________________
‘सामान्यविशेषात्मकतत्त्वप्रतीतिरपि संशीतिः' इत्येके ;' तन्निरासार्थ एवकारः, तस्याः ५ तत्त्वेतरस्वभावावस्थारूपत्वात् । अन्यथा अन्येन तत्त्वस्वभावे इतरस्वभावप्रकारेण, इतरस्वभावे तत्त्वस्वभावप्रकारेण प्रतिपत्तिः पुनः विसंवादो विपर्ययः । तत्त्वप्रतिपत्तिः अवायः विवक्षितव्याप्यस्वभावनिर्णयोऽवायः । सर्वं निरवशेषं च इदं संशीत्यादिकम् ईहाऽविनाभावि ।
यदि नाम समदृष्टिः किमायातं येन तो विशेषेषु ईहातश्च आरेका स्यात् । नहि अन्यत्र दृष्टेः अन्यत्र सा युक्ता, अन्यथा घटदृष्टेः पटे भवेत् । किंच, सामान्यदृष्टौ विशेषो १० [११७] यद्युपलब्धिलक्षणप्राप्तिः (तः) सन्नोपलभ्यते तर्हि तेदभाव एव न तत्र ईहा आरेका
वा। अथ अन्यथा [अ] दृश्यानुपलब्धेरेव संशीतिः इति किं 'समदृष्टेः' इत्यनेन ? न हि स्वर्गादौ तद्दृष्टेः संशीतिः इति चेत्; अत्राह - सामान्य इत्यादि । 'व्यापकस्वभावं पश्यन् ' इत्यनुवृत्तेः येषां विशेषाणाम् ईहा आरेका च तेषां व्यापकस्वभावं सामान्यम् इह गृह्यते तस्य प्रत्यक्षा [द्] दर्शनात् ।
अन 'नान्यस्य दर्शने अन्यस्य सा युक्ता, अन्यथा घटदर्शने पटे सा भवेत्' इति ; तन्निरस्तम् । न खलु यथा तत्सामान्यं विवक्षितविशेषस्वभावं तथा पटः (घट) पटस्वभाव इति । ईहमानस्य तद्व्याप्यविशेषान् आदातुं चेष्टमानस्य । अनेन यदुक्तम् - * " सामान्याऽदृष्टौ विशेषाणां दृश्यात्मनामष्टौ अभावः स्यात् ।" इति ; तन्निरस्तम् ; तदा आचार्येण तद्द्दश्यात्मतानभ्युपगमात्, अन्यथा 'ईहमानस्य' इति न ब्रूयात् । को हि नाम दृश्यं पश्यन्नेव २० आदमी |
१५
१३८
सिद्धिविनिश्वयटीकायाम्
[ २ सविकल्पसिद्धिः
(सूच्यते) व्यापकस्वभावे दृश्यमाने तत्त्वस्वभावो विवक्षितव्याप्यस्वभावः इतरश्च [ स्व] भावोऽविवक्षितव्याप्यस्वभावः तयोर्न विद्यते अवस्था अवस्थितिर्यस्या सा तथोक्ता उभयत्र दोलायमाना इत्यर्थः ।
यत्पुनरुक्तम् - *"एवं सति अदृश्यानुपलब्धिरेव ( ब्धेरेव ) संशयात् किं सामान्यप्रत्यक्षात्" इत्यनेन इति तदप्येतेन निरस्तम् ; तत्त्वेतरस्वभावव्यापकभवे (भाव) दर्शनादेव • अनैकान्तिकहेतुदर्शनादि (दू, इतः ) च तत्र नियमेन सन्देहो युक्तो न अदृश्यदर्शनादेव । अन्यथा अदृश्यपरचैतन्यादेः अनुपलम्भादभावासिद्धे मृतादिव्यवहारोच्छेदः स्यात् इति ।
२५
यश्चोक्तम् ं–*‘“सामान्यप्रत्यक्षमन्तरेणापि क्वचित् संशयः” इति तदपि न [११७ख] सूक्तम् ; तत्रापि शब्दादन्यतो वा सामान्याप्रतिपत्तौ " तदभावात् " समवाया (समया) दर्शिनः शास्त्रार्थसन्देहः अन्यथा' । 'सामान्यप्रत्यक्षात्' इत्येतस्य उपलक्षणार्थत्वात् । एवमर्थं च "वित
(१) बौद्धादयः । (२) सामान्यविशेषात्मकतत्वप्रतीतेः । (३) सामान्यदर्शनम् । ( ४ ) समदृष्टेः । (५) विशेषस्य अभाव एव । (६) उपलब्धिलक्षणप्राप्तो न भवति । (७) समदृष्टेः । (८) व्यापकभूतं सामान्यम् । (९) तुलना- "अन्यथा उपलब्धिलक्षणप्राप्तानुपलम्भादभावो नानुपलब्धिमात्रात् । तथाप्यनुपलधेरेव संशयः व्यर्थमेतत् सामान्य प्रत्यक्षादिति । " - प्र० वार्तिकाल० पृ० १८ । (१०) तुलना - " दृश्यते कान्यकुब्जादिषु सामान्यप्रत्यक्षतामन्तरेणापि प्रथमतरमेव स्मरणात् संशयः । " - प्र० वार्तिकाल० पृ० १८ । (११) संशयाभावात् । (१२) सङ्केताग्राहिणो यथा शास्त्रार्थसन्देहो न भवति । अपि तु तस्य अप्रतिपत्तिरेव । (१३) स्यादिति सम्बन्धः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org