________________
२१२४]
अनेकान्तात्मकचिद्रूपसिद्धिः नस्य उपलम्भ इति दृष्टान्ताऽसिद्धिः । अथ अर्थवादिनः 'तत् सिद्ध[मि]ति न दोषः ; तद् यदि प्रमाणतः सिद्धम् ; सौगतस्यापि सिद्धम् , प्रमाणस्य कचित् पक्षपाताभावात् । तथा च *"न नीलादः परं ग्राहकम्" इत्यस्य व्याघातः । यदि पुनः अप्रमाणतः; तर्हि न निदर्शनम् ; [१३६ ख] अप्रमाणसिद्धस्य तदयोगात् हेतुवत् , 'इतरथा चाक्षुषत्वादिकमपि हेतुः स्यादिति यत्किञ्चिदेतत् । ___यत्पुनरेतत्-*"जाग्रत्स्तम्भादि ज्ञानम् वासनाकार्यत्वात् कामशोकायुपप्लुतदृष्टकामिन्यादिवत्" इति ; तदपि न सारम् ; यतः तस्य "परं प्रति 'तत्कार्यत्वासिद्धेः। ततः सूक्तम्-'यथा अन्तः' इत्यादि । एवमपि [न] बहिरर्थस्य सामान्यविशेषात्मकस्य प्रतिभासनं तस्य वा संभवो निषेधादिति चेत् ; अत्राह-प्रत्यक्ष इत्यादि । प्रत्यक्षो यः सामान्यरूपः स्वभावभेदः वस्तुन आत्मभूतो विशेषः संभाव्यः, यच्च (श्च) परोक्षा (क्षो) असाधारणलक्षणः १० स्वभावभेदः तयोः एकः साधारण आत्मा स्वभावो यस्य स तथोक्तः तस्य । कस्य ? प्रमेयस्य बहिर्ग्राह्यस्य प्रतिषेधुनिराकर्तुमशक्यत्वात अन्यथा तथा वित्तेरपि निषेधः स्यादिति मन्यते । तर्हि बहिरन्तर्वा असाधारणरूपेणेव साधारणेनापि रूपेण अप्रत्यक्षताऽस्त्विति चेत् ; अत्राहकथश्चिद् इति । अप्रत्यक्षत्वे वस्तुनः प्रत्यक्षत्वाभावे कुतो लिङ्गादेर्न कुतश्चित् संभावयेद्वस्तु अनुमानेन विषयीकुर्यात् लिङ्गादेरसिद्धेः कथञ्चिदसाधारणवद् गाडनिद्राक्रान्त इव तद्वदिति । १५ प्रस्तावार्थोपसंहारकारिकां 'सदरूपम्' इत्यादिकामाह
[ सद्रूपं सर्वतो वित्तेः तद्विविक्त विवेचयेत् ।
चिदात्मा परिणामात्मा पुनः कालादिभेदकृत् ॥२४॥ सर्वं चेतनेतरसामान्येन वस्तुसत्त्वं पश्यन्नेव अचेतनं चेतनाद् व्यवच्छिन्दन् परिच्छिनत्ति जनः । पुनस्तमेव अन्यतोऽचेतनाद् व्यवच्छिन्दन् तद्वर्णसंस्थानादिविशेषान् २० क्रमशः कालादिभेदेन परिच्छिनत्ति नान्यथा । अन्तरङ्गस्य प्रतिपत्तावयमेव क्रमःस्वपरचैतन्यसामान्यमचेतनाद्विविक्त परिच्छिद्य पुनः परस्माद् व्यवच्छिद्य क्रमेण विशेषान् परिच्छिनत्ति निष्कल [स्वभावानवधारणात् ।] ___अत्रायमर्थः-चिदात्मा विवेचयेत् गृह्णीयाद् दर्शनस्वभावः । किम् ? इत्यत्राहसत् सत्तासामान्यं [१३७क] ___*"जं सामान्यग्रहणं दर्शनमिति (सामण्णं गहणं दंसणमिदि) भण्णये समये ।" [गो०जी०गा० ४८१] इत्यभिधानात् तद् वैशेषिकादिकल्पितं गृह्णीयात् ; इत्यत्राह
(१) ग्राहकाभिमतं ज्ञानम् । (२) अप्रमाणसिद्धस्य दृष्टान्तत्वे । (३) 'अनित्यः शब्दः चाक्षुषत्वात्' । (४) तुलना-“वासनाबलभावित्वे बोधतैव प्रसज्यते । वासना स्मृत्यभिज्ञानकारणत्वेन लक्षिता ॥"-प्र० वार्तिकाल. पृ० ३१९ । (५) जैनं प्रति । (६) वासनाकार्यत्वासिद्धेः । (७) "जं सामण्णं गहणं भावाणं णेव कटुमायारं । अविसेसदूण अठे दसणमिदि भण्णए समए ॥"-गो० जी० । उद्घतेयं गाथा धवलाटीकायाः सत्प्ररूपणायाम् । “जं सामण्णग्गहणं दसणमेयं विसेसियं गाणं ।"-सन्मति०२।१ । (6)
सामान्यम्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org