________________
२६]
मानस प्रत्यक्षनिरासः
१३१
ततो यथा इन्द्रियज्ञानजनितं ज्ञानं मानसं प्रत्यक्षं तथा तज्जनितं प्रत्यक्षान्तरं स्यादित्यभिप्रायः । तत एव तस्या एव प्रत्यासत्तेः इन्द्रियार्थे चक्षुरादिविषये मनसः मनोऽध्यक्षात् स्मृतिः ईहा स्यात् भवेत् नान्यतः कारणादिति भावः । ततः किं जैनेन प्राप्तम् ? इत्याह - तद् इत्यादि । तत् तस्माद् उक्तन्यायाद् अलं पर्याप्तं बहिर्मानसप्रत्यक्षेण कल्पितेन । कथंभूतेन ? अन्तर्गडुना स्मृत्यक्षज्ञानयोः 'घाटाललाटयोरिव अन्तराल ( ले ) गडुलव [ द् ] वर्तमानेन अकिञ्चित्करेण १५ इन्द्रियज्ञानादेव प्रकृतार्थसिद्धेरिति भावः ।
एतदेव दर्शयन्नाह - विकल्प इत्यादि ।
[ विकल्पवासनास्पष्टप्रबोधोऽक्षार्थसन्निधेः । व्यापकव्याप्यसामान्यविशेषार्थात्मगोचरः ॥६॥
वितर्कनुगततद्व्यापकसामान्यग्रहणपूर्वकं व्याप्यविशेषावायज्ञानं मनोऽक्षविकल्पा - १० नां समानम् । तत्र इन्द्रियार्थसन्निकर्षः समयनियमेन अन्तर्वासनाप्रबोधं यथार्ह स्पष्टयतीति तेषां तत्समानम् । ततस्तेषामर्थप्रतिभासः अनुपलक्षणेऽपि भिद्येत न पुनरीहा निराक्रियेत लिङ्गलिङ्गिसम्बन्धस्मृतिवितर्कवत् तदन्यथानुपपत्तेः अतर्कस्मृतेः व्याप्तिः न सिध्येत् अप्रतिपत्तेः । ]
अवग्रहादीनाम् उत्तरोत्तरं ज्ञानं विकल्पः तेन आहिता वासना तद्वासना तस्याः स्पष्टो १५ किन्वाद ( विशदः) प्रबोधः उन्मीलनम् । स कुतः ? इत्याह- अक्षार्थसन्निधेः इन्द्रियार्थ - संप्रयोगात् न मानसप्रत्यक्षादेरिति मन्यते । कथंभूतः ? इत्यत्राह – व्यापक इत्यादि । व्यापकं च व्यादयश्च तौ च तौ सामान्य [११०ख] विशेषौ च व्यापकं सामान्यम् व्याप्यो विशेषः तत्स्वभावौ अर्थात्मानौ गोचरौ यस्य स तथोक्तः ।
कारिकां विवृण्वन्नाह-'वितर्क' इत्यादि । वितर्कणं [वितर्कः ] विशेषाकाङ्क्षणवितर्कपरि - २० णामम् अनु पश्चाद् गतम् तच्च तद् व्यापकसामान्यग्रहणं च तत् पूर्वं कारणं परम्परया य तत्तथोक्तम् [किं त] दित्याह-- व्याप्यविशेषावायज्ञानम् । तत्कथंभूतम् ? इत्यत्राह - मनोऽक्षविकल्पानां समानम् इति । मनोविकल्पानाम् अक्षविकल्पानाम् इन्द्रियज्ञानानां समानं सदृशमिति । ननु प्रत्यक्ष प्रस्तावे किमर्थमप्रस्तुतानां मनोविकल्पानामुपादानमिति चेत् ? दृष्टान्तार्थम् । यथा मनोविकल्पानां वितर्काऽनुगतव्यापकसामान्यग्रहणपूर्वं व्याप्यविशेषावायज्ञानं तथा अक्षविक - २५ ल्पानामिति । न चासिद्धो दृष्टान्तः; पूर्व मनसा सामान्यव्यवसायः, तदनन्तरं तद्विशेषाकाङ्क्षणम्, अतश्च 'पुरुषः स्थाणुः' इति वा विशेषावायज्ञानम्, सौगतस्यापि प्रसिद्धमेतदिति । ननु यदि नाम मनोविकल्पानां वितर्कानुगतव्यापकसामान्यग्रहणपूर्वं व्याप्यविशेषावायज्ञानं किमायातं येन अक्षविकल्पानां तत् स्यात् ? न हि एकस्य धर्मो नियमेन अन्यस्यापि, अन्यथा अर्कस्य कटु
(१) मानसाध्यक्षजनितम्। (२) " घाटामस्तकान्तरालव र्तिमांसपिण्डा परनाम गडुरिव गडुः निष्फलत्वात् ।" - हेतु० टीकालो० पृ० २९५ । प्र० वा० स्व० टी० पृ० २१७ । (३) धत्तूरकस्य ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org