________________
१५२
सिद्धिविनिश्चयटीकायाम् [२ सविकल्पसिद्धिः मपि । चिन्तितं चैतत्-*"अङ्गीकृतात्मसंवित्ते" [सिद्धिवि० १।१८] इत्यादिना । न च तस्य रूपद्वयं येन कथञ्चिल्लक्ष्यं स्यात् , एकान्तहानिप्रसङ्गात् । एतदप्युक्तम्"प्रसिभास्ये(सै)क" [सिद्धिवि०१।१०] इत्यादिना । अथवा प्रत्यक्षस्य स्वपरभावयोः विभ्रमः स्वभावः सर्वविकल्पातीतता वा स इव स्वभावो यस्य तस्य भावात् तत्त्वात् 'इति । ततो यथा प्रत्यक्षान्न स्वपरयोः ५ सिद्धिः तथा अनुमानादपि इति । यथा वा, न विभ्रमादि[१२७ख] व्यवस्था तथा अध्यक्षानुमानव्यवस्थापीति भावः। व्यवहारेण तत्सिद्धिरिति चेत् ; अत्राह-सर्वथा इति । सर्वेण परमार्थप्रकारेणेव व्यवहारप्रकारेणापि सर्वथा सिद्धिः [असिद्धेः] इति विकल्पाभावे अत्यन्तव्यवहारापहारात् मिथ्र्यकान्ते तद्ग्रहादिति ।
____एवं परस्य प्रतीत्यभावेन प्रमाणान्तराऽसिद्धिरुक्ता, साम्प्रतं कारणाभावेन सी उच्यते इति १० दर्शयितुमाह- निबोध इत्यादि ।
[निबोधः सर्वतोऽन्यस्य विलक्षणमलक्षयन् । __ अनीहः सदृशस्मृत्या हेतुरित्यविकल्पना ॥१६॥
स्वविषयविशेषनिर्भासं प्रत्यक्षमात्मानं कथञ्चिन्न लक्षयतीति विरुद्धम् , यथासमयं प्रतिपत्तेः । प्रतिपत्तौ वा प्रमाणान्तरावृत्तिप्रसङ्गात् । विशेष लक्षयतो निराकाङ्क्षत्वात् १५ कथञ्चिदप्रयतमानस्य कुतः स्मृतिर्यतः समारोपव्यवच्छेदविकल्पः । समा । तल्लक्षित
समारोपे अतिप्रसङ्गात् किमकिञ्चित्करादिदर्शनवत् । यदि पुनः अनुभूतं सर्वथा न लक्षयेत् कुतः समारोपव्यवच्छेदप्रयत्नः सुषुप्तवत् । विशेष पश्यतो लक्षयतो वा समानाकारस्मृतिरयुक्तैव तयोरसम्बन्धात् । अतिप्रसङ्गो ह्येवं स्यात् । अनर्थिका चेयम् अर्थक्रिया
समर्थस्वलक्षणदृष्टिाहकं यतः विकल्पबुद्धरतद्विषयत्वात् । तत्त्वदर्शिनस्तद्विपरीतस्मृत्यु२० त्पादनप्रयत्नानुपपत्तेः तद्दर्शनबलोत्पत्तेः तत्त्वे प्रवर्तनाच्च नानार्थिका अनुमानवदिति
चेत् ; तस्यास्तर्हि प्रामाण्यं युक्तं तदभावे संवादायोगात् । प्रमाण । तदयं विशेषदर्शनात् सामान्यस्मृतिव्यवहारं प्रवर्तयन्नविकल्प एव । ]
निबोधो बोधो हेतुः कारणम् [अन्यस्य] प्रमाणान्तरस्य इति अविकल्पना वोम्मय(वोन्मत्त)स्य कल्पना। किं कुर्वन् ? अलक्षयन् अनिश्चिन्वन् , सर्वतः सजातीयाद् अन्य२५ तोऽर्थान्तराद् विलक्षणं व्यावृत्तं परकल्पितं वस्तु धर्मादे (धादेर) सिद्धेः, अनिश्चितस्य अस्य
अनुमानहेतुत्वे स्वापादौ प्रसङ्ग इति चोक्तम् , तदुत्तरकालभाविविकल्पापेक्ष (क्षः) तद्धतुः इति चेत् ; अत्राह-सदृशस्मृत्या इति । सदृशस्मृत्या सदृशविकल्पेन कारणेन स तस्य हेतुः इत्यपि अविकल्पना विकल्पप्रमाणान्तरतापत्तेः। यद्वक्ष्यति अत्रैव वृत्तौ 'तस्याः तर्हि' इत्यादि ।
सं तर्हि तल्लक्षयन् तस्य हेतुरिति चेत् ; अत्राह-अनीहः इत्यादि । अनीहः सत्त्वादिवत् ३० क्षणिकत्वादिरूपेणापि लक्षिते वस्तुनि अलक्षिता सा सम्भवात्ति (वति तन्नि)राकाङ्क्षः तस्य हेतुः
(१) प्रमाणान्तरासिद्धिः । (२) धादिज्ञानस्य । (३) निबोधः । (४) टीकायाम् । (५) नियोधः। (६) ईहा । (७) निबोधस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org