________________
१४०
सिद्धिविनिश्चयटीकायाम् [२ सविकल्पसिद्धिः *"स्मृतिश्चेदृग्विधं ज्ञानं तस्याश्चानुभवाद् भवः ।
स चाकाररहितः सेदानीं तद्वती कथम् ॥" [प्र० वा० २।३७४] इति । यथैव हि निराकारादनुभवात् कथं सा तद्वती आकारवती'; तथा सामान्याकाररहितात्ततः तदाकारवती कथमिति समानम् । एवमर्थं च 'सजातीयस्मृतिः' इत्युक्तम् । 'वस्तुस्वभावतः' इत्यपि ५ नोत्तरम्; अन्यथा निराकारावबोधात् तत एव तद्वती” इति यत्किञ्चिदेतत् ।
कारिकां विवृण्वन्नाह-तैदृष्टावेव इत्यादि। निर्विकल्पिका दृष्टिः तदृष्टिः तस्यां सत्यां पुनः ये दृष्टाः तेषु व्यवहारः[र]प्रवृत्तौ अङ्गीक्रियमाणायाम् । कुतः ? इत्यत्राह-संवित्ति इत्यादि । संवित्तेर्बलं सामर्थ्यम् तस्माद् या सजातीयस्मृतिः तस्या अभिलाष आदिशब्देन
द्वेषपरिग्रहः तस्मात् इति किं दर्शनस्य ग्राह्याकारकल्पनया सारूप्यकल्पनया केवलं ग्राह्याकार१० शून्यमवबोधमात्र भावस्वभावतो वस्तुशक्त प्रकृतस्मृतिहेतुः सजातीयस्मरणकारणं प्रतीयेत । शेषमत्र चर्चितम् । तत्र साकारस्मृतेर्दर्शनं साकारं सिध्यति इति मन्यते ।
ननु मा भूत् साकारस्मृतेर्दर्शनस्य साकारतासिद्धिः, तस्या अन्यथा सिद्धिः, प्रतिकर्मव्यवस्थायाः तत् स्यात् इति । तदुक्तम्-[११८ख
*"अर्थेन घटयत्येनां नहि मुक्त्वार्थरूपताम् ।
तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥" [प्र०वा०२।३०५] इति । चेत् ; अत्राह-कल्पयित्वापि इत्यादि । न केवलम् अकल्पयित्वा किन्तु कल्पयित्वापि विषयाकारं दर्शनस्य विषयसारूप्यं विशेषः अतिशयः मृग्यः सः अवबोधो येन विशेषेण प्रतिविषयं भिधेत, अन्यथा अन्येन तद्विशेषान्वेषणाभावप्रकारेण अतिप्रसङ्गात् । तदाकारात् प्रतिकर्मव्यव
स्थायाम् 'किञ्चिन्नीलज्ञानं सकलस्य नीलस्य, सदाकारं वा ज्ञानं सत: स्यात्' इति अतिप्रसङ्गः, २० तस्माद् विशेषो मृग्यः इति प्रतिकर्मव्यवस्थापि "अन्यथा सिद्धेति भावः । ननु भवतोऽपि अवबो
धस्य निराकारस्य सर्वत्राविशेषादतिप्रसङ्गः समान इति चेत् ; अत्राह-तेनैव इत्यादि । तेनैव योग्यताविशेषेणैव संवेदनं समीचीनं प्रतिनियतार्थवेदनं ग्रहणं स्यात् इति 'कुतोऽतिप्रसङ्गः' इति गत्वा सम्बन्धः । तेनैव च विशिष्टस्मृतिनिमित्तं स्यादिति कुतोऽतिप्रसङ्गः ।
(१) इति दूषणं दीयते । (२) दर्शनात् । (३) वस्तुस्वभावादेव । (४) आकारवती स्यात् । (५) तुलना-"तदृदृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः । स्मरणाद् व्यवहारश्चेदनुमान तथा सति ।"-प्र. वार्तिकाल. पृ. २४ । “येन वार्तिककार एवमाह-तदृदृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः। स्वव्यापारत्वकारणास्मरणादित्यादि-न्यायबि० टी०टिपृ०३.। “आह च-तदृष्टावेव.. स्मरणादभिलाषेण व्यवहारः प्रवर्तते"-सन्मति० टी० पृ. ४९८ । "पुनश्चोक्तं दृष्टेषु संवित्सामर्थ्य भाविनं स्मरणादित्यादि"-प्र. वा. स्व. टी. पृ०६। (६) साकारतायाः। (७) दर्शनं साकारं। (6) निर्विकल्पिकामर्थबुद्धिम् । (९) "साधनं मेयरूपता ।"-प्र. वा० । “तस्मादर्थाधिगतेः प्रमाणं मेयरूपता।"-तत्त्वोप. पृ० ५३ । प्रकृतपाठःन्यायकुमु. पृ० १६७ । प्रमेयक पृ० १०७ । प्रश० कन्द० पृ० १२३ । न्यायवि. वि. प्र. पृ. २४० । सन्मति० टी० पृ० ३१२। स्या. रत्ना० पृ० १३६ । प्रमेयरत्नमा० २।९। स्या० म० पृ० १३७ । प्रमाणमी०पृ०३३ । सर्वद.पृ०३६ । (१०) सर्वस्य सतः आकारमनकुर्यादिति भावः। (११) योग्यतया ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org