________________
१४४
सिद्धिविनिश्चयटीकायाम्
[ २ सविकल्पसिद्धिः
न्तरं तु अनेकान्तं पुनः पश्यामः । अनेन तदेकान्ताभावसाधने विरुद्धोपलब्धि दर्शयति । न केवलमध्यकू (ध्यक्ष ) मेव नैकान्त ( अनेकान्तं पश्यतीति ) जातं परितोषम्, अपि सर्वलिङ्गमपि इति दर्शयन्नाह - तत इत्यादि । ततः तस्मात्त्यायद् [तस्मान्न्यायाद् ] अनेकान्तस्य हेतवः 'सर्वेऽपि सम्बन्धिनः' इति वाक्यशेषः ।
५
कारिकार्थं प्रकटयन्नाह - 'यथोक्तम्' इत्यादि । यथा येन प्रकारेण सौगतेन स्वलक्षणं नैयायिकादिना सामान्यलक्षणं च उक्तं कदाचिद् व्यवहारदशायां परमार्थदशायां वा क्वचित् न पश्यामः ? कुत एतत् ? इत्यत्राह - प्रत्यक्ष इत्यादि । एतदपि कुतः ? इत्यत्राह - वर्ण इत्यादि । वर्णो नीलादिः संस्थानं वर्तुलत्वादि आदिशब्दः प्रत्येकमभिसम्बध्यते तेन [ एकत्र ] रसादे: अन्यत्र नव-पुराणादिभेदस्य परिग्रहः तेन विचित्रं शबलम् । कथंभूतम् ? अन्वयिनम् उपलक्षयामो १० यत इति । वनादिवत् प्रत्ययवत् भ्रान्तं तदुपलक्षणमिति चेत्; अत्राह - स्वपर इत्यादि । स्वपरयोः प्रतिबोधः ग्रहणं येन यस्मिन् वा तत्तथोक्तम् । किं तद् ? इत्याह प्रत्यक्षम् । कथञ्चित् केनापि प्रत्यक्षप्रकारेण अनुमानप्रकारेण वा अप्रमाणयन् अप्रमाणं कुर्वन् कथयन वा [१२२] प्रमाणान्तरम् अस्मात् प्रत्यक्षप्रमाणात् अन्यद् अविकल्पदर्शनम् अनुमानं च तदन्तरं कथं नैव अवतिष्ठेत प्रतिष्ठापयेत् सौगतः । * " श्रदः प्रतिष्ठायाम्" इति दविधि: । ननु उक्तन्यायात् १५ यद्यपि दर्शनं नावतिष्ठेत अनुमानं सविकल्पकमातिष्ठेत इति चेत्; अत्राह - स्वत इत्यादि ।
स्वतो न साधानान्तरात् कस्यचित् कार्यस्य इतरस्य वा लिङ्गस्य सिद्धस्य निश्चितस्य यः अन्यथानुपपत्तिवितर्कः तस्मात् परोक्षार्थप्रतिपत्तिः अनुमानं त (न) पुनः अनुमानमनुपपन्नम् प्रत्यक्षस्य आत्मनि स्वस्वरूपे परत्र वा धर्मादौ कथञ्चित् सदादिरूपेण न क्षणभङ्गप्रकारेण परमार्थमि (सिद्धौ ) क्रियमाणायाम् अन्यानपेक्ष्याम ( क्ष्यम् अपेक्षाम) न्तरेण, २० चर्चितमेतत्— * “सिद्ध' यन्न परापेक्ष्यम् " [सिद्धिवि० १।२३ ] इत्यादिना । कथं नैव तन्मिथ्यैकान्तं प्रत्यक्षविभ्रमैकान्तं साधयेत् ? नहि स्वयमनुपपन्नम् अन्यद् व्यवस्थापयति अतिप्रसङ्गात् यतः तत्साधनादयं सौगतः -
*“यथादर्शनमेव (मेवेयं) मानमेयफलस्थितिः । क्रियते' [प्र० वा० २।३५७]
२५
न पुनर्यथातत्त्वमा (त्वं) क्रियते इति एवं ब्रूयात् इति । नैनु व्यवहारिणापि (णोऽपि) न भावतोऽनुमानमस्ति । यदि पुनः अविचारितरमणीयं तेन व्यवहारप्रसिद्ध्यर्थं तदाश्रीयते तर्हि मयापि तथैवेति न दोष इति चेत्; अत्राह - यथेहितम् इत्यादि । ईहितस्य स्वेच्छाविषयीकृतस्य अनतिक्रमेण यथेहितम् प्रमाणातीतम् अप्रमाणम् परमात्मतत्त्वं ब्रह्मतत्त्वम् अन्यथा वा [१२२ ख ] प्रधानादिप्रकारेण वा कथयतो वचनमात्रेण प्रतिपादयतः परस्यापि
(१) 'वत्' इति निरर्थकं भाति, वनादिप्रत्ययो यथा भ्रान्तः केवलं समूहालम्बनः वृक्षादिव्यतिरेकेण वनस्य स्वतन्त्रस्याभावात् । (२) "अविद्यमानापि ग्राह्यग्राहकसंविदाम्” इति शेषः । (३) ननु इति वितर्के । ( ४ ) परमार्थतः । (५) अनुमानं स्वीक्रियते ।
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org