________________
२/२,३ ]
प्रत्यक्षस्य सविकल्पकता
[ वैशद्यं यदि भेदनिश्चयकर मेकान्ततो भावतः, सर्वस्मात्परतः करोतु विपरीतारोपविच्छेदनम् । संकल्पाहितवासनापरिणतेः सर्वत्र चित्रेहनम्, प्रत्यक्षं न ततोऽनन्वयधियां का वासनानां कथा || २ || ] वैशद्यं स्वलक्षणसाक्षात्करणं यदि भेदनिश्चयकरम् अवायं करोतीति चेत्; दृष्टेद - ५ (द) र्शनस्य संबन्धि तद्वैशद्यम् एकान्ततोऽवश्यं भावतः सर्वस्मात् सजी [सजातीयाद्विजातीया ] याच परतः अन्यस्याद् वस्तुनः सकाशात् करोतु । किम् ? विपरीतारोपविच्छेदनं विपरीतस्य गुणान्तरस्य आरोपवित् समारोपज्ञानं तस्याः छेदनं विनाशः तदविशेषात् । तथा च आकाङ्क्षावत् सर्वं समारोपव्यवच्छेदकारित्वेनाभिमतमनुमानमनर्थकमिति मन्यते । नायं दोषः, सर्वत्र दर्शनपाटवादेरभावात् इति परस्य आकूतं कृतोत्तरमिति मत्त्वा तत्पक्षान्तरमाशङ्कते १० संकल्प इत्यादि । कल्पनं कल्पः व्यवसायः, समीचीनः कल्पः यथावस्थितभेदनिश्चयः तस्माहिता व्यवस्थापिता, तेन वा, वासना तस्याः परि[ णतिः ] स्वकार्योत्पादनसामर्थ्यपरिपाकः सा चित्रा शवला दृष्टार्थवैशद्याविशेषेऽपि कँचिदेव अंशे भेदनिश्चयहेतुः सा न सर्वत्र । तदुक्तम्"
ૐ
१२१
*"परित्राट्कांकस्तुना (कामुकशुना ) मेकस्यां प्रमदातनौ ।
क्रमणं (कुणपं) कामिनी भक्ष्या इति सा ( तिस्रो) विकल्पनाः ॥ " इति चेत्; अत्राह - - ईहनम् इत्यादि । ईहनम् ईहा, प्रत्यक्षस्य ततः तत्परिणतेः चित्रतायाः सकाशाद् अस्तु प्रत्यक्षम् ईहात्मकं भवतु । एतदुक्तं भवति - न उपादानज्ञानाद् अन्या वासना, तँत्परिणतेः चित्रत्वेन ज्ञानपरिणतिरेव चित्रा इत्युक्तं भवति । न च अवग्रह[१०२] ज्ञानादन्यत् पूर्वम् अवायज्ञानात् प्रतीयते ततः सा अवगृहीतविशेष काङ्क्षापरि - २० तिस्वभावा अस्तु इति । न च परस्य वासना इति दर्शयन्नाह - अनन्वय इत्यादि । अन्वयात् निष्क्रान्तधियां सौगतानाम् [का न] काचिद् वासनानां कथा इति निरूपयिष्यते * 'कार्यकारणता नास्ति" [ सिद्धिवि ० ४ | ३] इत्यादिना ।
ननु पूर्वपर्यायप्रवृत्तमध्यक्षं नोत्तरपर्याये वृत्तिमत्, नापि उत्तरपर्यायविषयं पूर्वपर्यायवीत्वं (क्षण)क्षमम्, अत एव नानुमानमपिं तत्कुतोऽवग्रहाद्यात्मकत्वं कस्यचित् प्रतीयते ? न चै- २५ कस्य अनेकात्मकत्वम् विरोधादिति चेत्; अत्राह - प्रत्यक्षम् इत्यादि ।
[ प्रत्यक्षं क्षणिकं विचित्रविषयाका रैक संवेदनम्, तत्त्वं चेत् सुखदुःखमोह विविधाकारैकसाधारणः । जीवो योगक्षेमभेदभृच्चेत् सन्तानभेदः कुतः, चित्तानां क्षणभङ्गिनां सहभुवां सहभूतिसंवेदनात् ॥ ३ ॥]
१०
Jain Education International
(१) एकत्वादेः । (२) सर्वं क्षणिकं सत्वादित्यादिकम् । (३) न विकल्पोत्पत्तिः, अतः समारोपव्यवच्छेदाय अनुमानं सफलमिति । ( ४ ) नीलादौ न क्षणिकत्वादौ । (५) उद्धृतोऽयम् - सर्वद० सं० पृ० ३० । (६) वासनापरिपाकस्य । (७) पूर्वोत्तरपर्याय ग्राहकम् । (८) आत्मनः ।
For Personal & Private Use Only
१५
३०
www.jainelibrary.org