________________
२।१५]
अवग्रहादीनां प्रमाणफलरूपता तदा विशेषस्य विशेष्यस्य ज्ञानं फलम् , 'अस्य च प्रमाणत्वे संस्कारः फलम्" इत्यभिधानात मदीय एव मते तद्व्यवस्थितिः, तत्राह-अत्रैव इति । परीक्ष्यमाणे अस्मिन्नेव अनेकान्ते तत्त्वे [१२६ख तव्यवस्थिति रिति सम्बन्धः, अन्यत्र सामान्यादिव्यवस्थाऽभावादिति भावः ।
ननु च मध्यक्षणेक्षणक्षीणम् अध्यक्षं न पूर्वोत्तरक्षणौ ईक्षितुं क्षमते । नापि पूर्वापरपर्यायालोकनं मध्यक्षणमालोचते, खण्डे वृत्तिमत् न मुण्डादौ वर्तते तत्कुतः तदाधारस्य सामान्यस्य ५ तस्य तद्व्यापकस्येति चेत् ? अत्राह-पूर्वपूर्वस्य । पूर्वपूर्व यद्विज्ञानं तस्य तस्य उत्तरमुत्तरं च प्रतीतिः यज्ज्ञानं तत्प्रति साधकतमत्वात् अव्यवधानेन जनकत्वात् पूर्वपूर्वस्य उत्तरोत्तरज्ञानपरिणामादिति भावः । कथम्भूतस्य ? स्वविषयग्रहणानुबन्धमजहत एव स्वविषयं गृह्णदेव विषयान्तरग्रहणाकारेण परिणमते । ततः तदेतदि [त्यादि]ना सम्बन्धः । अत्र दृष्टान्तमाहस्मार्त्तज्ञानवत् इति । स्मृतिरेव स्मार्त ज्ञानं तस्य इव तद्वत् इति । एतच्च परस्य सुप्रसिद्धम, १० अन्यथा कथं काल्पनिकमपि सामान्यादिव्यवहारमारचयेत् ।
ननु सर्वत्र तद्वयवस्था यथादर्शनमेव न परमार्थत इति चेत् ; अत्राह-यथा इत्यादि । सर्वत्र अन्तर्बहिश्च महि (यदि) वा इतरमतवत् जैनमतेऽपि यथादर्शनमेव मानादिव्यवस्था न यथातत्त्वम् इत्येवम् एकान्ते अङ्गीक्रियमाणे कुतो न कुतश्चित् तत्त्वस्य *"यथादर्शनमेव" [प्र०वा ०२।३५७] इत्यादि [१२७क] स्वरूपस्य क्षणक्षयादिस्वरूपस्य वा प्रतिपत्तिः ? १५ एतदुक्तं भवति-यदि तत्र यथादर्शनमेव तद्वयवस्था बहिरर्थवन्न तत्सिद्धिः । अथ यथातत्त्वम् ; तदेकान्तप्रतिज्ञाहानिः इति । ननु मा भूत् प्रत्यक्षतः तत्प्रतिपत्तिः विचारात् स्यादिति चेत् ; अत्राह-प्रमाणान्तरस्यापि इत्यादि । इदमत्र तात्पर्यम्-यावान् कश्चिद्विचारः स सर्वोऽपि यदि अप्रमाणम् ; न ततो बहिरर्थवत् प्रकृततत्त्वसिद्धिः । अथ प्रमाणम् , न प्रत्यक्षम् ; विचारात्मकत्वात् [कल्पनापोढत्वाद] भ्रान्तत्वाच्च प्रत्यक्षस्य । अनुमानं चेत् ; तर्हि प्रमाणान्तरस्यापि २० अनुमानस्याप्यसिद्धिः (द्धेः) कुतः तत्त्वप्रतिपत्तिः ? कुतः तदसिद्धिः ? इत्यत्राह-प्रत्यक्षस्वभावत्वात् इति । प्रत्यक्षस्य अविकल्पस्य स्वभावः क्षणिकनिरंशपरमाणुरूपता इव स्वभावो यस्य [तस्य] भावात् तत्त्वात् । एतदुक्तं भवति-यथा अविकल्पदर्शनं न लक्ष्यं तथा अनुमानद्रव्यादिविषयं विशिष्टं ज्ञान प्रमितिरित्यर्थः। यदा निर्विकल्पकं सामान्यविशेषज्ञानमपि प्रमारूपमर्थप्रतीतिरूपत्वात् तदा तदुत्पत्तावविभक्तमालोचनमात्र प्रत्यक्षं विशेष्यज्ञानं विशेषणज्ञानस्य फलं विशेषणज्ञानं न ज्ञानान्तरफलं."यदा निर्विकल्पकं सामान्यविशेषज्ञानं फलं तदा इन्द्रियार्थसन्निकर्षः प्रमाणम् , यदा विशेष्यज्ञानं फलं तदा सामान्यविशेषालोचनं प्रमाणमित्युक्तं तावत् 'सम्प्रति हानादिबुद्धीनां फलत्वे विशेष्यज्ञानं प्रमाणमित्याह..."-प्रश. कन्द. पृ० १९९ । “प्रमाणफलते बुद्ध्योर्विशेषणविशेष्ययोः । यदा तदापि पूर्वोक्ता भिन्नार्थत्वनिराक्रिया विशेषणे तु बोद्धव्ये यदालोचनमात्रकम् । प्रसूते निश्चयं पश्चात्तस्य प्रामाण्यकल्पना ॥ निश्चयं तु फलं तत्र नासावालोचितो यदा । तदा नैव प्रमाणत्वं स्यादर्थानवधारणात् ॥ हानादिबुद्धिफलता प्रमाणं चेद् विशेष्यधीः । उपकारादिसंस्मृत्या व्यवायश्चेदियं फलम् ॥"-मी. श्लो० प्रत्यक्ष० श्लो० ७०-७३ ।
(१) विशेष्यज्ञानस्य । (२) मध्यक्षणावलोकनमात्रपर्यवसितम् । (१) गोविशेषे । (४) व्यक्तिनिठस्य । (५) बौद्धस्य । (६) व्यवहारतः । (७) “यथानुदर्शनं चेयं मानमेयफलस्थितिः। क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम् ॥"-प्र०वा० इति मतस्य । (८) "कल्पनापोढमभ्रान्तं प्रत्यक्षम्" (न्यायबि०१४) इति प्रत्यक्षलक्षणत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org