________________
१५४
सिद्धिविनिश्चयटीकायाम् [२ सविकल्पसिद्धिः अर्थक्रियासमर्थस्य खलक्षणस्य दृष्टिदर्शनम् ग्राहकं यतः। 'तद्वत् तत्स्मृतिरपि तद्ग्राहिका इति चेत् ; अत्राह-विकल्पबुद्धः अतद्विषयत्वात् अर्थकियासमर्थाऽविषयत्वात् कारणात् अनर्थिका इति । भवतु अतद्विषया तथापि तत्सत्तयैव नः प्रयोजनमिति चेत् ; अत्राह-सत्त्व इत्यादि । तत्त्वदर्शिनः सौगतस्य अन्यस्य वा अर्थक्रियार्थिनः तस्य तत्त्वस्य या विपरीता ५ समानाकारस्मृतिः तस्या उत्पादने यः प्रयत्नः तस्य अनुपपत्तेः 'अनर्थिका' इति । नहि नीलदर्शिनः तक्रियार्थिनः पीतस्मृतिकरणे प्रयत्न उपपद्यते ।
अत्र परमतमाशक्यते तद् इत्यादि दूषयितुम् । तस्य तत्त्वस्य दर्शनं तस्य बलं सामयं तेन उत्पत्तेः तत्रत्वे (तत्त्वे) प्रवर्तनात्व (च) न अनर्थिका अनुमानवत् इति चेत् ;
अत्राह-तस्याः समानाकारस्मृतेः तर्हि प्रामाण्यंयुक्तम् उपपन्नम् , न दृष्टेः प्रामाण्यं युक्तम् इति । १० कुतः ? इत्याह-तद् इत्यादि । तदभावे तत्स्मृत्यभावे संवादायोगात् धर्मा (धा) द्यविप्रति
पत्तेरयोगात् । कुतः ? इत्याह-[१२९ख] प्रमाण इत्यादि । व्याख्यातमेतत् प्रथमप्रस्तावे । विशेषम् इत्याद्युपसंहरन्नाह-तद् इत्यादि । यत एवं तत् तस्मात् अयं सौगतः विशेषदर्शनात् सामान्यस्मृतिव्यवहारं प्रवर्तयन् अविकल्प एव परामर्शशून्य एव । तन्नास्य प्रमाणान्तरस्य सिद्धिरिति कुतः तत्त्वप्रतिपत्तिरिति स्थितम् । १५ भवतु तर्हि यथातत्त्वमेव मानादिव्यवस्था, सा च सौगतमत एव; इत्यत्राह
[विकल्पेऽनर्थनिर्भासे विसंवाद्यविकल्पके।
प्रत्यक्षं किं तदाभासं प्रमाणान्तरमेव वा ॥१७॥ विकल्पबुद्धेः न केवलमवस्तुनिर्भासः किन्तु विसंवादोऽपि सामान्यप्रतिपत्तेः विशेषदर्शनात् । अनयाऽर्थ परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते । पुनरनुमानात् २० क्षणभङ्गादिषु व्यवह भिप्रायवशात् प्रामाण्याप्रामाण्यव्यवस्थायां विकल्पाविकल्पयोः प्रमा
णेतरव्यवस्था प्रसज्यते । वस्तुतः पुनः विकल्पबुद्ध: विसंवादोऽपि तथैवाविकल्पबुद्ध। कथमथनिभास इति चेत् ; स्थूलस्यैकस्य प्रतिभासनात् वस्तुनो तद्विपरीतलक्षणत्वात् । तत एव विसंवादोऽपि विकल्पवत् । ]
विकल्पे अनुमाने अन्यस्मिन् वा अनर्थनिर्भासे वस्तुसामान्याकारे विसंवादिनि २५ विगताऽविप्रतिपत्तिप्रपञ्चे यदि[वा]व्यभिचारिणि सत्यविकल्पके क्षणिकनिरंशैकपरमाणुनिष्ठे दर्शने प्रत्यक्षं किं न किञ्चिद् विकल्पज्ञानम् अन्यद्वा, यदि वा स्वसंवेदनम् अन्यद्वा, यत इदं सूक्तं स्यात्-*"कल्पनापोढं ज्ञानं प्रत्यक्षम्" [प्रमाणसमु०पृ०८] इति, तदाभासं किम् ? न किञ्चित् , प्रत्यक्षापेक्ष्यस्यास्यं तदभावे' अभावादिति तद्वयवच्छेदार्थमभ्रान्तग्रहणमयुक्तम् । पश्य हि (यस्य हि) बहिरिव अन्तः परमाणुमात्रं तत्त्वं न तस्य द्विचन्द्रादिदर्शनमपि । प्रत्यक्ष
(१) दर्शनवत् । (२) विशेषस्मृतिरपि । (३) अर्थक्रियाकारिस्वलक्षणाविषयत्वात् । (४) विकल्पबुद्धिसद्भावेनैव । (५) नीलार्थक्रियाभिलाषिणः । (६) समानाकारस्मृतिः। (७) सौगतस्य । (८) प्रत्यक्षाभासस्य । (९) प्रत्यक्षाभावे । (१०) 'कल्पनापोढमभ्रान्तं प्रत्यक्षम्' इति प्रत्यक्षलक्षणे । (११) बौद्धस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org