________________
१३२
सिद्धिविनिश्चयटीकायाम्
[ २ सविकल्पकसिद्धिः
किमा गुडस्य स्यादिति चेत्; अत्राह - तत्र इत्यादि । तत्र दृष्टान्तेतररूपे तद्विकल्पानां सहनिर्देशः [१११] इन्द्रियार्थयोः सन्निकर्षः योग्यदेशादिसन्निधिः समयस्य अवग्रहादिकालस्य नियमेन अव्यभिचारेण अन्तर्वासनाप्रबोधम् अन्तर्वासना मनोविकल्पवासना तस्याः प्रबोधम् उन्मीलनं स्पष्टयति विशदं करोति इति हेतोः तेषां तत्समानम् इति । एतदुक्तं भवति - मनो५ विकल्पा एव न तत्सन्निकर्षात् स्पष्टीभवन्ति ततः दृष्टान्तेतरभावो न विरुध्यते इति ।
ननु मानसा विकल्पाः स्पष्टाकार विधुराः, तत् कुतः स्पष्टीभवन्ति इति चेत् ? अत्राह - यथार्हम् इत्यादि । यथार्हम् यथायोग्यं सामग्रीभेदं प्राप्य स्पष्टयति इति । उपसंहरन्नाह - ततः तस्मात् अर्थप्रतिभासां (सः) तेषां विकल्पानां स्पष्टेतररूपतया भिद्येत न पुनः ईहा निराक्रियेत अनुपलक्षणेऽपि न केवलम् उपलक्षणे च । निदर्शनमाह - 'लिङ्ग' इत्यादि । लिङ्गलिङ्गिनोः १० सम्बन्धः अविनाभावः तस्य या स्मृतिः तद्र पो यो वितर्कः तस्येव तदनुपलक्षणम् । एतदुक्तं भवति—यथा गृहीतव्याप्तिकस्य पुंसो धूमदर्शनानन्तरं धूमकेतुप्रतिपत्तौ अन्तराले विद्यमानस्यापि सम्बन्धवितर्कस्य अनुपलक्षणम्, तथा ईहायामपि इति । तथा च विपक्षेऽपि 'अनुपलक्ष्यमाणत्वात्' इत्यस्य साधनस्य सद्भावात् ईहा ततो न निराक्रियेत इति भावः इति केचिदाचक्षते । तेषां धूमदर्शना[न]न्तरं पावकप्रतिपत्तौ अनुपलक्षितसम्बन्धस्मृतिसद्भावे भ्रूणेऽपि [१११ख ] १५ [य]दकस्माद् धूमदर्शनाद् अग्निरत्र इति ज्ञानं तद्दे वे नैं बौद्धं प्रति * " प्रमाणान्तरम्" इत्युक्तं कथन्न विरुध्येत ? यदा अनुपलक्ष्यमाणात् ( णत्वात् ) तत्स्मृतिं नेच्छति तदा तदुक्तं नान्यदेति चेत्; तदापि परप्रसिद्धस्य प्रकृतहेतुव्यभिचारविषयस्य अभावात् परस्य तत् प्रमाणान्तरं स्यात्, भवेत् (भवतः ) पुनः ईहा हीयते इति समानाऽनिष्टापत्तिः । तस्मादन्यथा व्याख्यायते - लिङ्गलिङ्गिसम्बन्धस्मृतिः परप्रसिद्ध्या ऊह एव उच्यते, तस्या वितर्कः विशेषाकाङ्क्षा तेन तुल्यं वर्त्तत २० इति तद्वत् । एतदुक्तं भवति - यथा मीमांसकेन लिङ्गिलिङ्गिसामान्यसम्बन्धस्मृतिमिच्छता अनुपलक्ष्यमाणेऽपि तद्विर्तका (तर्को न) सौगतेन निषिध्यते अपि तु इष्यते [ एव ] तथा प्रकृता इहापि इति । कुत इति चेत् ? अत्राह - तद् इत्यादि । तस्याः तत्सम्बन्धस्मृतेः अन्यथा तद्वितर्काभावप्रकारेण अनुपपत्तेः । एतदपि कुतः ? इत्यत्राह - अतर्कित इत्यादि । न विद्यते तर्कितं विशेषाकाङ्क्षणं यस्याः सा चासौ स्मृतिश्च तस्याः सकाशात् व्याप्तिः अनवयवेन लिङ्गलिङ्गिनोः सम्बन्धो २५ न सिध्येत् । कुत इति चेत् ? अत्राह - अप्रतिपत्तेः । अतर्कस्मृतेः व्याप्तेः अप्रतिग्रहणात् ।
धूमस्य सामा (धूमसामा ) न्यस्य अग्निसामान्येन व्याप्तिग्रहणे सा गृहीता नाम । लिङ्गलिङ्गिसामान्यस्यैव प्रतीतितो विशेषे अप्रवृत्तिप्रसङ्गादिति निरूपयिष्यते । एतत् 'वितर्कानुगत' इत्यादावपि [११२] निदर्शनं द्रष्टव्यम् ।
ननु व्याप्याऽप्रतिपत्तौ न व्यापक प्रतिपत्तिरिति कथमुच्यते - 'वितर्कानुगत' इत्यादि । ३० अथ व्याप्यप्रतिपत्तौ व्यापक प्रतिपत्तिः; तर्हि व्यापक सामान्यवत् व्याप्यविशेषस्यापि अवग्रहेणावग्रहणात् किम् ईहादिना ? संशयाद्यभावः तस्मात् इति चेत्; अत्राह - वर्ण इत्यादि ।
(१) अग्नि । (२) व्याख्याकाराः । (३) गर्भस्थेऽपि । (४) भट्टाकलङ्कदेवेन । (५) ईहादेः ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org