________________
२।२१-२२ ]
विज्ञप्तिमात्रतानिरासः [ यथार्थरूपं बुद्धेर्वितथप्रतिभासनात् ।
अविशेषात्स्वरूपं च न सिध्यति ततस्तथा ॥२१॥ खरूपमन्तरेण विभ्रमप्रतिभासासंभवादसमानम् , विषयाभावेऽपि बहुलं तथोपलब्धेः।]
__ यथा येन प्रकारेण बुद्धर्वितथप्रतिभासनात् हेतुना ततः तद्वा आश्रित्य सौत्रा- ५ न्तिकस्य अर्थरूपम् अर्थस्य अचेतनस्य घटादे रूपम् अनेकक्षणिकनिरंशपरमाणुलक्षणं न सिध्यति तथा योगाचारस्यापि स्वरूपं च ततो बुद्धर्न सिध्यति । कुत एतत् ? इत्यत्राह-[अविशेषात्] विशेषाभावात् वस्तुस्वभावपरिहारेण प्रतिभासस्य उभयत्र समत्वात्। यथा वा तेने बहिः स्थूलैकाकारो नेष्यते तथा योगाचारेणापि अन्तः । अथवा, यथा बुद्धेवितथप्रतिभासनात् स्वप्नादिदशायाम् अर्थरूपं न सिध्यति अविशेषेण नैयायिकादेः १० तथा स्वरूपं च स्वसंवेदनं च बुद्धर्न [१३३ख] सिध्यति अविशेषेण योगाचारस्य । कुत एतत् ? इत्यत्राह-अविशेषात् विशेषाभावात् अर्थज्ञानपक्षयोः, एकत्र स्वप्नादिः अन्यत्र ग्राह्याकारो दृष्टान्त इति मन्यते ।
क ल्ल क स्तु आह-स्वरूपमन्तरेण इत्यादि । बुद्धः यत्स्वरूपमात्रा (मात्र) साक्षाकरणलक्षणं तदन्तरेण विभ्रमस्य भ्रान्ताकारस्य यः प्रतिभासः तस्य असंभवात् , स्वतः तस्य १५ प्रतिभासे विभ्रमाऽयोगादिति मन्यते । असमानं स्वपरपक्षयोः अविशेषोऽसिद्ध इति । तथा प्रयोगःअस्ति बुद्धः स्वरूपं विभ्रमप्रतिभासाऽन्यथानुपपत्तेः । उक्तं च-*"अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति" इति। नन्वेवम् अर्थरूपमन्तरेणापि "तत्प्रतिभासासंभवात् ततस्तत्सिद्धिः कस्मान्नेति चेत् ; अत्राह-विषय इत्यादि । [विषयस्य] घटादेरभावेऽपि न केवलं भावे बहलं तथा विषयग्राहकत्वेन उपलब्धेर्बुद्धेः सर्वत्र सर्वदा तथा सेति मन्यते । 'असमानम्' इत्येवं चेत् ; २० अत्र दूषणमाह-अन्यथा इत्यादि ।
[अन्यथानुपपन्नत्वमसिद्धस्य न सिध्यति ।
चित्सामान्यविदा युक्तं स्वार्थसामान्यमीक्षितुम् ॥२२॥ कथञ्चिदसिद्धात्मनो बुद्धः कथमसाधारण रूपमनुमीयते १ यतः संभाव्यं स्यात् । स्वतस्तच्चिद्रूपसिद्धौ संभावितासाधारणात्मनः साकल्येन यत् सत्तत्सर्व सामान्यविशेषा- २५ त्मकमिति व्याप्तिसिद्धौ कथं द्रव्यस्य परमार्थस्यापि बहिरर्थस्य प्रत्यक्षप्रतिपत्तिरपहनूयेत ?
(१) “यथास्वं प्रत्ययापेक्षादविद्योपप्लुतात्मनाम् । विज्ञप्तिर्वितथाकारा जायते तिमिरादिवत् ॥”प्र० वा० ३।२१८ । (२) सौत्रान्तिकेन । (३) अर्थपक्षे । (४) अप्रत्यक्षश्चासौ उपलम्भश्च तस्य अस्वसंविदितज्ञानस्य इत्यर्थः। तुलना-"अप्रसिद्धोपलम्भस्य नार्थवित्तिः प्रसिध्यति ।"-तत्वसं० श्लो० २०७४ । उद्धृतोऽयम्-न्यायवि०वि०प्र० पृ०८२ । प्रमेयक० पृ० २९ । सन्मति० टी० पृ० ८१ । (५) ज्ञानप्रतिभास । (६) अर्थसिद्धिः। (७) तुलना-अन्यथानुपपन्नत्वमसिखुस्य न सिध्यति ।"-न्यायवि. ११२। प्रमाणनि० पृ० १२ । प्रमेयरत्नमा० ३।१५।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org