________________
१२८
सिद्धिविनिश्चयटीकायाम् [२ सविकल्पसिद्धिः ज्ञानवासना तत्कारणम् अपि तु पूर्वसजातीयस्मृतिवासना । अयं तु विशेषः-तदक्षज्ञानप्रबोधिता सती सत्कारणम्, तत्प्रबोधश्च नीलादावेव न क्षणक्षयादौ इति चेत् ; अत्राह-यदि पुनः इत्यादि । अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिकल्पनाहितवासना अन्तर्वासना तस्याः प्रबोधः दर्शनादुत्तरसजातीयस्मरणजननपरिणतिः तस्य विचित्रता- नीलादावेव न क्षणक्षयादौ तत्प्रबोध ५ इति, यदि पुनः 'इष्यते' इत्यध्याहारः; तर्हि ततः तद्विचित्रतायाः प्रत्यक्षं किन्नाऽनुमन्यते ?
अनुमन्यत एव । कथंभूतम् ? इत्यत्राह-स्वयम् आत्मना अवगृहीतः विषयीकृतो यः समानाकारोऽर्थः तस्य विशेषा ये तेषु आकाङ्क्षणं तद्ग्रहणाभिमुख्य लक्षणं स्वरूपं यस्य तत् तथोक्तम्। पुनरपि कथंभूतम् ? इत्यत्राह-परिस्फुटम् विशदम्। कुतः? सन्निहितार्थोपयोगात् सन्निहितेऽर्थे व्यापारात् । एतदुक्तं भवति-'तत्कल्पना ततः किं स्यात्' इत्यादिना 'प्रत्यक्षं प्रमाणम्' इत्युक्तम्, १० तदाहितवासनाऽपरसजातीयविकल्प एव तत्प्रबोधविचित्रता कस्यचिदेव विशेषस्य निर्णयाकाङ्क्षा
इति । यतो यस्माद् अननुमनना (अनुमननात्) निर्विकल्पैकान्तसिद्धिः इति । 'यतः' इति वा आक्षेपे, नैव तत्सिद्धिरिति । 'न चैतन्मन्तव्यम्' इत्यादिना 'वैशद्यम्' इत्यादि वृत्तमपि व्याख्यातम् ।
____ उपसंहारार्थमाह-तद् इत्यादि । यत [१०८क] एवं तत् तस्मात् युक्तम् उपपन्नम् । १५ किं तत् ? इत्याह-चक्षरादिज्ञानमपि न केवलं मानसं क्रमेण परिच्छिनत्ति जानाति इति ।
कान् ? इत्याह-सत्त्वद्रव्यत्वसंस्थानवर्णादिसामान्यविशेषान् । यदा पूर्वः पूर्वः सामान्यम् तदा उत्तरे विशेषा इति तद्विशेषान् इत्युच्यते । कथं परिच्छिनत्ति ? इत्याह-व्यापक इत्यादि । [व्यापकेन] व्याप्यः स्वभावो यस्य विशेषस्य स तथोक्तः तं प्रतिपद्यमानं निश्चिन्वत् । कथं
भूतम् ? स्वयम् आत्मनेहितम् । कथमीहितम् ? इत्याह-व्यापकग्रहणपूर्वकं यथा भवति । किं २० सर्वदा एवं परिच्छिनत्ति इति चेत् ? अत्राह-प्रायः बाहुल्येन, कदाचित् नैवम् इति प्रतिपादयिष्यते *"वर्णसंस्थानसामान्यम्" [सिद्धिवि० २।७] इत्यादिना ।
___ यत्पुनरत्रोक्तम्-*"यदि चक्षुरादिज्ञानं स्वयमक्रमरूपं कथं तत्क्रमेण परिच्छिनत्ति विरोधात् ? अथ क्रमरूपं तर्हि स्वक्रममपि परेण परिच्छिनत्ति तमपि परेण स्वक्रमेण इत्य
नवस्थितिः ।" तदेतत् * "पूर्वपूर्वस्यः स्वग्रहणानुबन्धमजहतः एव उत्तरोत्तरं प्रति साधक२५ तमत्वात्" [ सिद्धिवि० २।१५ ] इत्यत्र विचारयिष्यते अत्रैव प्रस्तावे ।
अत्राह परः-'नवै चक्षुरादिज्ञानम्' इत्यादि । नवै नैव चक्षुरादिज्ञानं चक्षुरादीनां कार्य यज्ज्ञानम् तत् ईहा अपितु किन्तु तत्समनन्तरजन्मना तस्मात् चक्षुरादिज्ञानात् समनन्तराद् उपादानात् जन्म यस्य तत् तथोक्तं तेन । केन ? मानसप्रत्यक्षेण । कथंभूतेन ? तदर्थान
न्तरग्राहिणा तस्य चक्षुरादिज्ञानस्य योऽर्थः तस्य अनन्तरः तज्ज्ञान[१०८ख] सहकार्यर्थ३० क्षणः तद्ग्राहिणा। तदुक्तम्-*"इन्द्रियज्ञानेन समनन्तरप्रत्ययेन स्वविषयानन्तरविषयसहकारिणा जनितं मानसं प्रत्यक्षम् ।" [ न्यायवि० ११९] इति । जनितो विकल्प
(1) द्वितीयः श्लोकः । (२) क्रमेण । (३) बौद्धः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org