________________
१४६
सिद्धिविनिश्चयटीकायाम्
[ २ सविकल्पसिद्धिः आत्मशब्देन सामर्थ्यस्य तंद्वतो भेदैकान्तं निरस्यति, तंत्र तद्योगात् । न खलु ततो भिन्नं सामर्थ्यं युक्तम्, भावस्य तैंन्निष्ठत्वाद् अन्यथा सर्वं सर्वस्य तत् स्यात् समवायस्य निषेधात् सर्वत्राऽविशेषाच्च । अथ तदविशेषेऽपि किञ्चित् (क्वचित् ) कस्यचित् सामर्थ्यम् । कुत एतत् ? चित्रत्वाद् भावशक्तीनमिति चेत्; किं पुनः तद्वतः तस्य च अन्याः पृथग्भूताः शक्तयः सन्ति येनै५ वम् ? [तथा चेत् ] स एव दोषः अनवस्था वा । अपृथग्भूताश्चेत्; तथा आद्यं सामर्थ्यम् इति साधूक्तम् - तदात्मकमिति ।
ननु 'फलानुमेयसामर्थ्यात्मकम्' इत्येवास्तु किं स्वशब्देन लोकवत्तरेणापि ( वत्तदन्तरे - णापि ) तदर्थगतेः । न खलु लोको धूमादमिं प्रतिपद्यमानमेवं वदति 'पावकोऽत्र स्वधूमात्' इति चेत् ; उच्यते - [ १२३ख १] अन्यमतनिषेधार्थत्वाददोषः । ' अनेकशक्त्यात्मकस्य भावस्य १० अनेकं फलं तस्माद् एकशक्त्यात्मकभेवानुमानम्' इत्यन्येषां दर्शनम् ; तन्निषेधार्थं स्ववचनमिति । यदि एकं स्यात् भवेत् । अत्रोत्तरम् - सन्निहित इत्यादि । सन्निहितोऽर्थो घटादिः तस्य सामान्यविशेषौ तावेवाग्रहेतयोर्थातयथ (तावेव अवग्रहेहयो रथ) तदात्मकमेकं कथन्न भवेत् ? स्यादेव । उपलक्षणमेतत्, अवायाद्यात्मकमपि भवेत् । यतः तदभवनात् विशेषदर्शनादेव दर्शनम् आश्रित्यैव कल्प्येत । किम् ? इत्याह - तद् इत्यादि । तेषु विशेषेषु १५ विपरीतस्यैव [त]त्त्वस्य आरोपः तस्य व्यवच्छेदस्मृतिः क्षणिकत्वानुमा नैव कल्प्येत, यत इत्यस्य आक्षेपार्थत्वात्, तद्विपरीतज्ञानस्य समारोपत्वासिद्धेरिति भावः । कुत एतत् ? इत्यत्राह - परस्पर इत्यादि । परस्परम् अन्योन्यं विरोधो ययोः प्रत्यक्षानुमेययोः स्वभावयोः एकत्वस्य तादात्म्यस्य सिद्धौ सहक्रमाभ्यां विचित्रविवर्तपरमार्थैकस्वभावभावप्रतिपत्तेरप्रतिषेधात् । ततो निराकृतमेतत्
*“नो चेद् भ्रान्तिनिमित्तेनं" [प्र० वा० ३।४३] इत्यादि ।
उपसंहारार्थमाह-तदेतद् इत्यादि । सुगमम् । कुत एतत् ? इत्यत्राह - कथञ्चित्तादात्म्याद् एकत्वाद् अवग्रहादीनाम् । ननु शक्ति- शक्तिमतोर्भेदैकान्तनिषेधे अभेद एव इति न 'पेक्षान्तरसंभव इति न युक्तं 'फलानुमेय' इत्यादि इति चेत्; अत्राह - शक्तिशक्तिमतोः भेदे नैयायिकोपगते या [१२३ २] सम्बन्धासिद्धिः तस्याः सकाशात् यः सौगतेन तयोः २५ अभेदैकान्तोऽभ्युपगतः तस्मिन् सति व्यक्तिः (क्त े :) चेतनस्य इतरस्य वा व्यक्त्या बुद्ध्या विषयीक्रियमाणे स्वभावे व्यक्तिः परोक्षैव अदृश्यैव शक्तिवत् प्रसज्येत । तथा च सर्वभावव्यवहारविलोप इति मन्यते। तथा प्रत्यक्षैव शक्तिः व्यक्तिवत् प्रसज्येत । ततः *“ हेतुना यः
93
२०
(१) सामर्थ्यवतो द्रव्यात् । (२) भेदैकान्ते सामर्थ्य-सामर्थ्यवद्भावाऽयोगात् । (३) सामर्थ्य - स्वरूपत्वात् । (४) भेदेऽपि 'तस्येति' स्वीकारे । ( ५ ) नित्यत्वात् व्यापकत्वादेकत्वाच्च सर्वं प्रति समानः समवाय इति भावः । (६) भेदाविशेषेऽपि । ( ७ ) इष्यताम् । ( ८ ) स्वशब्दं विनापि । ( ९ ) भवस्य शिवस्यानुमानम् । (१०) नैयायिकानां दर्शनम् । ( ११ ) “संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥” इति शेषः । (१२) भेदाभेदवाद । (१३) "कार्योपादोऽनुमीयते । अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः ॥” इति शेषः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org