________________
१६२
सिद्धिविनिश्चयटीकायाम् [२ सविकल्पसिद्धिः तन्मध्येकरणात् उभयत्र सम्बन्धनीयम् । [१३४ ख] तथा तेन प्रकारेण बहिः बहिरर्थे (थः) उपेयतां सत्सामान्यं पश्यतोऽर्थस्य तथा विशेषो वेद्यः निदर्शनम् अनन्तरनीत्या प्रसाधितं न पुनः प्रसाध्यते ।
कुतश्चिद् इत्यादिना कारिकार्थमाह-कुतश्चिदपि न केवलम् एकस्मात् स्वयम् आत्मना ५ अव्यावृत्तं, किम् ? सामान्यं पश्यन्नेव । किं कुर्यात् ? इत्याह-गृह्णीयात् । किम् ? चैतन्यम्
कर्म तद्विशेषम् । कथम्भूतं तत् ? इत्यादि (इत्याह) अचेतनव्यवच्छिन्नम् । कोऽसौ गृह्णीयात् ? इत्याह-आत्मा जीवः। पुनरपि किं कुर्वन् ? इत्याह-प्रयतमानः । किं कर्तुम् ? इत्याह-गृहीतुं 'चैतन्यम्' इति सम्बन्धः । पुनरपि कथंभूतम् ? इत्याह-द्रव्य इत्यादि । कथम् ? क्रमेण ।
ततः तस्मादूर्ध्वं, कथंभूतः ? इत्याह-प्रत्यक्ष इत्यादि । दृश्यस्वभाव इत्यर्थः । ननु आत्मनो १० निषेधात् कथमेतदिति चेत् ; अत्राह-स्वयम् इत्यादि । स्वयम् आत्मना अविप्रतिषिद्धोऽनिरा
कृतः प्रथमप्रस्तावेऽत्र च चिन्तितमेतत् । तर्हि तस्याविशेषात् सर्वं सर्वदा सर्वत्र गृह्णीयादिति चेत् ; अत्राह-यथा इत्यादि । सामर्थ्यस्य अनतिक्रमेण गृह्णाति । एतत् प्रकृते योजयन्नाह-यथा इत्यादि । यथा येना (न) व्यापकग्रहणपूर्वव्याप्यग्रहणप्रकारेण, यदि वा यथा शक्तिग्रहणप्रकारेण
अन्त ह्राति तथा च तैनैव प्रकारेण [बहिः] गृह्णाति इत्येवम् अवगन्तव्यम् । तथा च यदुक्तं १५ प्रज्ञा क रे ण-*"यदवभासते तज्ज्ञानं यथा सुखादि, अवभासते च नीलादिकम् , जडस्य
प्रतिभासाऽयोगात्" इति; तदनेन [१३६क] निरस्तम्; ज्ञानवत् जडस्यापि [प्रति]भासाविघातात् । अयं तु विशेषः-ज्ञानस्य स्वतः इतरस्य परतः इति । न च तदपह्नवो युक्तः, 'स्तम्भादिकमहं वेद्मि' इति प्रत्ययात् तत्प्रतीतेः, अन्यथा नीलादौ कः समाश्वासः ? 'कथं स तस्य
ग्राहकः' इत्यपि न चोद्यम् ; 'स्वरूपस्य कथं ग्राहकः' इत्यपि चोद्यप्रसङ्गात् । स्वरूपवत् पररूप२० स्यापि ग्राहकः प्रतीयते इति न विशेषः । शेषं पुनरत्र परस्य भाषितम्-कार्यकारणभावम् अनु
मान-समारोप-व्यवच्छेद्य-व्यवच्छेदकभावं चित्रैकज्ञानाद्वैतम् अन्यद्वा विज्ञप्तिमात्रेऽपि निराकरोति इति निरूपयिष्यते।
यत्पुनरेतत्-*"नीलादि ज्ञानं चक्षुरादिव्यापारानन्तरम् उपलभ्य मानत्वात् तद्ग्राहकाभिमतज्ञानवत्" इति; तत्र 'तन्न नीलं तद्व्यापारानन्तरम् उपलभ्यमानत्वात् २५ शङ्खवत्' इत्यस्यापि प्रसङ्गः । प्रमाणबाधनमुभयत्र ।
किञ्च, चक्षुरादेर्बहिरर्थत्वे दर्शनाभावेन न तद्व्यापारानन्तरं तदुपलम्भ इति हेतोरसिद्धिः दृष्टान्तस्य च साधनविकलता, "अन्यस्य चक्षुरादेलिङ्गस्य वा व्यापारानन्तरं तदुपलम्भभावे वा प्रकृतहेतोर्व्यभिचारः, "ज्ञानत्वे तद्व्यापारानन्तरं नीलापलम्भेऽपि न परस्य तज्ज्ञा
(१) आत्मनो नित्यस्य । (२) परतः । (३) प्रतिभासः । (४) जडस्य । (५) बौद्धस्य । (६) अनु मानेन समारोपस्य व्यवच्छेदः क्रियते इति तयोः व्यवच्छेद्यव्यवच्छेदकभावः । (७) तुलना-"नीलान्न व्यतिरेकेण विषयि ज्ञानमीक्ष्यते । ज्ञानपृष्ठेन भेदस्तु कल्पनाशिल्पिनिर्मितः ॥"-प्र. वार्तिकाल. पृ० ४०६ । (८) 'नीलं न नीलम्' इत्यप्यनुमानं स्यादित्यापादयति । (९) चक्षुरादि । (१०) नीलाद्युपलम्भः । (11) भिन्नरूपेण । (१२) चक्षुरादीनां ज्ञानत्वे । (१३) द्वितीयस्य । (१४) तद्ग्राहकाभिमतस्य ज्ञानस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org