________________
१२४
सिद्धिविनिश्चयटीकायाम् [२ सविकल्पसिद्धिः सामर्थ्यम् । यदि पुनरन्तर्वासनाप्रबोधविचित्रता, तर्हि ततः स्वयमवगृहीतसमानाकारार्थविशेषाकाङ्क्षालक्षणं परिस्फुटं प्रत्यक्षं किन्नानुमन्यत एव सन्निहितार्थोपयोगात् यतः निर्विकल्पैकान्तसिद्धिः। तद् युक्त चक्षुरादिज्ञानमपि सत्त्वद्रव्यत्वसंस्थानवर्णादिसामान्यविशेषान् व्यापकव्याप्यस्वभावं प्रतिपद्यमानं स्वयमीहितं व्यापकग्रहणपूर्वकं प्रायः परि५ च्छिनत्ति । न वै चक्षुरादिज्ञानम् ईहा, अपि तु तत्समनन्तरजन्मना तदर्थानन्तरग्राहिणा मानसप्रत्यक्षेण जनितो विकल्पः । ततः स्मृतिरीहेति चेत् ; किं पुनः मानसप्रत्यक्षविकल्पनया लब्धम् ? ]
__ अक्षधीः इन्द्रियबुद्धिः आदौ आदितः स्वार्थम् स्वम् अर्थश्च अभेदेन सामान्याकारेण अवगृह्णाति विशेषेण विशेषाकारेण अवैति निश्चिनोति 'स्वार्थम्' इति सम्ब१० न्धः । केन कृत्वा ? इत्यत्राह-विशेषेणेहया [ईहा] आकाङ्क्षा तया । किं पुनः सा करोति ?
धारयति स्वार्थसंस्कारमाधत्ते । कुत एतत् ? अन्यथा धारणाऽभावप्रकारेण अस्मृतेः स्मृतेरभावात् । यदि वा, सामान्याऽवग्रहाभावप्रकारेण अन्यथा 'स्मृतेरभेदेन स्मृतेरभावप्रसङ्गात् । नहि स्वलक्षणात् भवान् ( णानुभवात् ) सामान्ये स्मृतिर्युक्त (क्ता ) अन्यथा नीलानुभवात् पीते
सो भवेत् । अथ स्यात्-विशेषाग्रहणे कथं सामान्याऽवग्रहः ? व्याप्याप्रतीतो व्यापकाप्रति१५ पत्तेरिति ; तन्न ; चित्रैकज्ञाने नीलाकारेण पीताद्याकाराननुकरणेऽपि तद्वपकज्ञानमात्रानुकरणवददोषः।
कारिका व्याचष्टे प्रत्यक्षम् इत्यादिना । प्रत्यक्षं स्वम् अर्थोचा (अर्थ च) अवगृह्णातु । केन प्रकारेण ? सामान्येन । किं कुर्वत् पुनः तत् किं करोति ? इत्यत्राह-पुनः इत्यादि । पुनः
पश्चाद् विशेषेण तदाकारेण [ १०४क ] स्वार्थमादानुप्रैव (दातुमेव ) विशेषाकारेणैव २० अवैति निश्चिनोति । पुनरपि किं करोति ? इत्यत्राह-यथा इत्यादि । यथा येन प्रकारेण अवा
यः स्वार्थयोः तेन संस्कारमाधत्ते । कुत एतत् सामान्येन अवगृह्यादिति चेत् ? अत्राह-अभिमत इत्यादि । अभिमतानि बौद्धैः अङ्गीकृतानि स्वलक्षणानि निरंशपरमाणुलक्षणानि तेषां कथञ्चित् केनापि देशादिभेदप्रकारेण असाधारणत्वेऽपि विलक्षणत्वेऽपि सदृशात्मनैव नीलादि
कसमानस्वभावेन न असाधारणस्वभावेन इति एवकारार्थः, प्रतिभासनात् प्रकृतमिति । नवै २५ परमाणुविवेकात्तत्प्रतिभासोऽपि अनेकप्रतीतिविरहप्रसङ्गात् । एतत्तु अभ्युपगम्य उक्तं न परमार्थतः
इदमस्ति, इत्याह-'स्वावयवस्वभावम्' इत्यादि । स्वावयवान् ( वानां न ) द्रव्यान्तरावयवान् ( वानाम् ) ततो निराकृतमेतत्-*"सर्वस्योभयरूपत्वे" [प्र०वा० ३।१८१] इत्यादि, स्वभावः स्वरूपं यस्य स तथोक्तः । अनेन *"द्रव्याणि द्रव्यान्तरमारभन्ते" [ वैशे० सू०
१।१।१० ] इत्येकान्तनिरासः, तमाकारं संपश्यामः । कथंभूतम् ? स्थवीयांसम् इति । एतत्तु ३० विशेषणमपि साधनत्वेन प्रत्येयम्-यतः स्थवीयांसम् ततः स्वावयवस्वभावमिति । न खलु निरव
(१) यादृशोऽनुभवस्तादृशी स्मृतिरित्यभेदः । (२) स्मृतिः। (३) व्याप्तुं योग्यस्य विशेषस्य अप्रतिपत्तौ । (४) विशेषाकारेण । (५) अनेन धर्मकीर्तिना सर्व द्रव्याणां सर्वात्मकत्वं कल्पयित्वा 'चोदितो दधि खादेति किमुष्ट्रं नाभिधावति' इति दूषणं दत्तम् , तन्निराकृतम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org