________________
२।४]
प्रत्यक्षस्य सविकल्पकता
१२३ [सहभूतिसंवेदनात् ] इति । अत्रायमर्थः-सहभृतेः कारणात् सहैव संवेदनात । अनेनापि सहोत्पत्ति-संवेदने कथिते ततोऽभिन्नयोगक्षेमत्वात्तेषाम्' विवक्षितचित्रैकज्ञानवदेकत्वमिति । एतेन अशक्यविवेचनमपि चिन्तितम् ।। __अत्र अपरः प्रतिभासाद्वैतवादी आह-सन्तानाभावात् कस्य केन अभेदः चोद्यते इति चेत् ? तन्निषेधकप्रमाणाऽभावात् । अनुपलब्धिः प्रमाणमिति चेत् ; न; सुखदुःखयोः अन्योऽन्यमप्रवेद- ५ नादभावः, अन्यथा अनैकान्तिको हेतुः । सर्वाऽनुपलब्धिरसिद्धा । विचारयिष्यते चैतत् सर्वज्ञसिद्धौ । सतामपि सन्तानानामभिन्नयोगक्षेमत्वादभेदः इति न तैः व्यभिचारः पक्षीकरणादिति केचित् ; तदपि न युक्तम् ; [१०३ख] व्यभिचारविषयस्य पक्षीकरणादव्यभिचारे न कश्चिहेतुः व्यभिचारी स्यात् । स्वयं च पक्षीकृतैः तर्कादिभिः (तर्वादिभिः ) कार्यत्वादेः व्यभिचारमुद्भावयन तथा निगदतीति यत्किञ्चिदेतत् । ततो यथा चित्रैकप्रतिभासादक्रमेण चित्रमेकं ज्ञानम् , १० तथा क्रमेणापि इति स्थितं स्वार्थ इत्यादि । संग्रहवृत्तादर्थमुद्धृत्य विवृण्वन्नाह
[ अक्षधीरवगृह्णात्यभेदेन स्वार्थमादितः।
विशेषेणेहयाऽवैति धारयत्यन्यथाऽस्मृतेः ॥४॥ प्रत्यक्षं स्वार्थ सामान्येनावगृह्णातु पुनरादातुं विशेषेण तदाकारेण अवैति यथा १५ अवायस्तेन संस्कारमाधत्ते । अभिमतस्वलक्षणानां कथञ्चिदसाधारणत्वेऽपि सदृशात्मनैव प्रतिभासनात् । अक्षबुद्धौ स्वावयवस्वभावं स्थवीयांसमेकमाकारं प्रतिभासमानं पूर्वापरान्वयि परिस्फुटमस्खलवृत्ति संपश्यामः । अन्यथा परिस्फुटं नावभासेत । प्रतिसंख्यानेन [अप्रत्याख्येयत्वाच] परस्परविलक्षणानां स्वलक्षणानां स्पष्टनिर्भासान्वयैकस्वभावाभावे अक्षज्ञानं सविकल्पं सिद्धम् , अन्यथा पररूपं स्वरूपेण तदेव कथं संवृणुयात ? यतो बहिः २० सदृशात्मना स्फुटमवभासेत । अथायं परमार्थसद् (सन्) असाधारणानां कथमेकान्तेन संभवः तत्प्रत्यक्षविरोधात् । यदि कुतश्चित् प्रत्यासत्तेः बहिरिव अन्तःपरमाणवः संचितास्तथा प्रत्यवभासेरनिति; परस्परमसंप्लवात् सन्तानान्तरवत् स्थूलैकान्वयाकारप्रतीतिने स्यात् । तद्विभ्रमे बहिरन्तश्च किश्चित् कुतश्चिदप्रसिद्धम् इदन्तया नेदन्तया च तत्त्वं व्यवस्थापयतीति सुव्यवस्थितं तत्त्वम् ! नचैतन्मन्तव्यम्-अवगृहीतसामान्यस्य विशेषा- २५ काङ्क्षणं मानसमिति; तदिष्यत एव, तदभावे अक्षज्ञानस्य नियमेन अवगृहीतसदृशाकारस्मृतेरयोगात् । न हि सन्निहितविषयवलोद्भूतं तदाकारस्वभावनियतमसाधारणैकान्तात्मविषयं नियमेन अभिमतसजातीयस्मरणकारणं युक्तम् , समयानभिज्ञस्येव कार्यस्मृति
(१) सुखादीनाम् । (२) "चित्राभासापि बुद्धिरेकैव बाह्यचित्रविलक्षणत्वात् । शक्यविवेचनं चित्रमनेकमशक्यविवेचनाश्च बुद्धेर्नीलादयः।"-प्र. वार्तिकाल० ३।२२० । (३) सन्ताननिषेधक । (४) बौद्धः। (५) 'उर्वीपर्वततरुतन्वादिकं बुद्धिमद्धेतुकं कार्यत्वात्' इति ईश्वरानुमाने पक्षीकृतैः तर्वादिभिः व्यभिचार उद्भाव्यते यत्-ते कार्याः न च बुद्धिमद्धेतुकाः । द्रष्टव्यम्-प्र०वा. ११४-१७। (६) एको जीवः पूर्वोत्तरपर्यायौ व्यामोतीति भावः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org