________________
२।१५] अवग्रहादीनां प्रमाणफलरूपता
१४९ सम्बन्धः सदृशविकल्पं नियमेन अवश्यंभावेन योजयेत् अन्यथा नीलज्ञानं पीतविकल्पं योजयेत् अविशेषात् । कथम्भूतं तत् ? इत्याह-पूर्वापरपरामर्शशून्यं पूर्वः कारणक्षणः अपरः कार्यक्षणः तयोः परामर्शो विषयीकरणम् तेन शून्यम् । एतदुक्तं भवति-यदा तदर्शनं पूर्वापरयोर्न प्रवर्तते तदा तद्गतं सादृश्यं न विषयीकरोति तत्कथं तत्र स्मृतिहेतुः ? अननुभूते तँदयोगात् । इतरथा वर्तमाने वृत्तिमदिन्द्रियं तत्र दर्शनकारणं स्यात् इति न युक्तमेतत्
*"वर्तमाने सदाक्षाणां वृत्तिर्नातीतभाविनि ।।
तदाश्रितं कथं ज्ञानं वर्तेतातीतभाविनि ॥" [प्र०वार्तिकाल ३।१२६] इति । अथ पूर्वस्मरणसहायमपरदर्शनं तद्विकल्पेन योजयेत् , एवमपि [१२५क] पूर्वमात्रस्मृतिः स्यात् नापरसदृशे सादृश्याऽननुभवात् । तथापि तत्कल्पने परिमलस्मरणसहायं चक्षुः गन्धे ज्ञानमुपजनयेत् । अविषयत्वमुभयत्र समानम् । यदि पुनः पूर्वापरदर्शनाभ्यां तँदभेदेन व्यवस्थितं १० सादृश्यं प्रतिपन्नमेव केवलं पूर्वस्मरणसहायादुत्तरदर्शनात् तत्र विकल्प: स्यादिति चेत् ; तर्हि तदर्शनाभ्यां"तदभेदेन व्यवस्थितमेकत्वंप्रतिपन्नमेव केवलं पूर्वस्मरणसहायादपरदर्शनात् तत्र एकत्वज्ञानं स्यात् । न चैवंपरेण इष्यते । तन्न परस्य सदृशविकल्पं तद् योजयेदिति स्थितम् । पुनरपि कथंभूतम् ? इत्याह-अलक्ष्यमिति । निरंशपरमाणुरूपतया सन्तानान्तरवदभावेन सन्देहेन वा अनध्यवशेयंयमने (अलक्ष्यमनध्यवसेयं नियमेन) बन्ध्यासुतदर्शनमिव तत्र कथं १५ योजयेदिति दर्शयति । यतो योजनाद् विकल्पानाम् अयगविनामन्यथा (अयं गौरित्यादि) व्यवसायिनां कुतश्चित परम्परया स्वलक्षणादुत्पत्तेः अविसंवादः । कुत इति चेत् ? अत्राहसम्बन्धाऽसिद्धेः इति । एतदुक्तं भवति-यदि परस्य स्वलक्षणात् तद्दर्शनाद्वा विकल्पानामुत्पत्तिः स्यात् तदा तत्र सम्बन्धसिद्धेः अविसंवादः स्यात् । न चैवमिति । उपसंहारार्थमाह-तन्न इत्यादि । यत एवं तत् तस्मात् न असाधारणैकान्ते प्रमाणप्रमेयफलव्यवस्था । दृष्टान्तमाह- २० साधारणैकान्तवत् इति ।
____ *"प्रमाणस्य फलं साक्षात् सिद्धिः [१२५ख] स्वार्थविनिश्चयः ।" [सिद्धिवि० १।३] इत्यनेन प्रमाणस्य अक्रमरूपं फलं प्रतिपाद्य अधुना स्वपक्षे क्रमरूपं दर्शयन्नाह-व्यापक इत्यादि । [व्यापकावग्रहव्याप्तसमीहावायधारणाः ।
२५ पौर्वापर्येण सम्प्राप्तप्रमाणफललक्षणाः ॥१५॥ पश्यन्नयमसाधारणमेव पश्यति दर्शनात् इति परमसमञ्जसं स्थूलाकारस्य तत्र प्रतिभासात् , तद्व्यतिरेकेण स्वलक्षणानि परिस्फुटं तत्र प्रतिभासन्त इति रचितं शिलाप्लवं का
(१) भिन्नत्वाविशेषात् । (२) पूर्वापरगतम् । (३) स्मरणाभावात् । (४) अतीतानागतादौ । (५) "योग्यदेशस्थितेऽक्षाणां वृत्ति तीतभाविनि । तदाश्रितं च विज्ञानं न कालान्तरभाविनि ॥"-प्र० वार्तिकाल० । उद्धृतोऽयम्-न्यायवि० वि० प्र० पृ० १४२ । (६) पूर्वापरसदृशविकल्पेन । (७) स्मृतिः स्यात् । (८) पूर्वापरतादात्म्येन । (९) सदृशोऽयमिति विकल्पः । (१०) पूर्वापरतादात्म्येन । (११) बौद्धन । (१२) बौद्धस्य । (१३) बौद्धस्य । (१४) स्वलक्षणदर्शनाद्वा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org