________________
१४८
सिद्धिविनिश्चयटीकायाम् [२ सविकल्पसिद्धिः यदि वा, यथान्यासमेव एवकारोऽस्तु तदवाय एव अन्यापोहो नान्य इत्यर्थः । कुत एतत् ? इत्यत्राह-कथंचन इत्यादि । कथंचन केनापि स्वयम् उपादानत्वप्रकारेण विकल्पवासनाप्रबोधप्रकारेण वा । अविकल्पकदृष्टेः अविकल्पदर्शनात् स्यात् भवेत् न विकल्पमनो यतः। एतदुक्तं भवति-यदि तदवाय एव अन्यापोहः अयमेव वा तंदवायो न भवेत् किन्तु ५ अन्य एव दर्शनजनितो मानसो विकल्पः; तर्हि तदभाव एव स्यात् इति । तथाहि-यदि तंदृष्टिः [१२४ क] कदाचिद् उपलम्भगोचरचारिणी युक्तमेतत्-'यतो विकल्पमनः' इति, नान्यथा अतिप्रसङ्गात् । न चैवमिति चिन्तितम् ।
व्यतिरेकमुखेन कारिकां व्याख्यातुमाह-नहि इत्यादि । हि इति यस्मादर्थे । यस्मात् नान्यतोऽविवक्षितात् स्वार्थ स्वम् अर्थश्च (च) अव्यवच्छिन्दत् ततो भिन्नमविषयीकुर्वत् १. प्रत्यक्षं परिच्छिनत्ति विषयीकरोति स्वार्थं नाम किन्तु व्यवच्छिन्ददेव । अनेन स्वार्थावाय एव
अन्यापोह इति व्याख्यातम् । नापि स्वार्थ कथञ्चित् सच्चेतननीलादिप्रकारेण अपरिच्छिन्ददेव [व्यवच्छिनत्ति अनेन अन्यापोह एव तैदवाय इति दर्शितम् । कुत एतत् ? इत्यत्राह-सर्वथा इत्यादि । सर्वेण अन्यतो व्यवच्छिन्दता तत्परिच्छिन्नत्य (नत्तीत्य)नेन कथञ्चित् पन (परि)
च्छिन्दत् व्यवच्छिनत्ति नाम इत्यनेन वा प्रकारेण अर्थस्वभावासिद्धिप्रसङ्गात् । नहि इत्यादि। १५ एतदपि कुतः ? इत्याह-निर्विकल्प इत्यादि । अन्यव्यवच्छेदविकल्पात् निष्क्रान्तेनं गृहीत स्य
अगृहीत] कल्पनया हेतुभूतया विकल्पबुद्धेः अन्यव्यवच्छेदविकल्पस्य निर्विषयत्वाचं । स्वार्थव्यवसायजननात् [निर्विकल्पकमेव अर्थस्वभावग्राहकमिति चेत् ; अत्राह-नच इत्यादि [नच ततो विकल्पसंभवः]
ननु माभूत् क्षणिकादिविषयत्ततस्तत्रन्नीलादिविषयं तस्यात् (विषयात्ततः सः नीला२० दिविषयात्तुं स्यात् ) इति चेत् ; अत्राह-ततो वर्ण इत्यादि । ततो निर्विकल्पकदर्शनात् न केवलं क्षणिकत्वादिविकल्पः किन्तु वर्णसंस्थानादिविकल्पोऽपि मा भूत , एकस्य स्वविषये
तजनकेतररूपासंभवादिति भावः । [१२४ख] इदमपरं व्याख्यानम्-ततो मानसतज्ज्ञानयोगाद् वर्णन लिङ्गन संस्थानादिविकल्पः तदनुमानमपि मा भूत् , दर्शनमात्रविषयीकृतस्य लिङ्गस्य तदकारणत्वात् । अत्रापि पूर्वो दृष्टान्तः संबंधतै (सम्बध्यते) । तन्न युक्तम्२५ *"ममैवं प्रतिभासो यः न स संस्थानवर्जितः ।" [प्र०वार्तिकाल २।१] 'इत्यादि ।
ततः किं जातम् ? इत्याह-कथम् इत्यादि । एवम् अनन्तरप्रकारेण सति दोषे कथं न सुप्तायितम् ? अत्रैव दूषणान्तरमाह-कथम् इत्यादि । कथं च अत्यन्तं सर्वात्मना असदृशात्मकं विलक्षणं कारणविषयस्वभावादिना 'वि(निर्वि)कल्पदर्शनम्' इति विभक्तिपरिणामेन
(१) स्वार्थावायः। (२) निर्विकल्पकदृष्टिः। (३) स्वार्थावायः। (४) निर्विकल्पेन । (५) विकल्पस्य अवस्तुभूतसामान्यविषयत्वात् । (६) निर्विकल्पात् । (७) निर्विकल्पात् । (4) बिकल्पः ! (९) निर्विकल्पात् । (१०) निर्विकल्पस्य । (११) नीले विकल्पजनकत्वं क्षणिकांशे तदजनकत्वमिति रूपद्वयासम्भवादिति भावः । (२) अनुमानहेतुत्वाभावात् । (१३) “एवमन्यत्र दृष्टत्वात् अनुमान तथा सति।" . इति शेषः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org