________________
२।१२ ] न निर्विकल्पात् स्मृतिः
१४३ प्रत्ययः अवग्रहादिमतिः बोधः, कथम्भूतः ? इत्यत्राह-स्वयम् इत्यादि । स्वयम् आत्मना न सांख्यस्य इव पारम्पर्येण इन्द्रियार्थसन्निकर्षविशिष्टः स्वव्यापारे नोत्पत्तौ इति चिन्तितम् । ततः तंदविशिष्टो (ट) मानसाध्यक्षप्रत्ययपरित्यागः स्मृत्यादिव्यवहारहेतुः स्मृतिः आदिर्यस्य प्रत्यभिज्ञानादेः स एव तेन वा व्यवहारस्य हेतुः ।
स्यान्मतम्-अवग्रहादिप्रत्ययः सामान्यविशेषात्मवस्तुविषयत्वेन सविकल्पक इति वैशद्य- ५ विरहात् कथं तद्विशिष्टै इति ? तत्राह-सामग्री इत्यादि । सामग्रथा [१२१क] इन्द्रियार्थसन्निकर्षादिलक्षणायाः विशेषात हेतोः वासनाप्रबोधवेशद्यसंभवात् तद्विशिष्ट इति सम्बन्धः । अत्र दृष्टान्तमाह-स्वप्नादिवत् इति । आदिशब्देन कामशोकादिविप्लवपरिग्रहः। स्यादेतत्-'वासनानिमित्तत्वेन प्रत्ययस्य स्वप्नादिवद् भ्रान्तता स्यात्' इति; तत्राह-तदयम् इत्यादि । तत् तस्मात् इन्द्रियार्थसन्निकर्षादिसामग्रीविशेषाद् अयम् अवग्रहादिप्रत्ययाभिधानः अवितथोऽभ्रान्तः स्पष्टो १० विशदः स्वस्य ग्राह्यो (ह्यौ) विशषान्वयौ भेदाभेदौ तयोः प्रतिभासः यस्मिन् स चासौ वासनाप्रबोधश्च पुनः अस्य अवितथ इत्यादिना यसः। एतदुक्तं भवति- यद्यपि अर्थप्रत्ययो वासनातो जायते तथापि न भ्रान्तः सामग्रीविशेषादुत्पत्तेः स्वप्नादौ असंभविन इति । ननु पूर्वदर्शनाहितवासनाप्रबोधः परदर्शनात् नेन्द्रियार्थसन्निकर्षादिति चेत् ; अत्राह-साक्षात् इत्यादि । साक्षाद् अव्यवधानेन देशननिमित्तो भवतु (न्) तत्प्रबोधः अनेकान्ततत्त्वं प्रतिष्ठापयति १५ अनेकान्तदर्शनाद् अपरस्य दर्शनस्य तन्निमित्तस्य अभावादिति भावः । एतदेव दर्शयन्नाह-न पश्यामः इत्यादि ।
[न पश्यामः क्वचित् किञ्चित् सामान्यं वा स्वलक्षणम् ।
जात्यन्तरं तु पश्यामः ततोऽनेकान्तहेतवः ॥१२॥ यथोक्तं स्वलक्षणं सामान्यलक्षणंवान क्वचित कदाचित् पश्यामा प्रत्यक्षेवणंसंस्था- २० दिविचित्रमन्वयिनमुपलक्षयामः। स्वपरप्रतिबोधं प्रत्यक्षं कथञ्चिदप्रमाणयन् प्रमाणान्तरं कथमवतिष्ठेत ? स्वतः सिद्धस्य कस्यचिदन्यथानुपपत्तिवितर्कात् परोक्षार्थप्रतिपत्तिरनुमान न पुनरनुपपन्नम् । प्रत्यक्षस्य आत्मनि परत्र चा कथञ्चित् परमार्थसिद्धौ कथं तन्मिथ्यैकान्तं अन्यानपेक्ष्यं साधयेत् यतोऽयं यथादर्शनमेव मानमेयफलस्थितिः क्रियते न पनर्यथातत्त्वमिति यात् । यथेहितं प्रमाणातीतं परमात्मतत्त्वमन्यथा वा कथयतः परस्यापि न २५ वक्त्र वक्रीभवति यतः स्वलक्षणान्येव यथालक्षणं सिध्येयुः।]
न पश्यामः क्वचिद् बहिरन्तर्वा किञ्चित् परमपरं वा व्यक्तिभ्यो भिन्नं तद्रहितं वा सामान्यं वाशब्दो भिन्नप्रक्रमः 'स्वलक्षणम्' इत्यस्य अनन्तरं द्रष्टव्यः। ततः स्वलक्षणं [१२१ख] वा न पश्यामः । किञ्चित् कल्पितं परमार्थरूपं वा । इवार्थो वा, सामान्यमिव स्वलक्षणं न पश्यामः । यथान्यासं भिन्नप्रक्रमो वा । किं तर्हि पश्यथ ? इत्यत्राह- जात्य-३०
___ (१) इन्द्रियार्थसन्निकर्षरहित । (२) इन्द्रियार्थसन्निकर्षविशिष्टः । (३) कर्मधारयसमासः । () भवति । (५) दर्शनं निमित्तं यस्य । (६) वासनाप्रबोधकारणभूतस्य।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org