________________
२१०] न निर्विकल्पात् स्मृतिः
१३९ र्कानुगत" [सिद्धिवि० २।६] इत्याद्युक्तम् । आचार्यविप्रतिपत्त्यादेः समयोऽनेन चिन्तितः । विशेषाऽप्रत्यक्षात् तस्य सामान्यस्य ये विशेषाः तेषाम् [अप्रत्यक्षात्] अदर्शनात् , इदमप्युपलक्षणम् तंदग्रहणस्य । निशेषस्मृतेः विशेषयोः स्मरणात् सन्देहोपपत्तेः कारणात् 'सर्व चेदम् ईहाविनाभावि' इति सम्बन्धः । तदुपलक्षणम् , तेन विपरीतविशेषस्मृतेन्त्युपपत्तेः इत्यादि ग्राह्यम् ।
ननु यदीयं भ्रान्तिः तत्स्मरणपूर्विका, न तर्हि स्पष्टावभासिनी अनुमानवत् , अतोऽयुक्तमुक्तम्-'भ्रान्तिरपि स्पष्टावभासिनी' इति चेत् ; न; जलादिभ्रान्त्या व्यभिचारात् । नैयायिकस्य प्रत्यभिज्ञानेन; कथमन्यथा तदध्यक्षमिति ।
ननु संशयादिः स्मृतिविशेषः, स च अविकल्पानुभवात् वस्तुस्वभावत इति किं तत्र ईहयेति ? एतदेवाह-निर्विकल्प इत्यादिना ।
[निर्विकल्पदृष्ष्टरेव स्मृतौ वस्तुखभावतः ।
निराकारावबोधेन सजातीयस्मृतिर्न किम् ॥१०॥ तद्दृष्टावेव दृष्टेषु व्यवहारप्रवृत्तौ संवित्तिबलात् सजातीयस्मृत्यभिलाषादेरिति किं ग्राह्याकारकल्पनया ? केवलमवबोधमानं भावस्वभावतो प्रकृतस्मृतिहेतुः प्रतीयेत । कल्पयित्वापि विषयाकारं स विशेषो मृग्यः येन प्रतिविषयं भिद्यत अन्यथा अतिप्रसङ्गात् । १५ तेनैव संवेदनं प्रतिनियतार्थवेदनं स्यात् । यत उत्पन्नं ज्ञानं यज्जातीयस्मृतिहेतुतया व्यवहारयति तत्तस्य नेतरस्येति कुतोऽतिप्रसङ्गः, सदकारस्म स्वयमनुपलक्षितस्य स्मृती अभावानतिशायनात् । विप्लवे साकारदर्शनात् तदन्यत्र कल्पनायामतिप्रसङ्गात् । तावतैव सर्वव्यवहारप्रसिद्धस्तथैवास्तु इति चेत् ; स्वयमभिप्रेतभ्रान्तिमात्रासिद्धः सर्वथाऽसम्बद्धप्रलापमात्रम् , अविद्यात एव विद्यासिद्धेरनिवारणात् अनिष्टानुषङ्गात् । भ्रान्तिमात्रात् परमा- २० थेतोऽसिद्धस्वभावात् प्रतीतिविपर्यासेन भावान् इदन्तया नेदन्तया वा व्यवस्थापयितुकामः सौगतः एकान्तेन अविकल्प एवेत्यलमतिप्रसङ्गेन । ] ___निर्विकल्पदृष्टेः अविकल्पानुभवाद् वस्तुखभावतः भावस्वाभाव्यादेव नान्यतः इति एवकारार्थः। सजातीयस्मृती सामान्यविषयविकल्पबुद्धौ अङ्गीक्रियमाणायाम् दूषणमिदमिति दर्शयन्नाह-निराकार इत्यादि । निराकारावबोधेन अर्थसारूप्यरहितदर्शनेन २५ हेतुत्य (तुना) किन्न सजातीयस्मृतिः सर्वोऽपि [११८क] सामान्यविकल्पो 'जायते' इत्यध्याहार्यम्, जायत एव । कुतः ? वस्तुस्वभावतः भावशक्तरिति, येन कारणेन ग्राह्याकारोऽकारोऽत्रावबोधे कल्प्यते । ततो न युक्तमेतत्
(१) विशेषाग्रहणस्य । (२) "नहि विशेषस्मृतिव्यतिरेकेणापरः संशयः, उभयांशावलम्बिस्मृतिरूपत्वादस्य ।"-प्र. वार्तिकाल० पृ० १८ । (३) व्यभिचारः, तद्धि स्मरणपूर्वकमपि प्रत्यक्षं स्पष्टावभासि च । (४) प्रत्यभिज्ञानम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org