________________
१५८
सिद्धिविनिश्चयटीकायाम् [२ सविकल्पकसिद्धिः दिकम" इति; तदनेन [१३२ख] निरस्तम् ; निरंशपरमाणुस्वभावस्य नीलादेः साध्यधर्मित्वे सुखादेश्च दृष्टान्तत्वे साध्यधर्मिप्रभृति सर्वमसिद्धम् अप्रतिभासनात् । चित्रैकरूपस्य तत्त्वे' सर्व सिद्धं विपर्ययात्, इदं त्वसिद्धम्-'तज्ज्ञानम्' इति, तत्रं तदसंभवाद् अनभ्युपगमात् , परस्य चित्रकज्ञानसिद्धः । तम (तद)न्यत्र निरंशे वस्तुनि ज्ञानत्वं साध्यो धर्मो वर्त्तते अन्यत्र साध्यधर्मी ५ दृष्टान्तधर्मी च यत्र साध्यधर्मो वर्त्तते इति न किञ्चिदेतत् ।
ननु च नीलादेर्यद्यपि स्थूलादिरूपेण स्वतत्त्वं मुक्त्वा अवभासनं तथापि न स्वसंवेदनरूपतया, अतः तया तस्य सत्यसत्य (सत्यताऽसत्यता) वा न प्रकृतरूपेणेति चेत् ; अत्राहयथाकथञ्चित् इत्यादि।
[ यथाकथञ्चित्तस्यात्मरूपं मुक्त्वावभासिनः ।
स्यादन्तः सत्याकारो ज्ञानस्य बहिर्न किम् ॥२०॥ ] तस्य नीलादिसुखादिमात्रस्य । कथम्भूतस्य ? अवभासिनः प्रतिभासवतः तच्छीलस्य वा। किं कृत्त्वा ? आत्मरूपं मुक्त्वा अद्वयस्वभावं विहाय । कथमवभासिनः ? यथाकथञ्चिद् येन केनचित् स्थूलादिग्राह्यादिप्रकारेण, सत्याकारो (र:) चित्स्वसंवेदनरूपतया न स्थूलादिरूपतया स्यात् भवेत् । कस्य ? ज्ञानस्य । क्षान्तः (क ? अन्तः) स्वस्व१५ रूपे तथा सन्ति (सति) विभ्रमेतररूपतया चित्रमेकं ज्ञानं स्यादिति मन्यते । भवत्वेवं को दोष इति
चेत् ; अत्राह-बहिः बाह्य वस्तुनः किं स्यादेव सत्याकारं विभ्रमे (मै)कम् । अथवा तस्य ज्ञानस्य सत्याकारः [१३३क] कथञ्चिन्नीलादिरूपतया न स्थूलादिरूपतया न किञ्चित्. स्यादेव । क ? बहिः । तथा च सौत्रान्तिको विजयते न योगाचारः, तस्य क[थ]श्चित् जाग्रदशासम्बन्धितया न स्वप्नाद्यवस्थासम्बन्धितया। ततो निराकृततो निराकृतमेतत्-*"निराल२० म्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् स्वमप्रत्ययवत् ।" [प्र. वार्त्तिकाल० ३।३३१] *"विवा
दगोचरापन्नो ग्राह्याकारोऽसत्यः तथा स्वप्नदृष्टतदाकारवत्" इति । कथम् ? ज्ञानस्य स्थूलाद्याकारवत् प्रतिभासनात् स्वसंवेदनाकारस्यापि सत्यताविरहप्रसङ्गात् बहिरर्थवत् न तदाकारसिद्धिः स्यादिति ।
____ कारिकायाः सुगमत्वाद् व्याख्यानमकृत्वा क र्ण क मतप्रवेशार्थ पूर्वोक्तमुपसंहरन्नाह२५ यथा इत्यादि।
(१) साध्यधर्मित्वे दृष्टान्तत्वे च । (२) प्रतिभासनात् । (३) निरंशज्ञानात्मके तद्व्यवहाराभावादिति भावः । (४) प्रज्ञाकरस्य । (५) 'निराकृततो' इति पदं पुनरुक्तम् । (६)“न नीलाद्यतिरेकेण ग्राह्यत्वमपरं कचित् । नीलादिता च विभ्रान्तविज्ञानेऽप्यवभासनात् ॥ पुरः स्फुटावभासित्वं भ्रान्तेर्वा न किमीक्ष्यते । तस्मान किंचिद् ग्राह्यत्वं यद् भ्रान्तादतिरिच्यते ॥” (पृ० १७७)। "नीलादयो हि स्वप्नप्रतिभास. वदसत्याः" (पृ० १८५) "ग्राह्यता प्रतिभासादन्या नास्ति' (पृ० १९६ । २९५)। "तस्मादनादितथाभूताानुमानपरम्पराप्रवृत्तमनुमानमाश्रित्य बहिरर्थकल्पनायां ग्राह्यग्राहकसंवेदनकल्पनाप्रवृत्तः ग्राह्यादिकल्पना। परमार्थतः संवेदनमेवाविभागमिति स्थितम्" (पृ. ३९८ ) "ग्राह्यग्राहकभावो हि नैवास्ति परमार्थतः। अपरप्रत्ययं रूपमतद्व्यावृत्तितस्तथा ॥"-प्र. वार्तिकाल. पृ०४२७। (७) कर्णकगोमिनामा प्रमाणवार्तिकस्ववृत्तिटीकाकारो बौद्धाचार्यः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org