________________
१६०
सिद्धिविनिश्चयटीकायाम् [२ सविकल्पसिद्धिः न हि अगृहीतवस्तुसामान्यं चिद्रूपमात्र प्रत्यक्षं कर्तुमवगाहते यतस्तेन चेतनैकान्तसिद्धिर्विशिष्येत ।]
___ इदमत्र तात्पर्यम्-कथञ्चिद् बुद्धेः प्रत्यक्षत्वे 'यथाकथञ्चिद्' इत्यादि दूषणमुक्तम् इति सर्वथा 'तदप्रत्यक्षत्वमङ्गीकर्त्तव्यम् , तस्मिंश्च सति न विभ्रमप्रतिभाससंभवः, परेणापि तथाभ्यु५ पगमात् । तथा च अन्यथा अन्येन बुद्धिस्वरूपाभावप्रकारेण अनुपपन्नत्वम् असिद्धस्य
अनिश्चितस्य विभ्रमप्रतिभासस्य नसिध्यति । नहि असिद्धस्य बन्ध्यासुतस्य तदभाव [१३४क]प्रकारेण 'अनुपपन्नम्' इति वक्तुं शक्यम् । अनेन अन्यथानुपपन्नत्वं हेतुलक्षणं तद्वत्त्वे सिद्धमिति दर्शयति । तर्हि सञ्चेतनादिरूपेण प्रत्यक्षा बुद्धिः नापरणेति चेत् ; अत्राहु-चित्सामान्य
इत्यादि । नन्वेतत् 'बहिर्न किम्' इत्यनेन दूषणमुक्तम् , तत् किमर्थं पुनरुच्यते इति चेत् ; १० न ; तेन बुद्धर्विभ्रमाकारस्य कथञ्चिदभेदे इदमुक्तम् , अनेन 'एकान्तेन भेदे' इति विभागात् ।
चिदेव तस्या वा सामान्यम् तस्य विदा वेदनेन बुद्धिस्वभावभूतविभ्रमाकारविवेकग्रहणविमुखचिन्मात्रग्रहणेन इत्यर्थः । युक्तम् उपपन्नं स्वग्रहणयोग्यो योऽर्थः तस्य सामान्यम् ईक्षितुम् । अनेन *"बुद्धेः कथञ्चित् प्रत्यक्षत्वम्" *"एकस्यार्थस्वभावस्य"
[प्र०वा० ३।४२] इत्यादि च वदतः पूर्वापरविरोधो दर्शितः । १५ कारिकां विवृण्वन्नाह-कथञ्चिद् इत्यादि । कथञ्चिद् विभ्रमाकारविवेका[दि]प्रका
रेणापि असिद्धात्मनः सर्वथा अगृहीतरूपाया बुद्धेः कथम् असाधारणम् अचेतनादिव विभ्रमादपि व्यावृत्तं यदद्वयं स्वस्वं (सं)वेदनरूपं तद्विभ्रमप्रतिभासान्यथानुपपत्त्या अनुपीयेत न कथञ्चित् । हेतोरेव (रेवाs) सिद्धवा (त्वा)दिति मन्यते । यतोऽनुमीयमानत्वात् संभाव्यं
स्यात् 'असाधारणं रूपम्' इति सम्बन्धः । स्यान्मतम्-तस्याः सच्चेतना[दि] रूपं स्वतः २० सिद्धम् ; इत्याह-स्वतः इत्यादि । स्वतो नान्यतः तस्याः चिदेव रूपं तस्य सिद्धौ अङ्गीक्रियमाणायां 'बुद्धेः' इति सम्बन्धः । कथम्भूतायाः ? इत्यत्राह-संभावित इत्यादि । संभावितः
अनुमेयः असाधारणः [१३४ख] आत्मा यस्याः सा तथोक्ता तस्यां (तस्याः) किम् ? इत्यत्राहसाकल्येन इत्यादि । साकल्येन बहिरन्तश्च यत् सत् तत्सर्व सामान्यविशेषात्मकम् इत्येवं
व्याप्तिसिद्धौ कथं प्रत्यक्षेण प्रत्यक्षाः (क्षा) वा प्रतिपत्तिः प्रत्यक्षप्रतिपत्तिः अपहनूयेत ? नैव । २५ कस्य ? इत्याह-बहिरर्थस्यापि न केवलं ज्ञानस्यैव । कथंभूतस्य ? इत्याह-संभावित इत्यादि ।
पुनरपि कथंभूतस्य ? इत्याह-द्रव्येत्यादि परमार्थस्य इति पर्यन्तम् । ननु यदि नाम न बुद्धिः प्रत्यक्षसंभावितात्मा, बहिरर्थस्य किमायातं, येन सोऽपि तथा स्यादिति चेत् ; अत्राह-न हि अगृहीत इत्यादि । न हि प्रत्यक्षं कर्तु (तुम)वगाहते विषयीकरोति । किम् ? इत्याहचिद्रूपमात्रम् चित्स्वसंवेदनलक्षण (णं) रूपं यस्य भावस्य स तथोक्तः स एव तन्मात्रं कर्म . ३० ज्ञानसामान्यमिति यावत् । कथंभूतम् ? इत्याह-अगृहीतवस्तुसामान्यम् अगृहीतं बाह्यवा
(१) बुद्धेरप्रत्यक्षत्वम् (२) विशेषाकारेण । (३) “प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ।'' इति शेषः। (४) बौद्धस्य । (५) बुद्धः। (६) बहिरर्थोऽपि । (७) विषयभूतम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org