________________
२।२३]
अनेकान्तात्मकचिदुपसिद्धिः
१६१ (बाह्यवस्तु) सामान्यं येन तत्तथोक्तम् । गृहीतवस्तुसामान्यमेव तत् तदवगाहते इति भावः । अनेन प्रत्यक्षसिद्धम् उभयत्र सामान्यं दर्शयति । यतस्तेन तन्मात्रावगाहनात् चेतनैकान्तसिद्धि विशेष्येत भिद्यत अर्थसिद्धेः। यतः इति वा आक्षेपे, [संभावितेत्यादि । एतदुक्तं भवति-यथा व्यापकस्य चिद्र पमात्रस्य अनुपलब्धौ तद्व्याप्यस्य संभावितासाधारणरूपस्य विभ्रमाकारविवेकलक्षणस्य अनुपलब्धिः तथा [१३५क] प्रकृतमपि इति यदुक्तं प्रज्ञा क रे ण-५ *"अतीतानागतावस्थानामग्रहणेऽपि तदवस्थाता गृह्यते" "इत्यत्र *"कथं व्याप्याप्रतिपत्तौ तद्व्यापकप्रतिपत्तिः" [प्र० वार्तिकाल० ११४४] इति ; तदनेन निरस्तम् ; विभ्रमाकारविवेकाप्रतिपत्तावपि तद्व्यापकचिद्र पमात्रप्रतिपत्तिवद् विशेषाऽग्रहणेऽपि तव्यापकसामान्यप्रतिपत्तिसंभवात् । ननु बहि [:] व्यापकोपलब्धावपि विशेषाणां यद्यदर्शनं कथं तस्य ते' इति प्रतिपत्तिः ? पुनस्तत्र दर्शनादिति चेत् ; पुनस्तत्र दर्शनं कुतः सिद्धम् ? न तावत् पूर्व-१० प्रत्यक्षात् ; तस्य पश्चाद्भावात् तत्राऽप्रवृत्तेः । नापि उत्तरप्रत्यक्षात् ; अस्य पूर्वमभावात् व्यापकेऽप्रवृत्तेः । न च तत्समुदायात् ; क्रमभाविनोः तदसंभवात् । उभयकालभावि च तदेकं क्रमभाविचक्षुरादिव्यापारचर्चितं न चारु चर्चनमर्हति । तद्ग्रहणोपायासंभवाच्च "आत्मसत्तामात्रस्याऽविशेषात् , न ततः तत्सिद्धम् प्रत्यक्षपर्यायस्य कृतोत्तरत्वात् ।
एतेन अनुमानमपि चिन्तितम् ; तत्र "तदभावेऽस्याभावादिति चेत् ; अत्राह-'चिदरू-१५ पम्' इत्यादि।
[चिद्रूपं सर्वतोऽभिन्नं पश्यतः परमार्थतः।।
तद्विशेषो यथा वेद्यस्तथा बहिरुपेयताम् ॥२३॥ कुतश्चिदपि स्वयमव्यावृत्तं सामान्यं पश्यन्नेव आत्मा गृहीतुं प्रयतमानः अचेतनव्यवच्छिन्नं चैतन्यं द्रव्यं क्रमेण गृह्णीयात् । ततः प्रत्यक्ष आत्मा स्वयमविप्रतिषिद्धः २० यथासामर्थ्यमन्तर्गह्राति तथा च बहिरित्यवगन्तव्यम् । प्रत्यक्षपरोक्षकात्मनः प्रमेयस्य बहिः प्रतिषेधुमशक्यत्वात् । कथञ्चिदप्रत्यक्षत्वे कुतो वस्तु संभावयेत् लिङ्गादेरसिद्धः गाडनिद्राक्रान्तवत् ।]
चितो बुद्धेः रूपं स्वभावः । कथम्भूतम् ? अभिन्नम् अव्यावृत्तम् । कुतः ? सर्वतः सजातीयाद् विजातीयाच्च सत्सामान्यं तस्यैव "तथाविधत्वादिति मन्यते । पश्यतः २५ विकल्पदर्शनेन विषयीकुर्वतः सौगतस्य तद्विशेषः तस्य चित्सम्बन्धिनः तत्सामान्यस्य विशेषः चैतन्यादिलक्षणः वृत्तौ वक्ष्यमाणो भेदः यथा येन प्रकारेण वेद्यो ग्राह्यः 'परमार्थतः' इति
(१) प्रत्यक्षम् । (२) चिद्पमात्रम् । (३) “अथावस्थानामग्रहणे न (पि) पूर्वापरव्याप्तिप्रतीतिः ; अवस्थाऽग्रहणेऽवस्थातृप्रतीतिः कथं भवेत्। व्याप्याप्रतीतावन्यस्य व्यापकत्वाप्रतीतितः॥"-प्र०वार्तिकाल। (४) आत्मा। (५) इति शङ्कायामुक्तम् । (६) व्याप्यभूतानाम् । (७) व्यापकस्य सामान्यस्य ते विशेषा इति । (८) व्याप्ये । (९) व्याप्ये । (१०) उभयकालभाविनः एकस्य ग्राहकप्रमाणाभावात् । (११) क्रमभाव्युभयव्यापिनः एकस्य सिद्धौ तथाभूतस्यात्मनोऽपि सिद्धिः स्यादिति भावः । (१२) प्रत्यक्षाभावे । (१३) अनुमानस्याप्यभावादिति । (१४) सर्वतोऽव्यावृत्तत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org