________________
१५० .
सिद्धिविनिश्चयटीकायाम् [ २ सविकल्पसिद्धि श्रद्दधीत ? नहि सञ्चिताः परमाणवः पारिमण्डल्यं क्षणिकत्वं वा जहति यतोऽन्यथा प्रतिभासेरन् । तदेतत्सामान्यं व्यापकमवगृह्य विशेषं प्रतीहमानं तथाऽवयत् धारयति इति युक्ता प्रमाणफलव्यवस्थितिः । अत्रैव तद्व्यवस्थितिसम्बन्धः । पूर्वपूर्वस्य स्वविषयग्रह
णानुबन्धमजहत एव उत्तरोत्तरं प्रति साधकतमत्वात् स्मार्तज्ञानवत् । यथादर्शनमेव सर्वत्र ५.मानादिव्यवस्था न यथातत्त्वमित्येकान्ते कुतस्तत्त्वप्रतिपत्तिः ? प्रमाणान्तरस्याप्यसिद्धेः। प्रत्यक्षस्वभावत्वात् सर्वथाऽसिद्धेः]
व्यापकं सामान्यं तस्य अवग्रहश्च व्याप्तो विशेषः तस्य समीहा अवायो धारणाश्च । ताः कथंभूताः ? इत्याह-संप्राप्त इत्यादि । संप्राप्तम् प्रमाणफलयोलक्षणं यकाभिः ताः तथोक्ताः । कथम् ? इत्याह-पौर्वापर्येण ।
ननु स्वलक्षणमात्रस्य सर्वत्र दर्शनात् अयुक्तमेतद्-व्यापकेत्यादि इति चेत् ; अत्राहपश्यन्नयम् इत्यादि । पश्यन्नयं सौगतः जनो वा 'असाधारणमेव न साधारणं पश्यति । कुत एतत् ? दर्शनात् असाधारणस्य अवलोकनात् इत्येवं परमसमञ्जसम् । कुत एतत् ? इत्यत्राहस्थूलाकारस्य इत्यादि । नास्त्येव तत्रं तस्य प्रतिभासः स्वलक्षणप्रतिभासादिति चेत् ; अत्राहतद्व्यतिरेकेण इत्यादि । तद्व्यतिरेकेण यथोक्तस्थूलाकारव्यतिरेकेण स्वलक्षणानि परिस्फुटं १५ यथा भवन्ति तथा तत्र अक्षबुद्धौ प्रतिभासन्ते इत्येवं रचितं शिलाप्लवं कः श्रद्धधीत ? यथोक्ताकारस्य तत्र प्रतिभासेऽपि एतेषां प्रतिभासकल्पने काष्ठप्लवे शिलाप्लवकल्पना स्यादिति मन्यते। अथ तान्येव सञ्चितानि तथावभासन्ते ; तत्राह-नहि [१२६ क] इत्यादि । हिः यस्मात् न परमाणवः चेतनेतराणवः संता (सञ्चिताः) सन्तः पारिमण्डल्यम् असर्वगतनिरंशत्वं जहति
क्षणिकत्वं वा सांशाऽक्षणिकत्वप्रसङ्गादिति मन्यते । यतः तत्त्यागाद् अन्यथा अन्येन परि२० मण्डलक्षणिकत्वप्रकारादिनेन (राद् मिन्नेन) सांशाऽक्षणिकत्वप्रकारेण प्रतिभासेरन् । यत इति वा आक्षेपे, नैव प्रतिभासेरन् । तथापि तथावभासने न किञ्चिद्विज्ञानमभ्रान्तं स्यादिति भावः ।
उपसंहर्तुमाह-तदेतद् इत्यादि । यत एवं तत् तस्मात् एतत् प्रतीयमानं प्रत्यक्षम् अवगृह्य । किम् ? इत्याह-सामान्यं द्विविधमपि , कथम्भूतम् ? व्यापकं स्वसकलविशेषस्वभावम् ,
अन्यस्य व्यापकत्वाभावात् । किं कुर्वत् किं करोति ? इत्यत्राह-विशेषं तद्व्याप्यभेदं प्रति २५ इहमानं तथा ईहितविशेषप्रकारेण अवयत् निश्चिन्वत् धारयति धारणीभवति इति एवं युक्तं (क्ता) प्रमाणफलव्यवस्थितिः।
अत्राह-नैयायिकादि:-*"विशेषणस्य सामान्यस्य व्यापकस्य यदा ज्ञानं प्रमाणं
(१) स्वलक्षणम् । “आद्यमसाधारणविषयमेव"-हेतुबि०, टी० पृ० २५ । (२) दर्शने । (३) स्थूलाकारस्य । (४) दर्शने । (५) स्वलक्षणानाम् । (६) परमाणुस्वलक्षणानि। (७) तिर्यगूर्वताभेदम् । (6) “यदा सन्निकर्षः तदा ज्ञान प्रमितिः, यदा ज्ञानं तदा हानोपादानोपेक्षाबुद्धयः फलम् ..."-न्यायभा० १०॥ ३ । “तत्र सामान्यविशेषेषु स्वरूपालोचनमानं प्रत्यक्ष प्रमाणम् "प्रमितिः द्रव्यादिविषयं ज्ञानम् अथवा सर्वेषु पदार्थेषु चतुष्टयसन्निकर्षादवितथमव्यपदेश्यं यज्ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणं "प्रमितिः गुणदोषमाध्यस्थ्यदर्शनमिति ।"-प्रश. भा० पृ० १८७ । “यदा निर्विकल्पकं सामान्यविशेषज्ञानं प्रमाणं तदा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org