व्याहारादिनि सज्ञानस्यापि साक्षात् चिकीर्षादिप्रभवनियममभ्युपगच्छति; तत्र तस्य बहिनि सज्ञानस्यापि साक्षात् बहिरर्थ- २० सत्त्वप्रभवनियमसिद्धेर्विज्ञप्तिमात्रवादो निरालम्बः स्यात् ।
यत्पुनरुक्तं तेनैव-*"सन्तानान्तरस्यानभ्युपगमात् तदसिद्धिर्न दोषाय" इति; तदपि न सत्यम् ; यतो योगाचारं प्रत्यस्य दोषस्याभिधानात् प्रतिभासाद्वैतवादिनं प्रति विपर्ययात्-तस्य हि नित्यवत् (तन्नियमवत्) स्वप्रतिभासस्यापि विचार्यमाणस्य घटनायोगात् सर्वाऽभाव एव दोषः इति किं तदूषणाभिधानेनेति ।।
___सांप्रतं सन्तानान्तरहेतोः परप्रयुक्तस्य भागाऽसिद्धता (तां) दर्शयन्नाह-बुद्धिपूर्वा इत्यादि । बुद्धिपूर्वा बुद्धिः (द्धेः) कार्यभूता क्रियैव, कथम्भूता ? व्यापारव्याहारात्मिका परोक्षबुद्धेः देहान्तरबुद्धेः हेतुः लिङ्गम् इत्येवं स्वल्पमुक्तम् पक्षीकृते सर्वत्रास्या[अ]संभव इति भावः । अथ मंडादौतवः (अथ तर्वादौ न,) स च [१३८ख] अचेतनत्वाद् विपक्ष एव न पक्ष
(१) वचनादेः । (२)सुषुप्त्यनन्तरं प्रबोधावस्थायाम् । (३) “स्वप्नान्तिकशरीरसन्चारदर्शनात्..." -प्र. वार्तिकाल० २।५४, पृ० ७२ । “यथा स्वप्नान्तिकः कायस्वासलशनधावनैः । जान देहविकाराय तथा जन्मान्तरेष्वपि ॥"-प्र. वार्तिकाल. २१३७ । (४) अनेकविज्ञानसन्तानवादिनं प्रति । (५) सन्तानान्तरासिद्धिप्रसङ्गरूपेण । (६) व्यापारव्याहारात्मिका क्रिया।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org