________________
२।९] बर्हिभ्रान्तिसिद्धिः
१३७ वायीभवति । निदर्शनमाह-स्मरन्नेव (रनिव) इति । यथा कथञ्चित् स्मरन् केनचित् सदृशपरिणामेन तद्विशेषं प्रतीहमानोऽपि नावश्यं तद्विशेष स्मरति तथा प्रकृतमपि इति । यदि नावश्यं विशेषमवैति किं तर्हि तत् स्यात् ? इत्यत्राह-समदृष्टेः इत्यादि ।
[समदृष्टेर्विशेषेहारेका स्वार्थाविनिश्चये ।
अतस्मिंस्तद्ग्रहो भ्रान्तिरपि स्पष्टावभासिनी ॥९॥ व्यापकं स्वभावं पश्यन् विशेष प्रति पुनस्तदन्तरमीहमानो व्यवहारी नावश्यमवैति सामग्रीवैकल्यसंभवात् । तत्त्वेतरस्वभावा प्रतिपत्तिः संशीतिरनवस्थैव । अन्यथाप्रतिपत्तिः पुनर्विसंवादः। तत्त्वप्रतिपत्तिरवायः । सर्वञ्चेदमीहाविनाभावि । सामान्यप्रत्यक्षात् विशेषाप्रत्यक्षात् विशेषस्मृतेः सन्देहोपपत्तेः।]
___ समदृष्टेः अवग्रहाद् विशेषाकाङ्क्षा विशेषेहा, तस्याः किम् ? इत्याह-आरेकेति । १० 'विशेषेहा' इत्येतज्जात 'को' विभक्ति [११६क] परिणाममिह संबध्यते। ततः तस्याः आरेका संशीतिः । किं सर्वदा सा ततो भवति । 'न' इत्याह-वार्थाविनिश्चये । स्वशब्देन ईहा गृह्यते, स्वस्य अर्थः तदाकाङ्कितो विशेषः तस्याऽविनिश्चये सति आरेका न विनिश्चये, कदाचित् ततः तद्विनिश्चयोऽपि जायत इत्यभिप्रायः । न केवलं तत आरेकैव किन्तु विपर्ययोऽपि इति दर्शयनाह-अतस्मिंस्तदग्रहो भ्रान्तिरपि इति । भ्रान्तिरपि विपर्ययोऽपि न केवलम् आरेकाऽ- १५ वायावेव ततो जायते इति । तत्स्वरूपं दर्शयितुमाह-अतस्मिंस्तद्ग्रहः [स्थाणौ] पुरुषादिग्रहः अबाह्ये बाह्यग्रहवत् । न च तद्ग्रहोऽसिद्धः; प्रतिभासनात् । यथैव च एकेन ज्ञानेन अन्योऽन्यभिन्ननीलाद्याकाराणां व्याप्तिः तथा स्वतो भिन्नानां गृहीतिरिति निवेदितम् । निवेदयिष्यतैतदविभ्रमे (प्यते चैतत्-*"अविभ्रमेऽ )सौगतं जगत" [इत्यादिना] । सर्वविकल्पातीतत्वे स एव दोषः कथञ्चित् कुतश्चिदप्रतिपत्तेः । ततो बहिन्तिरभ्युपगन्तव्येति सर्वं सुस्थम् । कथम्भूता २० सा ? इत्यत्राह-स्पष्टावभासिनी इति विशदा इति । अनेन *"सदृशदर्शनप्रभवा सर्वापि भ्रान्तिः मानसी" इति मतं निरस्तम् ; तस्याः स्पष्टावभासित्वाऽयोगात् । प्रतीयते च तत्प्रभवाऽपि मरीचिकादौ जलादिभ्रान्तिः तैथावभासिनी ।
___ कारिकां विवृणोति-व्यापक इत्यादि । [व्यापकस्वभाव] नाऽव्यापकस्वभावं सादृश्यैकत्वपरिणामस्वभावं पश्यन् विशेषं तद्भिदं प्रति पुनः तदन्तरमीहमानो व्यवहारी नावश्यं २५ [११६ख] नियमेन अवैति निश्चिनोति 'विशेषम्' इति सम्बन्धः । कुत एतत् ? इत्यत्राहसामग्री इत्यादि । विशेषे अवायस्य या सामग्री देशसन्निधानादिलक्षणा तस्या विकल्प (वैकल्य) संभवात् । संशयादीनां स्वरूपं प्रदर्य ईहात उत्पत्तिं दर्शयन्नाह- तत्त्व (वे) इत्यादि । प्रतिपत्तिः संशीतिः । कथंभूता ? तत्त्वेतरस्वभावा अनवस्थैव । 'व्यापकस्वभावम्' इति वचनात् व्याप्योऽपि स्वभावः, आक्षिप्त स्तस्य तन्नान्तरीयकत्वात् । स चानेकः ततः सूस्यत ३०
(१) अवायात्मकनिश्चयविषयो भवति । (२) 'का' इति पञ्चमीविभः संज्ञा । (३) तुलना"मानसं तदपीत्येके तेषां ग्रन्थो विरुध्यते। नीलद्विचन्द्रादिधियां हेतुरक्षाण्यपीत्ययम् ॥"-प्र०वा० ३।२९५ । (४) सादृश्यप्रभवापि । (५) स्पष्टा । (६) व्याप्यस्य । (७) व्यापकं विना अभवनात् ।
१८ Jain Education International
For Personal & Private Use Only
www.jainelibrary.org