________________
सिद्धिविनिश्चयटीकायाम्
[ २ सविकल्पसिद्धिः
तदभिप्रेतसिद्धौ दूषणमाह-ब्रह्म इत्यादि । इदमत्र तात्पर्यम् - यथा विभ्रमादेवं विभ्रमसिद्धिः तथा वा (चाड) विद्यात एव प्रत्यक्षादिलक्षणाया विद्याया ब्रह्मणो या सिद्धिः तस्या अनिवारणाद् [१२०क] असंबद्धप्रलापमात्रम् इति । ननु भवतु तेत्सिद्धि:, तथापि घटादिवत् प्रतिभासमानस्य तस्य विभ्रमसिद्धः सिद्धं नैः समीहितमिति चेत्; अत्राह - अनिष्टानुषङ्गात् । ५ सौगतस्य इष्टम् - अनेकं क्षणिकं सर्वथा भ्रान्तं ज्ञानम्, अनिष्टम् - एकमक्षणिकं व्यापकमभ्रान्तं ब्रह्मतत्त्वम्, अस्य अनुषङ्गात् ' तन्मात्रम्' इति सम्बन्धः । यथा खलु भ्रान्तिः भ्रान्तेः प्रतीयमानापि न भ्रान्तिः तथा ब्रह्मतत्त्वमपि इति मन्यते ।
१४२
तर्हि भ्रन्तिरपि न कुतश्चित् प्रतीयते इति चेत्; अत्राह - भ्रान्तिमात्रात् इत्यादि । भ्रान्तिरेव तस्मात् । कथंभूतात् ? परमार्थतः तत्त्वतोऽसिद्धस्वभावात् अनिश्चितरूपात् प्रतीति१० विपर्यासेन स्वप्नादिदशा [विप ] र्यासेन 'स्वप्नादिदशायां भ्रान्तं ज्ञानं न जाग्रद्दशायाम्' इति येयं प्रतीतिः लौकिकी प्रसिद्धिः तस्याः स्वप्नादिवद् अन्यदा विभ्रान्तं ज्ञानम् अन्यदेव वा स्वप्नादाaf अभ्रान्तम् इति यो विपर्ययः तेन भावान् नक्तररूपानर्थानक्त्तया ( चेतनेतररूपानर्थानेव इदन्तया) स्वाभिमतस्वभावतया नेदन्तया न पराभिमतस्वभावतया वा शब्दः पूर्व समुच्चयार्थः व्यवस्थापयितुकामः सौगतः एका[न्ते]न अवश्यंभावेन अविकल्प एव परामर्शशून्य १५ [व] । यदि वा ईषदसिद्धोन्मेषोऽयम् इत्येवम् अलं पर्याप्तम् अतिप्रसङ्गेन । ततो 'निराकारावबोधेन' इत्यादि स्थितम् ।
निर्विकल्पदर्शनात् सजातीयस्मृतौ न [ १२०ख] केवलमनुभवस्य ग्राह्याकारवैकल्यम् अपि तु तस्यापि इति दर्शयन्नाह - सर्वतः इत्यादि ।
२०
[ सर्वतः सर्वेण सर्व विलक्षणमलक्षयन् । बोधात्मा चेत्स्मृतेर्हेतुः सन्निकर्षस्तथा न किम् ॥११॥
वस्तुस्वभावत एव समनन्तरप्रत्ययोऽवग्रहादिमतिः स्वयम् इन्द्रियार्थसन्निकर्षवि - शिष्टः स्मृत्यादिव्यवहारहेतुः, सामग्रीविशेषात् वासनाप्रबोधवैशद्यसंभवात् स्वप्नादिवत् । तदयं स्पष्टावितथस्वग्राह्मविशेषान्वयप्रतिभा सवासनाप्रबोधश्च साक्षात् दर्शननिमित्तो भवन् अनेकान्ततत्त्वं प्रतिष्ठापयति । ]
२५
सर्वतः सजातीयाद् विजातीयाच्च सर्वेण नीलादिप्रकारेण इव सदादिप्रकारेणापि सर्वं स्वविषयाभिमतमशेषं विलक्षणं व्यावृत्तरूपम् अलक्षयन् अनिश्चिन्वन् । कौऽसौ ? बोधात्मा निर्विकल्पो बोधः स्मृतेः स्मरणस्य हेतुः चेद् यदि सन्निकर्षः इन्द्रियार्थसंप्रयोगः तथा तेन वस्तुस्वभावप्रकारेण न किं स्मृतिहेतुः ? स्यादेव । तथा च अनुभववैकल्यं (फल्यं) तथा तदलक्षयः (क्षयतो) नास्य ततः चेतनत्वकृतो विशेष इति मन्यते ।
३०
कारिकायाः सुगमत्वाद् व्याख्यानमकृत्वा प्रकृतमर्थमुपसंहरन्नाह - वस्तुस्वभावत एव न सारूप्यादेः इति एवकारार्थः, समनन्तरप्रत्ययः - समः ज्ञानत्वेन अनन्तरः उपादानत्वेन
(१) ब्रह्मसिद्धिः । (२) विभ्रमवादिनाम् । (३) सन्निकर्षात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org