________________
२।१९]
विज्ञप्तिमात्रतानिरासः इति; विज्ञप्तिमात्रेऽपि समानं सर्वमेव च ।
मुक्त्वा स्वतत्त्वं तस्य अन्यथा प्रतिभासनात् ॥१९॥ ] यथाकथञ्चित् येन केनचित् सामान्यादिप्रकारेण विकल्पस्य अविकल्पस्य वा अवभासिनः । किं कृत्वा ? मुक्त्वा । किम् ? अर्थरूपम् । कथंभूतम् ? सत्यम् अवितथम् निरंशं तस्यैव सत्यत्वात् । तस्य किम् ? इत्याह-कथम् इत्यादि । 'सत्यम्' इत्येतदत्रापि ५ योज्यं लब्धलिङ्गविभक्तिपरिणामम् । ततोऽयमर्थः-सत्याः अवितथाः कथम् ? कथञ्चित् सु (स्युः) भवेयुः आकाराः निर्भासा यतः सत्याकारेभ्यो बहिः । इति शब्दः पूर्वपक्षसमाप्तयर्थः ।
___ तत्र उत्तरमाह-विज्ञप्ति इत्यादि । बहिरर्थशून्या विज्ञप्तिरेव तन्मात्रं तत्रापि न केवलं बहिरर्थे सर्व निरवशेषम् अनन्तरं बहिरर्थदूषणं समानम् ततो [१३२क] बहिरर्थवत् माध्य-१० स्थ्यबद्धपरिकरण प्रामाणिकजनेन तदपि परिहरणीयमिति मन्यते । कुत एतत् ? इत्यत्राह-खतत्वम् इत्यादि। अत्रायमभिप्रायः-*"चित्रं तदेकमिति चित्रतरं ततः"प्र०वा०२।२००] इति वदता तन्मात्रमपि चित्रमेकं नाभ्युपगन्तव्यं किन्तु निरंशमेकम् , तथा च *"चित्रप्रतिभासापि एकैव बुद्धिः" [प्र. वार्तिकाल० ३।२२०] इत्यादि स्ववचनविरुद्धम् । तच्चन नीलादिसुखादिशरीरव्यतिरिक्तम् , परस्य अनभ्युपगमात् , अन्यथा *"न नीलादिसुखादि- १५ शरीरव्यतिरिक्तं जडार्थग्राहकमस्ति" इति प्रज्ञा क र गुप्तस्य वचनं न सुभाषितं स्यात् । अप्रतिभासनाच्च, अन्य [था] ब्रह्मप्रतिभासोऽपि कथं निराक्रियेत ? ततो नीलादिसुखादिशरीरस्वभावं तदित्यभ्युपगन्तव्यम् । तस्य च स्वतत्त्वम् आत्मस्वभाव (वं) क्षणिकनिरंशपरमाणुपरिमाणं मुक्त्वा विहाय अन्यथैव स्थिरस्थूलसाधारणात्मना प्रतिभासनात् । उक्तं च अत्रैव-*"पश्यन् स्वलक्षणान्येकं स्थूलम्" [सिद्धिवि० १।१०] इत्यादि । इतरथा यदुक्तं २० प्रज्ञा क रे ण-*"तदेतन्नूनमायातम्" [प्र०वा० २।२१०] इत्यादिना परमाणुप्रतिभासं व्यवस्थापयतो (ता) 'अतिसूक्ष्मेक्षिकया विचारयतोऽपि स्थूलैकप्रतिभासो नति (नाति)वर्त्तते' इत्याशक्य *"मायामरीचिप्रभृतिप्रतिभासवद् असत्त्वेऽप्यदोषः"[प्र०वार्तिकाल ०३।२११] इति तदनवसरं स्यात् , स्वतत्त्वावभासे तदयोगात् ।
यत्पुनरुक्तं तेनैव-*"यदवभासते तज्ज्ञानं यथा सुखादि, अवभासते च नीला-२५
(१) विज्ञप्तिमात्रमपि । (२) "चित्रं तदेकमिति चेदिदं चित्रतरं ततः । ...चित्रं नीलपीताद्यात्मकं तत् पतङ्गादिकमेकमिति चेत् ; इदम् 'चित्रमेकम्' यदुच्यते तत् ततः चित्रपतङ्गादपि चित्रतरम् आश्चर्यतरम् । चित्रमिति नानारूपाणि तदेव पुनरेकमुच्यत इत्युपहसति ।"-प्र० वा. मनोरथ । (३) विज्ञप्तिमात्रमपि । (४) प्रज्ञाकरोक्तम् । (५) "नीलादिसुखादिकमन्तरेणापरस्य ज्ञानाकारस्यानुपलक्षणात्" (पृ० ३४५ ) "यथा च न सुखादिव्यतिरेकेणापरं विज्ञान तथा नीलादिव्यतिरेकेणापि।" (पृ० ४०९, ४५४)। "नीलान व्यतिरेकेण विषयिज्ञानमीक्ष्यते" (पृ. ४०६) "न हि सितासितादिव्यतिरेकेणापरा ग्राहकादिता प्रतिभासमानोपलभ्यते ।"-प्र० वार्तिकाल. पृ० ३७८ । (६) "इदं वस्तुबलायातं यद् वदन्ति विपश्चितः । यथा यथार्थाश्चिन्त्यन्ते विशीर्थन्ते तथा तथा ॥"-प्र० वा० । (७) उत्तरं प्रदत्तं तदनवसरं स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org