________________
२०१४] अवायनिरूपणम्
૪૭ समग्रेण" [प्र०वा० ३।६] इत्यादि । *"द्विष्ठसम्बन्धसंवित्ति" [प्र० वार्तिकाल० १।१] इत्यादि च प्लवते ।
___ अत्र परमतमाशङ्कते-शक्तेः प्रत्यक्षत्वेऽपि संवृतेः विपरीतकल्पनायाम् (याः) अयमपराधो दोषः यद् यस्माद् इमां शक्तिं संवृणोति पारिमण्डल्यादिवत् । अत्र आदिशब्देन क्षणिकत्वादिपरिग्रहः इति एवं चेत् ; अत्राह-शक्तः इत्यादि । शक्तिः (क्तः) संवृतिः संवरणम् इयं ५ परेण उच्यमाना । किं करोति ? इत्याह-तस्य अनन्तरस्य अनेकान्तत्वं प्रसाधयति । किं कुर्वती ? इत्याह-शक्तिमसंवृण्वन्ती । तदेवं निश्चितेतरत्वेन गृहीतेतरं रूपं स्यात् इत्यर्थः । दृष्टान्तं दूषयन्नाह-पारिमण्डल्ये त्या] दि । परोपहसनपरमेतत् । उपसंहारार्थमाह-तद् इत्यादि । यत एवं तत् तस्मात् अयं समारोपः विपरीतारोपः प्रत्यक्षे दर्शनगोचरे क्षणिकपारिमण्डल्यादौ भवन् नीलाभावन्ते (भवन् न नीलादावित्ये) कान्तकल्पनाम् अस्तंगमयति, अनेकान्तसिद्धरिति मन्यते। १०
ननु स्यादयंदोषो यदि समारोपविवेकव[त्] निश्चितं गृहीतमन्पश्यन्नलैवम् (गृहीतं पश्येत् न चैवम्) अन्यथाप्यदोषात् इति चेत् ; अत्राह-प्रत्यक्षस्य इत्यादि । [१२३ख २] प्रत्यक्षस्य नीलादौ न क्षणिकत्वादी समारोपस्य अनीलाद्यारोपस्य विवेको यस्मिन् येन वा तस्यैव नान्यस्य व्यवसायात्मकत्वाद् व्यवसितस्यैव प्रत्यक्षत्वात् इत्यहिप्रपात्ताम् (इत्यतिप्रसङ्गात् ताम्) 'अस्तंगमयति' इति स्तम्बन्धः ।
ननु प्रत्यक्षाद् व्यवसायोद्भवः, तत्र कथं तत्तदात्मकमिति चेत् ; अत्राह-दृष्टेः इत्यादि । चिन्तितमेतत् प्रथमप्रस्तावे । इतरश्च (च) न दृष्टेरविकल्पिकायाः विकल्प इति दर्शयन्नाहस्वलक्षण इत्यादि । एतदपि तत्रैव निरूपितम् । एवमवग्रहमीहां च व्यवस्थाप्य अवार्य व्यवस्थापयन्नाह- तत्स्वार्थ इत्यादि । [ तत्स्वार्थाऽवाय एवायमन्यापोहः कथंचन ।
२० अविकल्पकदृष्टेः स्यान्न विकल्पमनो यतः ॥१४॥ न ह्यन्यतः स्वार्थमव्यवच्छिन्दत् प्रत्यक्षं परिच्छिनत्ति, नापि कथञ्चिदपरिच्छिन्ददेव व्यवच्छिनत्ति सर्वथा अर्थस्वभावासिद्धिप्रसङ्गात् । निर्विकल्पेन गृहीतस्यागृहीतकल्पतया विकल्पबुद्ध निर्विषयत्वाच्च । न च [ततो विकल्पसंभवः] ततो वर्णसंस्थानादिविकल्पोऽपि मा भूत । कथमेवं न सुप्तायितम् , कथश्चात्यन्तमसदृशात्मकं पूर्वापरपराम- २५ शशून्यमलक्ष्यं निममेन सदृशविकल्पं वन्ध्यासुतदर्शनमिव योजयेत् ? यतो विकल्पानां कुतश्चिदविसंवादः सम्बन्धासिद्धः । तन्नासाधारणैकान्ते प्रमाणप्रमेयफलव्यवस्था साधारणकान्तवत् ।]
तद् इति निपातः स इत्यस्य अर्थ द्रष्टव्यः । स एव उपगतोऽयं निरूप्यमाणः । एवकारो भिन्नप्रक्रमः अन्यापोह इत्यस्याऽनन्तरं द्रष्टव्यः, ततोऽन्यो विजातीयः अपोह्यते स्ववि- ३० षयाद् भिन्नो व्यवस्थाप्यते येन व्यवसायेन सोऽन्यापोह एव स्वार्थाऽवायो जैनाभिमतः।
(१) "नैकरूपप्रवेनात् । द्वयोः स्वरूपग्रहणे सति सम्बन्धवेदनम् ॥” इति शेषः । (२) व्यवसायो विकल्पः संजायते, न तु स्वयं तन्निश्चयात्मकम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org