________________
२।५ ]
मानसप्रत्यक्षनिरासः
१२९
इहेति ( ईहा इति ) पद घटना । ततः तस्मात् कारणात् स्मृतिः न प्रत्यक्षम् ईहा इति अनुभवकार्यस्य तद्विषयस्य ज्ञानस्य गत्यन्तराऽभावात् इति भावः, इति एवं चेत् ; अत्र पृच्छति आचार्य:- किं पुनः मानसप्रत्यक्षविकल्पकल्पनया लब्धम् ? मानसं प्रत्यक्षमेव विकल्पो भेदः तस्य कल्पनया किं प्राप्तं सौगतेन ? तत्प्रत्यक्षं चक्षुरादिव्यापारकाले अन्यदा वा न प्रतिभाति केवलं कल्पनाशिल्पिकल्पितम् इत्येतत् कल्पनया इति ।
५
अत्राह शान्त भद्र: ' - *" तत्कल्पनया बहिरर्थे मानसं स्मरणं लब्धम्, न हि तत् चक्षुरादिज्ञाद्युक्त ( दिजं युक्तम् ) भिन्नसन्तानत्वात्, अन्यथा देवदत्तानुभूते यज्ञदत्तस्य स्मरणं भवेत्, मानसात् तत्प्रत्यक्षात् तत्स्मरणं न विरुध्यते ।” एतदाशङ्कय दूषयन्नाह - प्रत्यक्षाद् इत्यादि ।
[ प्रत्यक्षान्मानसाहते बहिर्नाक्षधियः स्मृतिः । सत्त्वान्तरवच्चेत्तत् समनन्तरमस्य किम् ॥५॥
मनोऽक्षज्ञानानां सन्ताननानात्वेऽपि यतोऽनन्यसत्त्वव्यवस्था परस्परं समनन्तरप्रत्ययता च, तत एवेन्द्रियार्थे मनसः स्मृतिः स्यात् । तदलमन्तर्गडना बहिर्मानसप्रत्यक्षेण ? ]
"
प्रत्यक्षात् कथंभूतात् ? मानसाहते तदन्तरेण बहिः स्मृतिर्न, कुतः सकाशात् ? १५ अक्षघियः चक्षुरादिज्ञानात् । दृष्टान्तमाह-सत्त्वान्तरवद् इति । सत्त्वान्तरं सन्तानान्तरं तस्माद् (तद्वत्) इति । यथा देवदत्तान्न यज्ञदत्ते स्मृतिः तथा प्रकृतधियः चेद् यदि मतम् । अत्र दूषणम्–तत्समनन्तरमस्य किम् इति । इदमत्र तात्पर्यम् - इन्द्रियमानसप्रत्यक्षयोः अभिन्नः, भिन्नो वा सन्तानः स्यात् ? अभिन्नश्चेत्; तत् मानसं प्रत्यक्षं समनन्तरम् उपादानम् अस्य [१०९क] स्मृतिकार्यस्य किम् ? नैव । एतदुक्तं भवति - यथैव इन्द्रियज्ञानात् सन्ता - २० नान्तरात् न मानसं स्मरणम्, तथैव तदभिन्नसन्तानान्न मानसप्रत्यक्षादपि इति । यो हि जात्यश्वो न गर्दभात्, सः `तत्पुत्रादपि न भवति । भिन्नश्चेत्; तद् अक्षज्ञानं समनन्तरम् उपादानम् अस्य मानसाध्यक्षस्य किम् ? नैव, स्मृतिवत् तदपि ततो न भवति ।
यत्पुनरुक्तं प्रज्ञा करेण - "न स्मृतिलिङ्गतः 'तदध्यक्षस्य व्यवस्था किन्न (किन्तु ) प्रतीतितः, निश्चयात्मकात् नीलादिप्रतीतेः तदध्यक्षरूपत्वात् ।" इति ; तदप्येतेन निरस्तम् ; २५
(१) “ शान्तभद्रस्त्वाह-यद्यपि प्रत्यक्षतः तस्माद् भेदो न लक्ष्यते कार्यतो लक्ष्यत एव । कार्यं हि नीलादिविकल्परूपं स्मरणापरव्यपदेशं न कारणमन्तरेण कादाचित्कत्वात् । न चाक्षज्ञानमेव तस्य कारणं सन्तानभेदात् प्रसिद्धसन्तानान्तरतज्ज्ञानवत् । ततोऽन्यदेवाक्षज्ञानात्तत्कारणं तदेव च मानसं प्रत्यक्षमिति । " -न्यायवि० वि०प्र० पृ० ५२६ । " इह शान्तभद्रेण सौत्रान्तिकानां मतं दर्शयता पूर्वं चक्षू रूपे चक्षुर्विज्ञानं ततस्तेनेन्द्रियविज्ञानेन सहजक्षणसहकारिणा तृतीयस्मिन् क्षणे मानसप्रत्यक्षं जन्यते इति व्याख्यातम् इह पूर्वैः चक्षुरादिविज्ञानेनानुभूतत्वान्न विकल्पाभाव इति चाशङ्क्याभिहितम् - देवदत्तेनापि दृष्टे यज्ञदत्तस्यापि विकल्पप्रसङ्गः...”–न्यायबि० ध० पृ० ६१-६२ । ( २ ) गर्दभपुत्रादपि । ( ३ ) इन्द्रियाध्यक्षात् । (४) मानसप्रत्यक्षस्य । (५) “इदमित्यादि यज्ज्ञानमभ्यासात् पुरतः स्थिते । साक्षात्करणतस्तत्तु प्रत्यक्षं मानसं मतम् ॥” - प्र० वार्तिकाल० पृ० ३०५ ।
१७
Jain Education International
१०
For Personal & Private Use Only
www.jainelibrary.org