________________
१३०
सिद्धिविनिश्चयटीकायाम् [२ सविकल्पसिद्धिः इन्द्रियज्ञानस्य तदुपादानस्य तद्वत् निर्णयात्मकत्वे तत एव सकलार्थसिद्धः, तस्यैव प्रतीतेः तदिन्द्रियज्ञानं समनन्तरमस्य किम् ? अनिर्णयात्मकत्वे तदनिर्णयात्मकम् इन्द्रियज्ञानं समनन्तरम् अस्य निर्णयात्मनो मानसाध्यक्षस्य किम् ? अक्षार्थयोगादेव तसंभवादात् ( तत्संभवात् । *"अभेदात् ) सशस्मृत्याम्' [ सिद्धिवि० १।६ ] इत्यादौ चर्चितमेतत् ।
किंच, यदि तत् क्षणिकनिरंशपरमाणुविषयं न तत्र प्रमाणान्तरवृत्तिः, निर्णीते समारोपाऽभावात् । *"निश्चयारोपमनसोर्बाध्यबाधकभावतः" [प्र० वा० १।५० ] इति वचनात् । यदि च तत् मध्यक्षणस्य पूर्वापरक्षणापेक्षं कार्यकारणत्वमात्मभूतं न निश्चिनोति; सर्वाऽग्रहणम् , अन्यथा गृहीतेतररूपमेकं स्यात् । निश्चिनोति पूर्वापरयोरग्रहणेऽपि इति चेत् ; तर्हि-आकुलभाषितमेतत्१० *"द्विष्ठसम्बन्धसंवित्तिर्नेकरूपप्रवेदनात् ।।
द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम् ॥" [प्र० वार्तिकाल० १।२ ] इति । तथा *"पूर्वापरावस्थानिर्णयेऽपि स्वयमवस्थात् (त्र )निर्णयाद्वा(व्या)प्याप्रतिपत्ति" इति च । अथ तद्ग्रहणे ; तर्हि तयोरपि कार्यकारणभावनिर्णयः अपरतद्ग्रहणे, इति पूर्वापर
कोट्योस्मा ( रना )द्यन्तयोविषयीकरणमवश्यंभावि, तथा तस्य परतः सर्वस्माद् विवेकनिश्चये १५ सर्व वक्तव्यम् ।
ततो यदुक्तं परेणं-*"मध्यक्षणदर्शनेना( नेनाऽना )गतक्षणदर्शने तद्वत्तत्त्वात् सर्वाऽतीतानागतक्षणदर्शनम्" इति ; तन्निरस्तम् ; अन्यत्रापि समानत्वात् । अथ क्वचित् कार्यकारणभाव एव नेष्यते ; नैवम् ; इन्द्रियज्ञानाऽभावात् तत्प्रभवं मानसाध्यक्षं न स्यात् । व्यवहारेण तदस्तित्वे तत्रैव तदवस्थो दोषः । शेषमत्र प्र मा ण सं प्र ह भा ज्या त् प्रत्येयम् ।
व्यतिरेकमुखेन कारिकां विवृण्वन्नाह-मनोऽक्ष इत्यादि । मनोऽक्षज्ञानानां मानसेन्द्रियप्रत्यक्षाणां सन्ताननानात्वेऽपि न केवलं तदनानात्वे यतो यस्याः प्रत्यासत्तेः अनन्यसत्त्वव्यवस्था एकप्राणिव्यवस्था परस्परम् अन्योन्यं मनोऽक्षसंविदां समनन्तरप्रत्ययता च उपादानकारणता च । ननु अक्षसंविद एव मनःसंविदां समनन्तरकारणं न पुनः "एताः तासाम् ; तत्कथ
मुच्यते-'परस्परम्' इत्यादि इति चेत् ; नैवं शक्यं वक्तुम् , यथैव हि पावकादेव धूमो न तस्मा२५ त् पावको जायमानः प्रतीयते इति पावक एव [ धूमस्य कारणं न ] धूमः [ ११०क ] पाव
कस्य इति निश्चयः, तथैव यदि इन्द्रियज्ञानादेव मानसं प्रत्यक्षं न तस्मादिन्द्रियज्ञानं जायमानं प्रतीयते युक्तमेतत्- इन्द्रियज्ञानमेव 'तत्कारणं न तत्तस्येति । यावता कल्पनया इन्द्रियज्ञानं तत्कारणं तयैव च "तदपि कस्यचिदिन्द्रियज्ञानस्य कारणमस्तु, "तस्याः सर्वत्र निरङ्कुशत्वात् ।
(१) नीलादिप्रतीतिवत् । (२) अक्षज्ञानम् । (३) स्वस्वरूपात्मकम् । (४) अवस्थातुरनिर्णयात् । (५) पूर्वापरयोः ग्रहणे। (६) तुलना-“यदि कालकलाव्यापिवस्तुग्रहणमक्षतः। सर्वकालकलालम्बे ग्रहः स्यान्मरणावधः ॥"-प्र० वार्तिकाल० पृ० ५९२ । (७) मध्यक्षणवत् वर्तमानत्वात् । (८) इन्द्रियज्ञानस्य इन्द्रियेभ्यः अनुत्पादात् । (९) इन्द्रियज्ञानजन्यम् । (१०) मनःसंविदः । (११) मानसज्ञानकारणम् । (१२) मानसम् । (१३) कल्पनयैव । (१४) मानसमपि। (१५) कल्पनायाः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org