________________
२।१०]
न निर्विकल्पात् स्मृतिः
१४१ सांप्रतं नैयायिको भूत्वा सूरिः अतिप्रसङ्गं परिहरन्नाह-यत इत्यादि । यतः यस्मात् स्थूलत्वादिधर्मोपेतादाद् उत्पन्नं ज्ञानं तस्यार्थस्य तत् न इतरस्य अजनकस्यार्थस्य इति हेतोः कुतोऽतिप्रसङ्गः इतरथा अनग्नेः धूमः स्यात् । अतज्जन्यत्वम् अन्यत्रापि ।
___ स्यान्मतम्-'यत उत्पन्नं तस्य तत्' इत्युच्यमाने इन्द्रियादेः स्यादिति; तत्राह[११९क] यज्जातीय इत्यादि। यत्समानः यज्जातीयः तस्य स्मृतिहेतुतया व्यवहारयति-५ व्यवहारे प्रवृत्तं जनं करोति तस्य तत् नेतरस्य इति कुतोऽतिप्रसङ्गः ? न चेन्द्रियादिः सजातीयस्मृतिहेतुतया व्यवहारयति इति ।
ननु पदार्थान्तरं (यदाकार) ज्ञानं स्वयमनुभवात्मकं भवति तदा तेन अर्थो ज्ञातो भवति, तत्र च तत्स्मृतिहेतुर्नान्यथा, न चैतत् नैयायिकस्येति चेत् ; अत्राह-तर्थे (सदथे)त्यादि। सति (सन्) प्रतिनियतो नीलादिः अर्थः तस्य आकार इव आकारो यस्य ज्ञानस्य तत् तथोक्तं तस्य १० अनुपलक्षितस्य अनिश्चितस्य स्वयम् आत्मना अभावेन शशशृङ्गादिनाऽनतिशायनात् । क ? स्मृतौ। तस्यां क्रियमाणायाम् अतिशयाभावात् यत उत्पन्नम् इ] त्यादि सम्बन्धः । एतदुक्तं भवति-यदि निर्विकल्पकं दर्शनं तदतिशयरहितमपि स्मृतिकारणं नैयायिककल्पितं चिन्न (तन्न) स्यात् इति; तर्हि विप्लवे अर्थाभावेऽपि तदाकारदर्शनात् ससाकारो (न स आकारो) ज्ञानस्य प्रतिभासमानस्य गत्यन्तराभावात् । तदुक्तम्
*"अनकारशङ्का स्यादप्यर्थवति चेतसि ।" [प्र० वा० २।३७१] इति चेत् ;
अत्राह-विप्लवे इत्यादि । विप्लवे विभ्रमदशायां यत् साकारदर्शनम् अविकल्पकं ज्ञानमेवमर्थं च दर्शनग्रहणम् , अन्यथा ज्ञानग्रहणं न्याय्यम् तस्मात् तेन हेतुना तद्वा आश्रित्य, 'तद' इत्ययं निपातः 'तस्य' इत्यस्यार्थे द्रष्टव्यः । तस्य ग्राह्याकारस्य अन्यत्र जाग्रदशाज्ञाने कल्पनायां [११९ख] क्रियमाणायाम् अतिप्रसङ्गात् । यतः कुतश्चिदसिद्धात् निद- २० र्शनात्' यस्य कस्यचिदर्थस्य सिद्धिप्रसङ्गादिति 'नैवं (तेनैव) संवेदनम्' इत्यादिना सम्बन्धः । विप्लवेऽपि साकारदर्शनमसिद्धम् निराकारेण दर्शनेन तत्र कुतश्चिद् भ्रान्तेः घटादेरसत एव बहिरिव ग्रहणात् इत्यभिप्रायः। तदुक्तं न्या य वि नि श्च ये-*"न चैतद् बहिरेव, किं तर्हि बहिर्बहिरिव प्रतिभासते। कुत एतत् ? भ्रान्ते [:], तदन्यत्र समानम्" इति ।
अत्राह परः-तावतैव इत्यादि । तावतैव असतः प्रतिभासनमात्रेणैव सर्वस्य प्रमाणे- २५ तरादिरूपस्य व्यवहारस्य मिथ्याविकल्परचितस्य *"प्रामाण्यं व्यवहारेण" [प्र०वा० ११७] इत्यादि वचनात् प्रसिद्धः कारणात् तथैवास्तु तेनैव निराकारेण ज्ञानेन असदेव घटादिकं गृह्यते इति प्रकारेणैव अस्तु 'सर्वम्' इत्यध्याहारः इति एवं चेत् । अत्राह आचार्य:-स्वयम् इत्यादि । स्वयम् आत्मना यदभिप्रेतम् अङ्गीकृतं भ्रान्तिमात्रं सौगतेन तस्य असिद्धः तदप्रतिपत्तेः कारणात् । किम् ? इत्याह-सर्वथा इत्यादि । सर्वथा सर्वेण प्रकारेण असम्बन्ध(द्ध)स्य असम्बद्धं ३० वा प्रलापमात्रम् इति एवं निर्णीतमेतत् प्रथमप्रस्तावे ।
(१) अर्थाकार । (२) दृष्टान्तात् । (३) बौद्धः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org