________________
सिद्धिविनिश्चयटीकायाम्
[ २ सविकल्पसिद्धिः
एतेन दर्शनदृष्टविषयत्वमपि विकल्पस्य निरस्तम् ; तथा तदभिप्रायाभावात् । वस्तुविकल्पस्य तंद्वयवस्थेति चेत् ; अत्राह - वस्तुतः परमार्थतः । पुनः इति पक्षान्तरद्योतने, विकल्पबुद्धेः अनुमानविकल्पबुद्ध ेरपि अन्यस्याः स्वयं [१३१क] परेण तत्त्वोपगमात् विसंवादोऽपि वचनं न केवलमवस्तुनिर्भास एव । तथा च इतरविकल्पवद् अनुमानविकल्पोऽपि प्रमाणं न भवेदिति ५ मन्यते । अस्तु तर्हि सर्वा विकल्पबुद्धिरप्रमाणं विसंवादात् अवस्तुनिर्भासाच्च, अविकल्पबुद्धिस्तु प्रमाणं 'विपर्ययादिति चेत्; अत्राह - तथैव इत्यादि । अविकल्पबुद्धेः बौद्ध ेन स्वलक्षणविषयत्वोपगमात् क्वर्थं (कथं) तदवस्तुविषयत्वमिति मन्वानः परः पृच्छति 'कथमनर्थनिर्भास:' इति ? अत्रोत्तरमाह—स्थूलस्यैकस्य [ प्रतिभासनात् ] इत्यादि । इदमेव वस्तुलक्षणमिति चेत्; अत्राहवस्तुनः इत्यादि । वस्तुनः अर्थक्रियाकारिणो भावस्य तस्माद् उक्ताल्लक्षणाद् विपरीतम् १० अन्यथाभूतम् अद्वयरूपं लक्षणं पश्य (यस्य) तस्य भावात् तत्त्वात् । पैरप्रसिद्ध्या इदमुक्तम्, तत एव अवस्तुनिर्भासादेव विसंवादोऽपि न केवलम् अवस्तुनिर्भास एव 'अविकल्पबुद्धे : ' इति सम्बन्धः । तथा च * " प्रमाणमविसंवादि ज्ञानम् " [प्र० वा० १1३] इत्यादि परस्य असंभव प्रमाणलक्षणमिति प्राप्तम् ।
१५६
१५
"
ननु व्यवहारमाश्रित्य * " प्रमाणमविसंवादि ज्ञानम्" इत्युक्तम् *" व्यवहारेण " [प्र०वा०१७ ] इत्यादि वचनात् । न च जनाः तदवस्तुनिर्भासेऽपि संवादभाजः प्रतीयन्ते, तदवस्तुनिर्भास एव वस्त्वध्यारोपेण प्रवृत्तौ तत्परितोषदर्शनात् तत्परितोषश्च विसंवाद सौगतं मतम्, तत् कस्येव तस्या विसंवाद इति चेत्; अत्राह - [ १३१ख] विकल्पवद् इति । दर्शनोत्तरकालभाविनो विकल्पस्य इव तद्वदिति । एतदुक्तं भवति - यथा विकल्पस्य अवस्तुसामान्यनिर्भासिनो विसंवादः ततः प्रवृत्तौ जातपरितोषेऽपि व्यवहारिणि तथा अविकल्पबुद्धेरपि । २० इतरथा तद्वत् विकल्पस्यापि प्रामाण्यसिद्धि: (:) प्रमाण संख्यानियमः स्वलक्षणैकान्तश्च निरवसरः स्यात् ।
एतेनेदमपि निरस्तं यदुक्तम् अ र्च टे न व्यवहर्त्रभिप्रायवशाद् विकल्पस्य गृहीतग्रहणात् प्रामाण्यमुक्तं, न भावतः, 'तत्र तदभावात्,' , परमार्थतः पुनः अवस्तुनिर्भासात्” ' इति ; कथम् ? अविकल्पबुद्धेरपि अस्य समानत्वात् ।
२५
अधुना योगाचारस्य मतं दूषयितुं दर्शयति-यथा इत्यादि ।
[ यथाकथञ्चित्तस्यार्थरूपं मुक्त्वाऽवभासिनः । सत्यं कथं स्युराकारा निर्भासा यतो बहिः ॥ १८ ॥
(१) दर्शनदृष्टविषयत्वव्यवस्था । (२) विसंवादत्वस्वीकारात् । (३) अविसंवादात्, स्वलक्षणवस्तुविषयत्वाच्च । (४) बौद्धाभिप्रायेण । ( ५ ) " प्रामाण्यं व्यवहारेण । " - प्र० वा० । (६) अविकल्पबुद्धेः । (७) प्रत्यक्षानुमानरूपप्रमाणद्वय संख्या । (८) विकल्पे । (९) तुलना - " यद्यपि तेनानधिगतं सामान्यमधिगम्यत इति वर्ण्यते तथापि तदर्थं क्रियासाधमं न भवतीति तदधिगन्ता तैमिरिकादिज्ञानप्रख्यो विधिविकल्पो न प्रमाणम्" जातेस्तु अर्थक्रियासाधनत्वाभावादनधिगताया अधिगमेऽपि केशादिज्ञानस्येव न प्रामाण्यम् ।" - हेतुबि० टी० पृ० २७।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org