________________
१३६
सिद्धिविनिश्चयटीकायाम्
[ २ सविकल्पसिद्धिः
त एव विशेषाः तानपि नोपलक्षयति । एतदुक्तं भवति - यथा क्वचित् सत्त्वज्ञेयत्वादिविकल्पान् क्रमभाविन उपलभ्य पुनः आसन्नार्थदर्शी युगपद् व्यवसायेऽपि क्रमेणैव तत्प्रवृत्तिरिति व्यव - स्थापयति युगपदनेकव्यावृत्तिविकल्पासंभवात् तथा दूरे समविषमाकारदर्शनविशेषान् क्रमेण जायमानानुपलभ्य आसन्नेऽपि तथा तान् व्यवस्थापयति, दृष्टेन अदृष्टसिद्धेरनिवारणादिति । ५ अथ मतम् - आसन्नार्थदर्शी यदि तद्दर्शनविशेषान् पश्यति किमिति तथैव नावधारयति इति ? तत्राह - क्रमस्य उपलक्षयितुमशक्तेः इति । आसन्नार्थदर्शिनो ये तद्दर्शनविशेषाः तेषाम् सत्तादिविकल्पवत् क्रमस्य उपलक्षयितुमशक्तेः इति ।
स्यान्मतम् - आसन्नार्थदर्शी क्षणिक निरंशपरमाणुस्वलक्षणमेव पश्यति इति [१९५क ] तद्दर्शनविशेषान् असत्त्वान्नोपलक्षयति न सत एव तत्कथमुच्यते - 'सम' इति ? अत्राह - पश्य१० न्नयम् इत्यादि । पश्यन्नयं सौगतो लोको वा असाधारणमेव नान्यत् पश्यति इत्येतत् प्रतिज्ञाय कोशपानं विधेयम् अ॒न्यतः तत्प्रतिपत्तेरसंभवादिति भावः । ततः 'सम' इत्यादि सूक्तम् ।
सांप्रतं पैराम्युपगतभ्रान्तेन्द्रियज्ञानबलेन सामान्यग्रहणं व्यवस्थापयन्नाह - उपहतेन्द्रियैः इत्यादि । उपहतानि कामलादिना दूषितानि इन्द्रियाणि येषां तैः चन्द्रादेः आदिशब्देन वर्तुलत्वादेदर्शनेऽपि न केवलम् अदर्शने, तथा तत्र उपहतेन्द्रियेषु आद्यं (चन्द्राद्यदर्शनं ) चन्द्रादिदर्शनाभावं १५ कल्पयन् सौगतादिः, कुतः कल्पयन् ? इत्यत्राह - तद् इत्यादि । तस्य चन्द्रदेर्विशेषः एकत्वादि [:] तस्य अनुपलब्धिः (ब्धेः । ) तदनुपलब्धौ चन्द्राद्य दर्शनम्, एकस्य गृहीतेतररूपद्वयाऽयोगादिति मन्यते । किं करोति ? इत्यत्राह - न केवलम् इत्यादि । न केवलं रूपादिस्वलक्षणान्येव निरंशक्षणिकरूपादिपरमाणूनेव नोपलभते, कुत एतत् ? दृष्टे [:] । रूपादिदर्शनस्य तत्प्रतिभास वैकल्यात् परपरिकल्पितस्वलक्षणप्रतिभासविरहात्, 'उपहतेन्द्रियैरिव अनुपहतैरपि बहिरर्थाऽदर्शनम्' २० इति मन्यते । माभूत् तस्य दर्शनं तथापि विज्ञानवादिनो न किञ्चित् तस्यतीति (नश्यतीति) चेत्; अत्राह-अपि तु इत्यादि । अपि तु किन्तु स्वयम् आत्मना अन्तः स्वलक्षणं च ज्ञान[११५ख] स्वलक्षणमपि नोपलभते इति । कुत एतत् ? इत्यत्राह - यथा इत्यादि । यथाश्रुतं यथाभ्युपगम [ म् अ ] प्रतिभासनाद् 'अन्तः स्वलक्षणस्य' इति सम्बन्धः । तर्हि बहिरिव अन्यत्रापि विचारसाम्यात् शकलशून्यता अस्तु इति चेत्; अत्राह - स्वभाव इत्यादि । ज्ञानज्ञे२५ ययोः स्वभावस्य स्वरूपस्य नैरात्म्यं नीरूपत्वं तस्य कल्पनाम् आविशन् सौगतः आत्मानम् अति । कुत एतत् ? इत्यत्राह - साध्य इत्यादि । ततो बहिरन्तश्च कृतम् ! अप्रतिभासे यथा सामान्यावभासनं तथा तद्विशेषानुपलम्भेऽपि चन्द्रादिदर्शनम् उपहतेन्द्रियैरिति कथन्न दृष्टिः सन्मात्रग्राहिणी संभाव्यत इति मन्यते । उपसंहारार्थमाह - ' तस्मात्' इत्यादि । यत एवं तस्मात् अयं व्यवहारी किञ्चित् पुरुषादिकं केनचित् स्थाण्वादिना सह यः सदृशपरिणामः तेन विशिष्टं ३० पश्येत्, तद्विशिष्टं तत्परिणामभेदं तत्प्रति ईहमानोऽपि नाऽवश्यं विशेषमवैति न विशेषोऽ
(१) क्रमेणैव । (२) क्रमेणैव । (३) समविषमाकार दर्शन विशेषान् । (४) मद्यपानाद्विना । ( ५ ) बौद्धाभिमत । (६) एकत्वादिविशेषानुपलब्धौ । ( ७ ) बहिरर्थस्य । ( 2 ) अन्तरपि ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org