________________
१३४
सिद्धिविनिश्चयटीकायाम् [२ सविकल्पसिद्धिः व्यवच्छेदो व्यावृत्तिः तस्य विकल्पो निश्चयः तस्य उत्पत्तेः। ननु यदि नाम 'तद्वलात् तद्विकल्पोत्पत्तिः [११३क ] तथापि न स्वलक्षणोपलक्षणं नियमाभावादिति चेत् ; अत्राह-तद् इत्यादि । तस्य स्वलक्षणस्य अनुभवो दर्शनम् तेन ईहित आकासितो यो व्यपोहो विजातीयव्यावृत्तिः, अथवा व्यपोहविषयत्वाद् विकल्पो व्यपोहः, तम् आत्मसात्कुर्वन् सौगतः कथम् अनु५ पलक्षको नाम अनिश्चायको नाम किन्तु उपलक्षक एव । न खलु देवदत्तस्यानुपलक्षणे तस्य यज्ञ
दत्ताद् व्यपोहः सिद्धः शक्यः प्रत्येतुम् , तत्प्रतीतौ न तदुपलक्षणम् । अत्रायमभिप्रायः-यदाऽयं सौगतः अनुभूतस्वलक्षणस्य उपलक्षको भवति तदा दूरस्थस्य वर्णसंस्था[ना] दिसामान्यस्य विकल्पतोऽपि ग्रहणाभावात् तद्ग्रहणनिबन्धनः किमियं वलाका अहोस्वित् पताका, वलाकायां
पताकाकैरेति (ताकैवेति), तथा 'स्थाणुर्वा पुरुषो वा, पुरुपे स्थाणुरेव' इति संशयः विपर्ययो वा १० न भवेत् । न चैवम् , ततो दूरस्थस्य तत्सामान्यं प्रथममवगृह्यते इति ।
अधुना परपक्षान्तरमाशङ्क्य दूषयन्नाह-स्वलक्षण इत्यादि । स्वलक्षणदर्शिनः तथागतस्य स्वलक्षणस्य उपलक्षणं निश्चयनं येन यस्मिन् वा स तथोक्तः स चासौ विकल्पः तमन्तरेणानि तस्य विवक्षितस्वलक्षणस्य अन्यो विजातीयः तस्य अपोहो व्यावृत्तिः तद्विषयो विकल्पः
तथा उच्यते तस्य कल्पनायां क्रियमाणायां जातिदर्शिनोऽपि [ ११३ख ] वैशेषिकादेः १५ तदुपलक्षणविकल्पमन्तरेणापि सामान्योपलक्षणनिश्चयमन्तरेणापि कुतश्चित् कस्याश्चिद्
योग्यतायाः समवायिषु गोत्वादिसामान्यसम्बन्धवत्सु नान्येषु, कथम्भूतेषु ? भिन्नेषु] प्रत्ययः कथं विरुध्येत । कथमनुपलक्षितं सामान्यं तत्प्रत्ययहेतुरिति चेत् ? अत्राह-कारण इत्यादि । तत्प्रत्ययस्य कारणं सामान्यं तच्छक्तः अचिन्त्यत्वात् । ननु दृष्टे वस्तुनि चोद्य 'कार
णशक्तेरचिन्त्यत्वात्' इत्येत्तदुत्तरं नान्यत्र अतिप्रसङ्गात् । तदुक्तम्२० *"यत्किञ्चिदात्माभिमतं दिवाय (विधाय)" [प्र० वार्तिकाल० पृ०३५] इत्यादि ।
न च सामान्यं वचिद् दृष्टमिति चेत् ; अत्राह-इतरत्रापि इति । न केवलं जातिवादिपक्षे अपि तु इतरत्रापि स्वलक्षणवादिपक्षेऽपि 'कारणशक्तेरचिन्त्यत्वात्' इत्येतदेवोत्तरमिति मन्यते । अथ मतं स्वसामान्यलक्षणयोः दर्शनादर्शनकृतविशेषसद्भावात् कथमविशेषचोदनमिति चेत् ?
अत्राह-विशेषाऽभावात् इति ? जातिवत् स्वलक्षणस्यापि दर्शनाऽभावात् , भवतो द्वयोरपि २५ सत्त्वमसत्त्वं वा इति मन्यते । तन्न दर्शनजन्मना विकल्पेनैव सामान्यं गृह्यत इति युक्तम् ।
भवतु वा, तथापि स्वमतसिद्धिं दर्शयन्नाह- असतः इत्यादि ।
[ असतः सद् व्यवच्छिन्द्यात् यथाऽनक्षविकल्पधीः ।
तथा स्पष्टाक्षधीः स्वार्थसन्निधेरनुमन्यताम् ॥८॥
दूरस्थस्य अर्थदर्शनं यदि असतः स्वविषयमपोहन्तीं किमप्यस्तीति विकल्पबुद्धि ३० जनयेत् तथा दूरस्थदृष्टिरपि पुनः अशेषवस्तुस्वभावानुपलम्भेऽपि सन्मात्रग्राहिणी संभा
(१) दर्शनबलात् । (२) वर्णसंस्थानादिसामान्यम् । (३) अपोहविषयः। (४) 'अपोह' इत्युच्यते । (५) निरुत्तरःतन्त्र कृतः परेण । वस्तुस्वभावैरिह वाच्यमित्थं तथोत्तरे स्याद् विजयी समस्तः॥” इति शेषः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org