________________
१२६
सिद्धिविनिश्चयटीकायाम् [२ सविकल्पसिद्धिः णानां परस्परविलक्षणानां 'स्वलक्षणानाम्' इत्यनुवर्तते । कथम् एकान्तेन अवश्यंभावेन संभवः । कुत एतत् ? इत्यत्राह-तद् इत्यादि । तेषां प्रत्यक्षेण विरोधात् । तर्हि बहिरन्तश्च परमाणव एव अविनिर्भागवृत्त्युत्पत्त्या संचिताः प्रतिभान्ति [१०५ख] तदुक्तम्
*"तदेतन्नूनमायातं यद्वदन्ति विपश्चितः।
यथा यथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा ॥" [प्र. वा० २।२०९] इति चेत् ; एतदेव आशङ्कय दूषयन्नाह-कुतश्चिद् इत्यादि । कुतश्चित् कस्याश्चिद् अविनिर्भागवृत्त्युत्पत्तिलक्षणायाः प्रत्यासत्तेः बहिः परमाणव इव तद्वत् । यदि पुनः अन्तः परमाणवः संचिताः पुजीभूताः तथा स्पष्टनि सान्वयैकस्वभावप्रकारेण प्रत्यवभासेरन् इति
परमताशङ्का । तत्र दूषणं परस्परम् इत्यादि । परस्परम् अन्योन्यम् असंप्लवात् , एकस्य ज्ञान१० परमाणोः तदन्तरेषु तेषां वा तत्र स्वभावस्य व्यापारस्य वा यः संप्लवो गमनं तस्य अभावात् ।
अत्र परप्रसिद्धं दृष्टान्तमाह-सन्तानान्तरवत् इति । सन्तानान्तराणामिव तद्वद् इति । एतदुक्तं भवति-यथा तेषां नान्यः (न्य) स्वभावसंकीर्णता नापि विषयीकरणं संप्लवः तथा अन्तःपरमाणूनामिति । ततः किं जातम् ? इत्याह-स्थूलैक इत्यादि । स्थूलैकस्य अद्वयोपलक्षिताकारस्य
प्रतीतिः स (सा) स्थूलैकान्वयाकारप्रतीतिः सा न स्यात् । 'सन्तानान्तरवद्' इति निदर्शनं १५ मध्ये करणादनेनापि सम्बन्धनीयम् । ततो यथा त्रैलोक्यसन्तानान्तरगृहीतार्थापेक्षया न तत्प्रतीतिः
तथा दार्टान्तिकप्रतीतिरपि न स्यात् । यस्तु अनुपलम्भात् सन्तानान्तराभावात् निदर्शनमसिद्धमिति मन्यते, स कथम् एकज्ञानपरमाणुना वेद्यमानम् अन्यदभ्युपगच्छेत् यतः चित्राद्वैतं भवेत् ।
एतेन सकल[१०६क] विकल्पातीतं तत्त्वं चिन्तितम् ; नीलप्रतिभा[सम् ] उपलभ्यमानं सुखादिप्रतिभासं सन्तमभ्युपगच्छन् सन्तानान्तरनिषेधं निगदति यत्किञ्चिदेतत् ।
अत्राह पर:-अस्तीयं प्रतीतिर्धान्ता इति, तदुक्तं प्रज्ञा क र गुप्ते न-*"मायामरीचिप्रभृतिप्रतिभासवदसत्त्वेऽपि अदोषः" [प्र० वार्तिकाल ० ३।२११] इति; तत्रोत्तरमाहतद्विभ्रम इत्यादि । तस्याः तत्प्रतीतेः विभ्रमे अङ्गीक्रियमाणे । क ? बहिरन्तश्च । किं जातम् ? इत्यत्राह-किञ्चित् सुखादिकं नीलादिकं च तत् कुतश्चित् प्रत्यक्षादनुमानाद्वा अप्रसिद्धम् अनि
णीतम् । केन प्रकारेण ? इदंतया क्षणिकज्ञानानन्यवेद्यविभ्रमसर्वविकल्पातीततया नेदंतया न २५ तद्विपरीतरूपतया चेति तद् इत्थंभूतं तत्त्वं व्यवस्थापयति सौगतः इत्येवं सुव्यवस्थितं तत्त्वम्
इत्युपहसनमेतत् , विभ्रमात् कस्यचित् असिद्ध र [ति] प्रसङ्गात् इति मन्यते । ततः 'प्रत्यक्षम्' इत्यादि सुस्थम् ।
इदानीम् ईहाज्ञाने विप्रतिपत्तिं निराकुर्वन्नाह- ननु तस्मिन् सति तत् मानसमन्यद्वेति विचारः प्रवर्तते, धर्मविचारस्य धर्मिसत्तानिबन्धनत्वात् । अतः तत्सत्तैव सध्येति चेत् ; नैतदस्ति;
(१) "इदं वस्तुबलायातं यद्वदन्ति विपश्चितः । यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा ॥" -प्र०वा०। (२) बौद्धमत । (३) सन्तानान्तराणाम् । (४) अनुपलम्भाद्धेतोः सन्तानान्तरस्य अभावं कृत्वा । (५) विज्ञानवादी । (६) ईहाज्ञानस्य विद्यमानत्वे सत्येव ।
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org