________________
२७ ]
प्रत्यक्षस्य सविकल्पकता
[ वर्णसंस्थानादिसामान्यं दूरस्थस्यावगृह्यते । तद्विशेषेावायो तदभावेऽपि जातुचित् ॥७॥
५
यथैव हि व्यक्तिव्यतिरेकसामान्यदर्शिनस्तदनुपलक्षणमयुक्तं तद्दर्शनबलाद् भिन्नेषु द्रव्यादिषु अभिन्नप्रत्यययोत्पत्तेः, तथैव स्वलक्षणदर्शिनस्तदनुपलक्षणं तद्दर्शन बलात्तदन्यव्यवच्छेदविकल्पोत्पत्तेः । तदनुभवेहितव्यपोहमात्मसात्कुर्वन् कथमनुपलक्षको नाम ? स्वलक्षणदर्शिनः स्वलक्षणोपलक्षणविकल्पमन्तरेणापि तदन्यापोहकल्पनायां जातिदर्शिaise दुपलक्षण विकल्पमन्तरेणापि कुतश्चित् भिन्नेषु समवायिषु प्रत्ययः कथं विरुध्येत ? कारणशक्तेरचिन्त्यत्वात् इतरत्रापि एतदेवोत्तरं विशेषाभावात् । ]
वर्णश्च शुक्लादिः संस्थानं च ऊर्ध्वादिः आदिशब्देन कर्मादिपरिग्रहः, तेषां सामान्यं सदृशः परिणामः दूरस्थस्य भावस्य अवगृह्यते अवग्रहेण विषयीक्रियते । तथाहि - दूरस्थ - १० वलाकादिविशेषणशुक्लरूपाग्रहणेऽपि तद्र पसामान्यग्रहणम् पुरुषादिविशेषण - ऊर्ध्वाद्यदर्शनं दूरे, तथा कर्मण्यपि योज्यम् । तन्न युक्तम्- ' व्याप्याप्रतीतौ व्यापकाप्रतीतिः' इति । कथं तदवगृह्यते ? इत्याह- तद्विशेषेहया इति । तस्य सामान्यस्य विशेषाः तेषु ईहा आकाङ्क्षा तया सह । तदीहातो नियमेन विशेषावायभावात् संशयाद्यभाव इति चेत्; अत्राह - अवाय इत्यादि । अवाय एव तस्या (तस्य) वा कारणभूता शक्तिः तस्याः अभावेऽपि न केवलं भावे १५ जातुचित् कदाचित् न सर्वदा ।
१३३
ननु दूरस्थस्य न तत्सामान्यमवगृह्यते किन्तु स्वलक्षणमेव, केवलम् अंतद्धेतुफलव्यपोहसामान्यनिश्चयोत्पत्तेः तत्सामान्यमवगृह्यत इति व्यवहारी मन्यते इति परः, तन्निराकरणद्वारेण कारिकार्थं समर्थयमान आह - [ ११२ख] यथैव हि इत्यादि । यथैव हि येनैव हि प्रकारेण व्यक्तिभ्यो व्यतिरेको भेदो यस्य तच्च तत्सामान्यं च तद्द्रष्टुं शीलस्य वैशेषिकादेः तद्दर्शिनः २० तस्य सामान्यस्य अनुपलक्षणम् अनिश्चयनम् अयुक्तम् अनुपपन्नम्, किन्तु उपलक्षणमेव युक्तम् । कुत एतत् ? इत्यत्राह - - तद्दर्शन इत्यादि । तस्य सामान्यस्य दर्शनं तस्य बलं सामर्थ्यं तस्मात् भिन्नेषु देशादिभेदवत्सु । केषु ? इत्यत्राह - द्रव्यादिषु । द्रव्यमादिः येषां गुणादीनां ते तथोक्ताः तेषु, अभिन्नः प्रत्ययग्रहणमुपलक्षणं तेन अभिधानोत्पत्तिः इत्यपि गृह्यते । एतदुक्तं भवतिविशेषाः (ष्याः) द्रव्यादयः विशेषणं सत्तादिसामान्यम्, न च तदनुपलक्षितं तेषु विशिष्टप्रत्ययहेतुः २५ इतरथा दण्डानुपलक्षणेऽपि क्वचिद् ' दण्डी' इति प्रत्ययः स्यात् । न चैवम्, *"नाऽगृहीतविशेषणा विशेष्ये बुद्धिः" इति वचनात् इति, तथैव तेनैव प्रकारेण स्वलक्षणदर्शिनः स्वलक्षणं इत्येवंशीलस्य सौगतस्य तदनुपलक्षणम् स्वलक्षणानुपलक्षणम् 'अयुक्तम्' इति सम्बन्धः । एतत् ? इत्यत्राह-तद्दर्शन इत्यादि । तस्य स्वलक्षणस्य यत् दर्शनं तद्बलात् तदन्यव्यवच्छेदविकल्पोत्पत्तेः तस्य विवक्षितखण्डादिस्वलक्षणस्य अन्ये विजातीयाः कर्कादयः तेषां तेभ्यो वा ३०
(१) अतत्कारणकार्यव्यावृत्तिरूपस्य सामान्यस्य निश्चयः संजायते । (२) बौद्धः । ( ३ ) सत्तासामान्यं विशेषणम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org