________________
२।१७ ]
प्रत्यक्षस्य सविकल्पकता
१५५
प्रमाणाद् यद् अनुमानं तदन्तरम् तदेव वा किं यत इदं शोभेत - "त्रिरूपात् लिङ्गाद्" [न्यायबि०२।३] ईत्यादि । 'तदाभासम्' इत्येतत् मध्ये करणादत्रापि सम्बध्यते । प्रमाणान्तराभासं वा किम् ? तत् (तन्न ) सूक्तम् - * ' ' हेत्वाभासाः ततोऽपरे" [हेतुवि० श्लो० १] इत्यादि । पक्षादितदाभासयोः [१३०क] साध्यज्ञानस्य वा असिद्धेरिति मन्यते ।
कारिकार्थं दर्शयितुमाह-विकल्प इत्यादि । विकल्पबुद्धेः लिङ्गविषयात्मा (यायाः) न ५ केवलमवस्तुनिर्भासः । किं तर्हि ? किन्तु विसंवादोऽपि वचनमपि ( कञ्चनमपि ) । ततो निराकृतमेतत्
*"लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि ।
प्रतिबन्धात् 'तँदाभासशून्ययोरप्यवञ्चनम् ||" [ प्र०वा०२।८२] इति । कुत एतत् ? इत्यत्राह - विशेष इत्यादि । सामान्यस्य प्रतिपत्तिः यस्यां सा तथोक्ता १० तस्या विकल्पबुद्धः प्रवृत्तेन विशेषाणां दर्शनात् शङ्ख पीतप्रतिपत्तेः प्रवृत्तेन शुक्लदर्शनादिव । ननु विशेषेषु तद्विसंवादेऽपि न तत्साध्यायां स इति चेत्; अत्राह -अर्थम् इत्यादि । अर्थं पावकादिकं परिच्छिद्य अनया विकल्पबुद्धया प्रवर्तमानः जनोऽर्थक्रियायां दाहादिलक्षणायां विसंवाद्यते ' विशेषदर्शनात् सामान्यप्रतिपत्तेः' इत्येतदत्रापि सम्बध्यते । एतदुक्तं भवति - यथाविधम परिच्छिद्य प्रवर्त्तते जनः तथाविधार्थसाध्याऽर्थक्रियाप्राप्तौ तत्र तदविसंवादो नान्यथा, १५ इतरथा पीतज्ञानात् प्रवर्त्तमानस्य शुक्लशङ्खार्थकियाप्राप्तौ तंत्र ज्ञानमविसंवादि स्यादिति । अनुमानविकल्पबुद्धया न विसंवाद्यते इति चेत्; अत्राह - पुनः इत्यादि - पुनः लिङ्गबुद्धयनन्तरम् अनुमानादर्थं परिच्छिद्य प्रवर्त्तमानो विसंवाद्यते, क ? क्षणभङ्गादिषु [१३०ख ] विशेषदर्शनात् सामान्यप्रतिपत्तेः ।
ननु *“व्याख्यातारः खल्वेवं विवेचयन्ति न व्यवहर्त्तारः । ते हि दृश्यविकल्प्या - २० वर्थौ एकीकृत्य यथेष्टं प्रवर्त्तन्ते, तदभिप्रायवशात् तद्वञ्चनमुक्तम्” [प्र०वा०स्व० १।७२] इति चेत् ; अत्राह-व्यवहर्त्र भिप्राय इत्यादि । व्यवहर्तॄणाम् व्यवहारिणाम् ‘यदेव अस्माभिः लिङ्गबुद्ध ेः लिङ्गिबुद्धेर्वा प्रतिपन्नम् तदेव प्राप्यते' इति योऽभिप्रायः तद्वशात् क्षणिकविकल्पानां प्रामाण्यव्यवस्थायां नित्यादिविकल्पानां वाऽप्रमाण ( प्रामाण्य) व्यवस्थायां क्रियमाणायां विकल्पा[विकल्प]योः प्रमाणेतरव्यवस्था प्रसज्येत । दर्शनोत्तरकालभावी नीलादिनिश्चयः इह २५ विकल्प इत्युच्यते नाऽनुमानम् अत्र परस्य विवादाऽभावात् तस्य प्रमाणत्वव्यवस्था - 'यदेव तेन परिच्छन्नं तदेव प्राप्यते' इति, तदभिप्रायवशाद् अविकल्पस्य अप्रमाणत्वव्यवस्था प्रसज्येत अनेन अर्थ परिच्छिद्य प्रवर्त्तमाना वयं तत्प्राप्तिनत्तइतितन्नेतितत्तद् ( न तत्प्राप्तिमन्त इति तद) - भिप्रायः । अन्यथा *“मनसोर्युगपद्वृत्तेः " [प्र० वा० २।१२३] इत्यादि अनर्थकं स्यात् ।
"
( १ ) " तत्र स्वार्थं त्रिरूपाल्लिङ्गाद् यदनुमेये ज्ञानम्" - न्यायबि० । ( २ ) सम्बन्धात् । ( ३ ) लिङ्गाभास - लिङ्ग्याभासरहितयोः अर्थात् सम्यकूलिङ्गलिङ्गिनोः अवञ्चनम् अविसंवादः । (४) पीते । (५) बौद्धस्य । (६) व्यवहर्त्रभिप्रायवशात् । ( ७ ) " सविकल्पाधिकल्पयोः । विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥” इति शेषः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org