________________
२४] प्रत्यक्षस्य सविकल्पकता
१२७ तत्सत्त्वस्य स्वसंवेदनाध्यक्षसिद्धत्वात् । सिद्ध हि सामान्ये धर्मिणि तद्विशेषानादातुमीहमानस्य प्रतीतेः, तद्योग्योपायोपादानात, निरीहस्य तदयोगादिति मन्यते । एवमर्थं चेदमुक्तमत्रैव *"नहि संवित्तः बहुबहुविधप्रभृत्याकृतयः" [सिद्धिवि० १।२७] इत्यादि । न च नैव एतन्मन्तव्यम् अवगृहीतस्य [१०६ख] अवग्रहेण विषयीकृतस्य सामान्यस्य विशेषाकाङ्क्षणं मानसं मनोनिमित्तम् , न इन्द्रियनिमित्तम् इति मानसं तद् इष्यत एव किन्तु तदेव न भवति इति एव-५ कारार्थः । तदाकाङ्क्षणं मानसम्' इत्युक्ते अवग्रहज्ञानमपि तत्परिणामि तद् इत्युक्तं भवति, यथा 'मार्दो घटः' इत्युक्ते मृत्पिण्डोऽपि तदुपादानं मार्द इत्युक्तं भवति । यद्यपि चैतत् *"न चैतव्यवसाय" [सिद्धिवि० १।२५] इत्यादिना निरस्तं तथापि प्रकारान्तरेण निराकरणार्थमित्यदोषः । कुत कुतत् ? इत्यत्राह तदभाव इत्यादि । तस्य अवग्रहपरिणामेहाज्ञानस्य अभावे तदभावे । कस्य ? अक्षज्ञानस्य निरंशस्वलक्षणविषये अक्षज्ञाने अभ्युपगम्यमान इत्यर्थः, नियमेन अवश्यं- १० भावेन अवगृहीतः अवग्रहेण विषयीकृतः पूर्वं यः सदृशाकारः अथवा इदानीम् अवगृहीतेन सदृशाकारः पूर्वं दृष्टः तस्य स्मृतेरयोगात् 'न चैतन्मन्तव्यम्' इति । एतदपि कुतः ? इत्यत्राहन हि इत्यादि । 'हिः' इति यस्मादर्थे, यस्मात् न सन्निहितो यो विषयः तस्य बलेन उद्भूतम् उत्पन्नमपि अक्षज्ञानम् [इति] विभक्तिपरिणामेन संवन्धः । पुनरपि कथंभूतम् ? इत्यत्राहतद् इत्यादि । तस्य सन्निहितविषयस्य आकारम् अनुकरोति इत्येवंशीलो यः स्वभावः स्वस्व- १५ रूपं तत्र नियतम् स्वप्नेऽपि स्वरूपाद् अन्यन्न पश्यति इत्यर्थः । पुनरपि तद्विशेषणं दर्शयन्नाहअसाधारण इत्यादि । सर्वतो [१०७क] विलक्षणोऽसाधारणः एकः असहायः अन्तः धर्मो यस्य [आत्मनः स्व] भावस्य स विषयो यस्य तत्, कं (किम् ?) नियमेन अभिमतसजातीयस्मरणकारणं युक्तं पूर्वेण परः परेण वा पूर्वः क्षणः सजातीय इति स्मरणम् अभिमतसजातीयस्मरणम् तस्य कारणं युक्तम् । नहि असाधारणैकान्तात्मविषयानुभवात् तथाविधं बहिःस्मरणं २० युक्तं नीलानुभवात् पीतस्मरणवत् । तथा च सामान्यादिव्यवहारः परस्य दुर्घट इति मन्यते । समयेत्यादिना दृष्टान्ते तदेव समर्थयते-अयमुदात्तः अयमन्यः इत्यादिकः सङ्केतः समयः तदनभिज्ञस्य गोपालादेरिव शास्त्रव्याख्याकरणादि-स्वरादिभेदः 'कार्यम्' उच्यते तत्र स्मृतिसामर्थ्यमयुक्तम् । एतदुक्तं भवति-यथा उदात्तादिसमयाग्रहणे न तत्र गोपालादेः स्मृतिः तथा सदृशाकाराऽग्रहणेऽपि न तत्र स्मृतिरिति । एतेन 'अभेदेन अन्यथाऽस्मृतेः-स्मृतेरभावात्' २५ इत्येतद् व्याख्यातम् ।
ननु नाक्षज्ञानम् असाधारणैकान्तविषयम् 'तत्स्मृतिकारणम्' इति सम्बन्धः । एतदुक्तं भवति-यथा नीलानुभवाज्जायमाना वासना नीले स्मृतिकारणं न पीते तथा तदक्षज्ञानवासनापि असाधारणविषयस्मृतिकारणं न तत् स्मृतिकारणमिति ।
इदमपरं व्याख्यानम्-यत एव अक्षज्ञानमुक्तप्रकारं तत एव न केवलं तत्स्मृतिः, अपि ३० तु वासनापि न भवेत् नोत्पद्यत तत इति न (नाs) साधारणैकान्त[१०७ख] विषया अक्ष
(१) ईहाज्ञानस्य परिणामिकारणभूतम् । (२) मानसम् । (३) भिन्नं बाह्य वस्तु । (४) अक्षज्ञानम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org