________________
રાષ્ટ્ર ]
प्रत्यक्षस्य सविकल्पकता
१२५
यव-अवयविकल्पनैकान्ते परमाणुवत् परस्परमवयविनां महत्त्वादिभेदोऽस्ति यतः स्थूलस्थूल - रादिव्यवहारः 'तत्र घटेत । तदारम्भकावयवबहुत्वाद्यपेक्षः सर्वोऽयं व्यवहार इति चेत् ; अत्राहएकम् इति । एकं स्थवीयांसम् । एतदुक्तं भवति - योऽसौ स्थवीयान् आकारः स एकः प्रतीयते, अवयवबहुत्वाद्यपेक्षे तु तद्व्यवहारे तत्र [१०४ख ] स इति प्रतीयते न तु स्थवीयान् इति, स्थवीयस्त्वस्यावयवेपूपि (वेष्वपि ) परस्यासंभवात् । किं कुर्वन्तम् ? इत्याह- प्रतिभासमा - ५ नम् । क ? अक्षबुद्धौ चक्षुरादिज्ञाने । यौगस्य 'अवयव - अवयविभेदैकान्तप्रतिज्ञा प्रत्यक्षबाधिता' इत्यनेन दर्शयति ।
3
१०
अत्राह परः - सत्यम् तथाविधमाकारं भवन्तः संपश्यन्ति, तत्तु क्षणिकम् अन्यथा दर्शनाऽशक्तेः, इत्यत्राह- ह - पूर्वापर इत्यादि । पूर्वापरौ परिणामा वन्धेतु (वन्वेतुं शीलं प्रतिभासमानम् अक्षबुद्धौ संपश्यामः इति । शेषमत्र निरूपयिष्यते । अनेन “ *"यद् यथाऽवभासते तत् तथैव परमार्थसद् व्यवहारमवतरति" "इत्यादिप्रयोगे हेतोरसिद्धतां दर्शयति । ननु दूरस्थितविरलकेशादिषु इव "तमाकारमेकमसन्तं भवन्तः संपश्यन्ति इति चेत्; अत्राह - अस्खलवृत्ति यथा भवति तथा तं पश्यामो बाधकाभावादिति मन्यते । नाक्षबुद्धौ किन्तु विकल्पबुद्धौ प्रतिभासमानं संपश्याम इति निगदन्तं प्रत्याह- परिस्फुटम् इत्यादि । अन्यथा अक्षबुद्धौ प्रतिभासनाभावप्रकारेण परिस्फुटं यथा भवति तथा नावभासेत । दूषणान्तरमाह - प्रतिसंख्यानेन इत्यादि । १५ *"नचैतद् व्यवसायात्म" [ सिद्धिवि ०९।२५ ] इत्यादिना व्याख्यातमेतत् । एवं प्रतिभासबलेन अक्षज्ञाने सामान्याकारेण स्वार्थप्रतिभासं व्यवस्थापितमपि पादप्रसारिकया अनिच्छन्तं प्रति _ दूषणान्तरमाह-स्वलक्षणानाम् इत्यादि । स्वलक्षणानां बहि: निरंशक्षणिक [१० ०५क] परमाणूनाम् । कथंभूतानाम् ? परस्परविलक्षणानाम् स्पष्टनिर्भासान्वयैकस्वभावाभावे स्पष्टो निर्भासो यस्य स चासौ अन्वयैकस्वभावश्च तस्य अभावे अङ्गीक्रियमाणे दूषणम् अक्ष इत्यादि । २० अयमत्राभिप्रायः–तत्स्वभावः प्रतिभासमानोऽपि तैमिरिक केशादिवद् यद्य [ अ ] संवित्तेर्विषय इत्यादि ; तत्र उत्तरम् - अथ सन्नपि न बहिः तर्हि गत्यन्तराभावात् ज्ञानस्य स इति अक्षज्ञानं सविकल्पं सभेदं सिद्धम् अन्यथा सविकल्पकत्वाभावप्रकारेण पररूपं बहिः स्वलक्षणरूपं स्वरूपेण स्पष्टनिर्भासान्वयैकस्वभावेन तदेव अक्षज्ञानमेव कथं संवृणुयात् ? नैव । यतः संवरणात् सदृशात्मना समानस्वभावेन अवभासेत परिस्फुटं विशदं यथा भवति बहिः तदेवेति । अन्ये तु २५ 'स्पष्टनिर्भासान्वयैकस्वभावे' इति पठन्ति ; तेषाम् 'कथमन्यथा' इत्यादि विरोधः । नहि तेन तदेव त्रियते अन्यथा पटः स्वात्मना संक्रियेत । भवतु तर्हि अक्षज्ञानवद् बहिरपि तत्स्वभावः न्यायबलायातस्य परिहर्तुमशक्यत्वादिति चेत्; अत्राह - अथायम् इत्यादि । अथायम् अनन्तरनिर्दिष्ट आकारः परमार्थेन सद् ( सन् ) विद्यमानो अन्तरिव बहिरपि इति भावः । असाधार
(१) अवयविनि । (२) स्थूलस्थूलतरादिव्यवहारे । (३) बौद्धः । (४) द्रष्टव्यम् - पृ० २ टि० १० । (५) स्थवीयांसम् । (६) अत्रायं पूर्वपक्ष:- " पररूपं स्वरूपेण यया संवियते धिया । एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः ॥" (७) 'अन्ये तु' इति पदेन अस्य व्याख्यान्तरं सूचयति टीकाकारः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org