________________
१६४
सिद्धिविनिश्चयटीकायाम् [२ सविकल्पसिद्धिः रूपं स्वभावम् । कस्य ? इत्यत्राह-वित्तेर्बुद्धेः आत्मन इत्यर्थः । पुनः पश्चात् तद्विविक्तं विभिन्नम्। कुतः ? अन्यस्मात् विजातीयादचेतनात् अवग्रहरूपः सन् विवेचयेत् , पुनः सर्वतो विविक्तं सजातीयाद् विजातीयाच्च आकाङ्क्षादिपरिणामात्मा पुनश्च कालादिभेदकृत् कालादिभिः भेद्यस्य (भेदो यस्य) तत्तथोक्तम् 'रूपम्' इति सम्बन्धः, कालादिविशिष्टं तद् ५ विवेचयेत् ।
इयम् अपरापरायोजातिका (अपरा योजनिका') सत्सत् इति यद्पं सर्वभावानां साधारणं तद् विवेचयेत् , पुनः पुद्गलेतत्स्वभावं (पुद्गलेतरस्वभावं) तद् विवेचयेत्। कथम्भूतम् ? सर्वस्या (सर्वतः सर्वस्मात् ) विविक्त (क्त) वित्तः सकाशात् अन्यस्माद् वित्तेः अर्था
न्तरात् पुद्गलान्तरादिति यावत् सर्वतो निरवशेषात् । पुनरपि कालादिना भेदं कुर्वाणा १० (णं) विवेचयेत् इति ।
___कारिका विवरीतुमाह-सर्व(व) इत्यादि । सर्व चेतर(चेतनेतर)सामान्येन तत्साधारणत्वेन वस्तुनः सत्त्वं पश्यन्नेव अचेतनं पुद्गलं परिच्छिनत्ति जनः आत्मा वा । किं कुर्वन् ? इत्याह-व्यवच्छिन्दन् पुद्गलम् इति । कुतः १ चेतनात् , पुनरपि तमेव अन्यतः अचेतनाद्
अर्थान्तरतः पुद्गलान्तरात् व्यवच्छिन्दन् तस्य पुद्गलस्य वर्णसंस्थानादिविशेषान् क्रमशः १५ परिच्छिनत्ति । कथम् ? कालादिभेदेन आदिशब्देन क्षेत्रादिपरिग्रहः नान्यथा [१३७ख]
नाऽपरेण प्रकारेण । ननु प्रत्यक्षतोऽनुमानतो वा कालस्याऽग्रहे कथं तद्भदेन परिच्छिनत्तीति चेत् ; न सदेतत् ; व्यवहारकालस्य प्रत्पर (प्रत्यक्षत्वात् पर) मार्थकालस्य तर्कविषयत्वात् ।।
द्वितीयां कारिकायोजनिकां दर्शयन्नाह-अन्तरङ्ग इत्यादि । अन्तरङ्गस्य चैतन्यस्य प्रतिपत्तौ अयमेव नान्यः क्रमः। तमेव दर्शयन्नाह-चपर इत्यादि । 'सर्व चेतनेतरसामान्येन २० वस्तुसत्त्वं पश्यन्नेव' इत्यनुवर्त्तते । ततोऽयमर्थः-तत्सामान्येन तत्पश्यन्नेव स्वपरचैतन्यसामा
न्यम् अचेतनाद्विविक्त परिच्छिद्य पुनः परस्माद् आत्मान्तराद् आत्मानं व्यवच्छिद्य क्रमेण विशेषान् अवग्रहादीन् स्वभावान् परिच्छिनत्ति इति । कुत एतत् ? इत्यत्राह-नि:कल इत्यादि। सुगमम् ।
तद्विभ्रमैकान्ते बहिरर्थप्रतिपत्तिवत् सन्तानान्तरप्रतिपत्तिरपि सौगतस्य दुर्लभेति दर्शयन्नाह २५ कारिकाम्-'बुद्धिपूर्वाम्' इत्यादिकाम् ।
[बुद्धिपूर्वां क्रियां दृष्ट्रा स्वदेहेऽन्यत्र तद्ग्रहात् ।
ज्ञायते बुद्धिरन्यत्र अभ्रान्तः पुरुषैः क्वचित् ॥२५॥ (१) व्याख्या । (२) तत् सत् द्विविधं पुद्गलात्मकम् पुद्गलभिन्नजीवादिरूपं च इत्यादिरूपेण । (३) कालादिभेदेन । (१) पलघटीमुहूर्तादिरूपस्य । (५) कालाणुरूपस्य । (६) अनुमान । (७) चेतनेतरसामान्येन । (८) वस्तुसत्वम् । (९) "उक्तं च-बुद्धिपूर्वा"मन्यते बुद्धिसद्भावः सा न येषु न तेषु धीः ॥" -त. पा...। धर्मकीर्तिकृतसन्तानान्तरसिद्धौ प्रथमश्लोकोऽपि ईदृश एव । पूर्वार्धः-न्यायवि० वि० प्र०पृ० ३०३ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org