________________
२८ ]
प्रत्यक्षस्य सविकल्पकता
१३५
व्येत । न वै केवलमासन्नार्थदर्शी समविषमाकारदर्शन विशेषानेव नोपलक्षयति, [ किं तर्हि ] सत्तादिविकल्पविशेषानपि क्रमस्योपलक्षयितुमशक्त ेः । पश्यन्नयमसाधारणमेव पश्यति" इति प्रतिज्ञाय कोशपानं विधेयम् । उपहतेन्द्रियैः चन्द्रादेर्दर्शनेऽपि तद्विशेषानुपलब्धेः । तत्र चन्द्राद्यदर्शनं कल्पयन् न केवलं रूपादिस्वलक्षणान्येव दृष्टे तत्प्रतिभासवैकल्यान्नोपलभते अपि तु स्वयमन्तः स्वलक्षणं च यथाश्रुतमप्रतिभासानात् । स्वभावनैरात्म्य- ५ कल्पनामाविशन् आत्मानमहीकयति । साध्य [ अप्रसिद्धेः ] । ततो बहिरन्तश्च कृतम् ! तस्मादयं किञ्चित् केनचित् सदृशपरिणामविशिष्टं पश्येत्, तद्विशिष्टं प्रतीहमानो नावश्यं विशेषमवैति स्मरन्निव । ]
असन्त (असतः) इत्युपलक्षणम् । तेन सर्वस्माद् अनभिमताद् इति गृह्यते, सद् इति उपलक्षणम् सर्वस्याऽभिमतस्य । सद्विद्या द्य ( सद् व्यवच्छिन्द्यात् व्य ) वच्छिन्नं १० विषयीकुर्यात् । यथा येन योग्यताप्रकारेण [११४] अनक्षविकल्पधीः मानसी विकल्पबुद्धिरिति । अनक्षविशेषणं स्वमतापेक्षया न सौगतापेक्षया, 'तस्य हि सर्वा विकल्पधीः 'अनक्षैव इति तद्विशेषणमनर्थकम्, तथा तेन प्रकारेण स्पष्टाक्षधी: प्रत्यक्षबुद्धिः असतः सद् व्यवच्छिन्द्यात् इति सम्बन्धः । कुतः ? इत्यत्राह - स्वार्थसन्निधेः । स्वग्रहणयोग्योऽर्थः स्वार्थः तस्य सन्निधेः योग्यदेशाद्यवस्थितेः । इति शब्दोऽत्र द्रष्टव्यः इत्येवम् अनुमन्यताम् १५ अभ्युपगम्यताम् ।
कारिकां विवृण्वन्नाह–‘दूर्’ इत्यादि । दूरस्थस्य पुरुषस्य यदर्थदर्शनं कर्तृ यदि विकल्पबुद्धिं जनयेत् । किं कुर्वाणाम् ? अपोहन्तीम् । किम् ? इत्याह- स्वविषयम् । कुतः ? असतः खरविषाणादेः केवलात् नान्यतो न सतो व्यपोहन्ती [ म्] । केन प्रकारेण ? इत्यत्राह - किमपि अस्ति इति एवं तथा तेन प्रकारेण दूरस्थदृष्टिरपि न केवलम् अनक्षविकल्पधीः संभा - २० व्येत । कथंभूता ? सन्मात्रग्राहिणी । पुनः इति वितर्के । कस्मिन् सति ? इत्यत्राह - अशेषवस्तुस्वभावाऽनुपलम्भेऽपि न केवलं तदुपलम्भे । अथ मतम्-अनर्थविषयत्वाद् अनक्षविकल्पधीः तथा युक्ता नेन्द्रियबुद्धिः विपर्ययादिति चेत्; न; तस्या अपि वस्तुविषयत्वस्य प्रतिपादयिष्यमाणत्वात् । वक्ष्यति च सम्यग्विचारिता वाक्यविकल्पास्तत्त्वगोचराः । " [सिद्धिवि ५।४] इति । ततः स्थितम्–'वर्णसंस्थानादिसामान्यम्' "इत्यादि ।
२५
ननु दूरार्थदर्शने [११४ख] अवग्रहाद्यभावो मा भूत् तदुपलक्षणात्, आसन्नार्थदर्शने तत् स्याद् विपर्ययादिति चेत्; अत्राह - नवै केवलम् इत्यादि । वै शब्दः शिरः कंप्प(कम्पे), न केवलमासन्नमर्थं पश्यति इत्येवं शी [लः ] समश्च विषमश्च तौ च तौ आकारौ च सदृशे - तरपरिणामाकारौ तयोर्दर्शनम् ग्रहणं तस्य विशेषा अवग्रहादयः तानेव नोपलक्षयति, किं तर्हि ? सत्तादिविकल्पविशेषानपि सत्ता आदिर्येषां शब्दत्वादीनां तेषां विकल्पा व्यवसायाः ३०
(१) सौगतस्य । ( २ ) न इन्द्रियजन्या, अपि तु मानसी निर्विकल्पजन्या वा । (३) अर्थ सामर्थ्य - समुद्भूतत्वादर्थजन्यैव सा । (४) विकल्पबुद्धेरपि । (५) पृ० १३३ प० १ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org