________________
२।१३ ]
अवग्रहाद्यात्मकमेकं ज्ञानम्
१४५
पुरुषाद्यद्वैतवादिनोऽपि । न केवलं सौगतस्य न वक्त्र' वक्रीभवति । एतदुक्तं भवति - यथा[s] प्रमाणकं विभ्रममात्रं परप्रसिद्धादप्रमाणात् अनुमानात् सौगतस्य सिध्यति परमार्थतः तथा परस्यापि व्यवहारिप्रसिद्धवचनादेः पुरुषाद्यद्वैतादि सिध्यति । न खलु व्यवहारी वचनेनापि विना जीवितुं क्षणमते (क्षमते) इति निवेदयिष्यते । यतो वक्त्रस्य वक्रीभावात् स्वलक्षणान्येव नान्यत् यथालक्षणं सिध्येयुः । ' यतः' इति वा आक्षेपे नैव सिध्येयुरिति ।
५
एतेन 'भ्रान्तेतरविवेकैकान्तं कथं साधयेत्' इति प्रत्येयम् । 'प्रतिभासात्' इति चेत् ; अत्राह - यथेहितम् इत्यादि । अत्रायमभिप्रायः - यथा विभ्रमेतराकारशून्यं स्वसंवेदनमात्रं प्रति - भासात् सिध्यति तथा प्रमाणातीतमन्यथा वा सप्रमाणं वा पुरुषादितत्त्वं सिध्यति । शेषं पूर्ववत् । तदनन्तरोक्तं स्वपरप्रतिबोधं प्रत्यक्षं प्रमाणयितव्यम् ।
तच्चरित्रैक (तच्चित्रैक) ज्ञानप्रसादाद् अवग्रहाद्यात्मकमेकं प्रसाध्य अधुना अन्यथा साध- १० यन्नाह - फलानुमेय इत्यादि ।
[ फलानुमेयशक्त्यात्म भेदेहात्मना च किम् । स्वार्थसंवित्प्रत्यक्षं नैकं सह क्रमेण वा ॥ १३ ॥
स्वार्थलक्षणप्रत्यक्षं स्वलक्षणं स्वफलानुमेयसामर्थ्यात्मकं यद्येकं स्यात् सन्निहितार्थसामान्यविशेषावग्रहेहार्थात्मकमेकं कथन्न भवेत् ? यतो विशेषदर्शनादेव तद्विपरीत- १५ तत्त्वारोपव्यवच्छेदस्मृतिः कल्प्येत । परस्परविरोधस्वभाव कत्वसिद्धौ सहक्रमाभ्यां विचित्रविवर्तपरमार्थैकस्वभावभावप्रतिपत्तेरप्रतिषेधात् । तदेतद्" "कथश्चित्तादात्म्यादवग्रहादीनाम् | शक्तिशक्तिमतोर्भेदे सम्बन्धासिद्धेः, अभेदैकान्ते व्यक्तिव्यक्त्या व्यक्तिः परोक्षैव शक्तिवत् प्रसज्येत । संवृतेरपराधोऽयम् यदिमां संवृणोति पारिमण्डल्यादिवदिति शक्तेः संवृतिरियं शक्तिमसंवृण्वन्ती तदनेकान्तत्वं प्रसाधयति । तदयं समारोपः प्रत्यक्षे क्षणिक- २० पारिमण्डल्यादौ भवन् एकान्तकल्पनामस्तं गमयति । प्रत्यक्षस्य नीलादिसमारोपविवेकस्यैव व्यवसायात्मकत्वात् । दृष्टस्वलक्षण ं.]
स्वशब्देन तवादी गृह्यते तस्यायेर्थाया ( तस्मै अर्था याः) स्वसंविदः तासां सम्बन्धि यत् प्रत्यक्षं प्रत्यक्षपरिच्छेद्यम् । [ कथं ] भूतम् ? इत्याह - फल इत्यादि । फलेन अनुमेया [१२३१] शक्तिः आत्मा स्वभावो यस्य तत्तथोक्तं सह वा युगपदिव २५ तत्प्रत्यक्षं क्रमेणैकं किं न स्यादेव । केन ? इत्यत्राह - भेदेहात्मना । भेदस्य विशेषस्य ईहा तद्ग्राह्योऽर्थपर्यायः तथोच्यते ज्ञानपर्यायविशेषश्च, सैव आत्मा स्वभावः तेन, च शब्दाद् अवग्रहावायाद्यात्मना किन्न स्यात् इत्यर्थः प्रतिपाद्यः ।
कारिकां विवृण्वन्नाह-स्वार्थ इत्यादि । स्वशब्दः पूर्ववद् व्याख्येयः । तस्य अर्थरेव (एव) लक्षणम् अर्थस्वरूपं यत् प्रत्यक्षं स्वलक्षणं स्वस्वरूपं यत् प्रत्यक्षं प्रत्यक्षप्रमाणप्रमितं तत् ३० स्वफलानुमेयसामर्थ्यात्मकं स्वम् आत्मीयं यत् फलं तेन अनुमेयं यत् सामर्थ्यम् तदात्मकम् ।
(१) ब्रह्मवादिनः सांख्यस्य वा । (२) 'ईहा' इत्युच्यते ।
१९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org