________________
२१६]
प्रत्यक्षस्य सविकल्पकता [१२८क] इत्यपि [वि कल्पना निश्चिते प्रमाणान्तरवैफल्यादिति मन्यते । विलक्षणे लक्षिते च सदृशस्मृतेरभावात् तया हेतुः इति अविकल्पना इति ।
__ ननु स्यादयं दोषो यदि तत्सर्वथा न सर्वं लक्षयेत् । लक्षयति इति चेत् ; अत्राह-स्वविषय इत्यादि । स्वो बोधात्मा विषयोऽर्थः, यदि स्वावेव (तावेव) विशेषौ भेदौ सर्वतो व्यावृत्तत्वात् , तयोर्निर्भासः तदाकारता स विद्यते यस्य तत्तथोक्तं ज्ञानम् । कथंभूतम् ? प्रत्यक्षम् अविकल्प-५ दर्शनम् आत्मानं स्वस्वरूपम् , उपलक्षणमेतत्-तेन विषयस्वरूपं च, कथञ्चित् सत्त्वादिरूपेण न क्षपति (लक्षयति) इत्येवं विरुद्धम् एकस्य लक्षितेतरस्वभावे अनेकान्तप्रसङ्गादिति मन्यते । सर्वथा तर्हि लक्षयति इति चेत् ; अत्राह-यथासमयम् इत्यादि । समयस्य सौगतकल्पितं तस्य (ल्पितस्य) अनतिक्रमेण यथासमयं प्रतिपत्तेः तत्त्वस्य, लक्षयतीति विरुद्धम् । तत्प्रतिपत्त्यङ्गीकरणे दूषणमाह-प्रतिपत्तौ वा प्रमाणान्तराकृत्तिप्रसङ्गात् विरुद्धम् । कुत एतत् ? इत्यत्राह- १० विशेष लक्षयतो निराकाङ्क्षत्वात् । तथापि तवृत्तिः स्यादिति चेत् ; अत्राह-कथञ्चित् इत्यादि । नीलादिप्रकारेणेव क्षणिकत्वादिप्रकारेणापि अप्रयतमानस्य वस्तु साधयितुमनीहमानस्य कुतः कारणात् स्मृतिदृष्टान्तस्मरणं यतः स्मृतेः समारोपव्यवच्छेद [१२८ख] विकल्पः 'तद्व्यवच्छेदकमनुमानम् । कुत एतत् ? इत्याह-समेत्यादि । तथापि तत्संभवे दूषणमाह-तद् इत्यादि । तेन प्रत्यक्षेण लक्षितस्य समारोपे अङ्गीक्रियमाणे अतिप्रसङ्गात् अनुमानलक्षित- १५ स्यापि स्यात् । भवतु को दोषः इति चेत् ; अत्राह-किम् [अकिञ्चित्कर] इत्यादि । तस्य अकिञ्चित्करादिकादि(रादि)दर्शनवत् व्यवहारानुपयोगित्वादिति मन्यते । तर्हि सर्वथा न [ल]क्षयतीति चेत् ; अत्राह-यदि पुनः इत्यादि । अनुभूतं [अनुभव] विषयीकृतं सर्वथा क्षणिकत्वादिना इव नीलत्वादिनापि यदि न लक्षयेत् , प्रत्यक्षम्' इति सम्बन्धः । कुतः समारोपव्यवच्छेदप्रयत्नः समारोपव्यवच्छेदोऽनुमानं तत्र प्रयत्नः कुतः ? सुषुप्तस्य इव तद्वत् इति । २०
___ स्यान्मतम्-उत्तरविकल्पजननात् प्रत्यक्षं तल्लक्षयति इत्युच्यते ततोऽयमदोषः इति ; तत्राह-विशेषम् इत्यादि । विशेषणं (पं) पश्यतो दर्शनस्य लोकस्य वा समानाकारस्मृतिरयुक्तैव । कथंभूतस्य ? लक्षयतो वा विशेषमिति लक्षणोकृतविकारेऽपि (लक्षणीकृतविचारेऽपि) पुनः 'लक्षयतः' इति वचनं दोषान्तरप्रतिपादनार्थम् । कुतः सा न युक्ता ? इत्याह-तयोः विशेषदर्शनसमानाकारस्मृत्योः असम्बन्धात् तादात्म्यतदुत्पत्तिसम्बन्धविरहात् । २५
अथ मतम्-मा भूद् विसदृशयोः तादात्म्यलक्षणः सम्बन्धः, पावकधूमयोरिव तदुत्पत्ति[१२९क] लक्षणः स्यादिति चेत् ; अत्राह-अतिप्रसङ्गो हि एवं स्यात् नीलानुभवस्य पीतस्मृतिः स्यात् विसदृशत्वाविशेषात् ।
___ ततः तदुत्पत्तिमभ्युपगम्य दूषणान्तरमाह-अनर्थिका चेयम् इत्यादि । अनर्थिका निष्प्रयोजनिका। च इति पूर्वदूषणसमुच्चये, इयं समानाकारस्मृतिः। कुतः ? इत्याह-अर्थक्रिया इत्यादि। ३०
(१) समारोपव्यवच्छेदकम् । (२) अनुभूतम् । (३) यद्यपि विशेषरूपेण लक्षणीकृत एव विचारः प्रवर्तते । (४) सदृशस्मृतिः । (५) कार्यकारणभावात्मकः । (६) नीलानुभववतः पुरुषस्य ।
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org