________________
१२२
सिद्धिविनिश्चयटीकायाम् [२ सबिकल्पसिद्धिः विचित्रो नानाप्रकारो विषयो नीलादिः, तदाकार इव आकारो यस्य एकस्य अभिन्नसंवेदनस्य तत् तथोक्तम् , यस्यापि योगस्य निराकारं' तं प्रति विचित्रविषयाकारेषु एकसंवे. दनम् इति व्याख्येयम् । कथंभूतम् ? क्षणिकम् । तथा च योगस्य प्रयोग:-क्षणिका बुद्धिः
अस्मदादिप्रत्यक्षत्वे सति विभुद्रव्य॑विशेषगुणत्वात् शब्दवत् इति । पुनरपि कथंभूतम् ? इत्याह५ प्रत्यक्षम् इति । स्वसंवेदनाध्यक्षविषयीकृतं ज्ञानान्तरविषयीकृतं वा भवतु । तत् किम् ? इत्यत्राह-तत्त्वं चेदिति । तत्त्वं परमार्थसत् चेद यदि । तद् अन्यथा अङ्गीकुर्वतः सौगतस्य न किञ्चित् सिध्येदिति मन्यमान एवं पृच्छति, योगस्यापि प्रतिविषयं विज्ञानभेदमभ्युपगच्छतः *"सदसद्वर्गः कस्यचिद् एकज्ञानालम्बनम् अनेकत्वात् पञ्चागुलवत्" इत्यत्र साध्य
दृष्टान्तविरोधः इति च । तथेति वदतो दूषणमाह-सुख इत्यादि । सुखदुःखमोहग्रहणम् १० उपलक्षणम् , तेन सर्वातीतानागतवर्तमानपर्याया गृह्यन्ते, ते च ते विविधाकाराश्च तेष्वेकः
साधारणः तदेकः स चासौ जीवश्च । यदि वा, सुखदुःखमोहा विविधाकाराः स्वभावभूता धर्मा यस्य स तथोक्तः, स चासौ एकजीवश्च न किं तत्त्वम् ? अपि तु तत्त्वमेव । यथैव हि युगपत् संवेदनं चित्रमात्मानं प्रत्यक्षयति, नापि तेन विरुध्यते ; तथैव क्रमेण जीवः "तथा प्रत्य
क्षयति तेन वा न विरुध्यत इति भावः । १५ ननु सौगतं साकारज्ञानवादिनं प्रति अतत्त्वे तदनिष्टं न यौगं निराकारज्ञानवादिनं प्रति ।
स हि निराकारेण एकज्ञानेन अनेकमर्थं विषयीकरोतीति चेत् ; न; एकेन स्वभावेन तद्विषयीकरणे कुतः अर्थभेदः ? इतरथा एकस्वभावात् कारणात् कार्यभेदः स्यात् । न चैवमिति निरूपयिष्यते ईश्वरनिराकारणे ।
ननु एकस्मिन् सन्ताने सुखे उत्पद्यमाने अनुभूयमाने वा न दुःखमोहादय उत्पद्यन्ते अनु२० भूयन्ते वा, विनश्यति, ततो भिन्नयोगक्षेमत्वात् रामाऽर्जुनादिवत् "तेषां भेद एव इति सौगतः;
एतदेव दर्शयन्नाह-योग इत्यादि । योगः उत्पादः क्षेमोविनाशः संवेदनं वा, तयोः भेदाsभेदेनानु ( भेदभृत् न तु ) प्रकृते सुखादौ इति चेत् ; अत्रोत्तरमाह-सन्तान इत्यादि । इदमत्र तात्पर्यम्-[१०२ख] एकसन्तानव्यपदेशभाजां भेदे साध्ये सुखादीनां भिन्नयोगक्षेम
त्वात् , यत् अन्यद्-भिन्नं चित्रं ज्ञानं तद् विपक्षः, तस्य च हेतुविपर्ययेण [अ] भिन्न योग२५ क्षेमेन "अनवयवेन व्याप्तौ, ततो निवर्तमानो भिन्नयोगक्षेमलक्षणो हेतुः तद्भेदं साधयेत् नान्यथा,
हेतुविपर्ययस्यापि साध्यविपर्ययेण व्याप्तौ चित्रमेकं क्षणिकं ज्ञानं प्रसिध्यति अभिन्नयोगक्षेमत्वेन । तथा च सति सन्तानानां भेदो नानात्वं कुतः ? न कुतश्चिन्मानात् । केषाम् ? चित्तानाम् । कथंभूतानाम् ? क्षणभङ्गिनाम् । पुनरपि कथंभूतानाम् ? सहभुवाम् इति । अनेन पदद्वयेन अभिन्नोत्पत्तिविनाशौ तेषां कथितौ । पुनरपि तद्विशेषणमाह-भूतः असंवेदना
(१) ज्ञानम् । (२) नैयायिकस्य । (३) तुलना-“भनित्यः शब्दः गुणत्वे सति अस्मदादीन्द्रियविषयत्वात् बुद्धिवत् ।"-न्यायवा० पृ० २९९। (४) विभुद्रव्यमत्र आत्मा। (५) चित्रविचित्ररूपेण । (६) अनेकाकारण । (७) योगः। (८) एकस्वभावेन विषयीकरणेऽपि अर्थभेदश्चेत् । (९) सुखे विनश्यति सति वा न दुःखमोहादयो विनश्यन्ति । (१०) सुखदुःखमोहादीनाम् । (११) साकल्येन । (१२) विपक्षभूतात् चित्रज्ञानात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org