________________
[द्वितीयः प्रस्तावः ]
[२ सविकल्पसिद्धिः] * 'अक्षज्ञानैः' [ सिद्धिवि० १।२७ ] इत्यादिना उक्तमर्थम् इतरग्रन्थेन समर्थयितुकामः तदादौ संग्रहवृत्तत्रयं 'स्वार्थ' इत्यादिकमाह
[स्वार्थावग्रहनीतभेदविषयाकाङ्क्षात्मिकेयं मतिः , भेदावायमुपेत्य निर्णयमयं संस्कारतां यात्यपि । स्मृत्या प्रत्यभिज्ञावतोहविषयाद्धेतोरशाब्दानुमा ,
कल्प्या आभिनिबोधिकी श्रुतमतः स्यात् शब्दसंयोजितम् ॥१॥] अस्याऽयमर्थः-स्वं च अर्थश्च तयोः ग्राहकोऽवग्रहः स्वार्थाऽवग्रहः स्वार्थावग्रहश्च नि पूर्वाद् इणः क्ति' शति (क्ते सति ) भवति, अन्यस्याऽप्रकृतत्वात् , प्रत्यासत्तेश्च अवग्रहण नीतम् [१०१क] अवगतम् इति गम्यते । तत्र भेदव[च]नसान्निध्यात् द्विविधं सामान्यम्
इति च, तस्य भेदो विशेषो विषयः यस्या आकाङ्काया ईहायाः सा तथोक्ता, ता१० वात्मानौ स्वभावौ यस्याः सा तदात्मिकेयं मतिः । किं करोति ? इत्यत्राह-संस्कारतां याति
धारणात्मिका भवति । किं कृत्वा ? इत्यत्राह-भेदावायमुपेत्य उपढौक्य निर्णयमयं तदात्मिका भूता इत्यर्थः । अतः अस्याः मतेः परम् अन्यद् अस्पष्टज्ञानं श्रुतम् *"श्रुतमस्पष्टतर्कणम" [त० श्लो० पृ० २३७] इति वचनात् । तत्कथं जायते ? इत्यत्राह-स्मृत (त्या)
इत्यादि । 'अतः' इत्येतद् अनेनापि सम्बध्यते-ततो मतेः स्मृतिः, तया स्मृत्या कारण१५ भूतया प्रत्यभिज्ञान(व)ता 'तदेवेदं तेन सदृशम्' इति वा प्रत्यभिज्ञावता पुरुषेण ऊह
विषयाद् हेतोः लिङ्गाद् अनुमा कल्प्या । कथम्भूता ? अशब्दा (अशाब्दा) स्वार्थानुमा इत्यर्थः। अस्या नामान्तरमाह-आभिनिबोधिकी इति । अभि समन्ताद् अर्थस्य सामान्यरूपेणेव विशेषरूपेणापि निश्चितो बोधो ग्रहणम् तत्र नियुक्ता न पुनः सामान्यापोहमात्रग्रहण
इति मन्यते । अथवा, पूर्वज्ञानापेक्षया कथञ्चिदति (भि) नवस्य अपूर्वस्यार्थस्य ग्रहणम् अभि२० निबोधः तत्र नियुक्ता *"मतिपूर्व श्रुतम्" [त० सू० १।२०] इति वचनात् । मतेः स्मृतिः, ततः प्रत्यभिज्ञा, अत ऊहः, अस्माद् अशाब्दानुमा श्रुतम् इत्युक्तं भवति । अपिशब्दो भिन्नप्रक्रमः 'श्रुतमतः' इत्यस्याऽनन्तरं द्रष्टव्यः । अतोऽपि परं शाब्दयोजितं ज्ञानं श्रुतम् इति।
स्यान्मतम्- दर्शनम्, अतश्च भेदनिश्चर्यं इति किं [१०१ख] तदन्तराले आकाङ्कया इति ? तत्रोत्तरमाह-वैशद्यम्' इत्यादि ।
(१) भूतकालार्थे क्ते प्रत्यये सति । (२) षष्ठ्या विग्रह सति इत्यर्थः । (३) उद्धृतमिदम्-न्यायवि. वि. द्वि० पृ० १८७, ३६० । "श्रुतमविस्पष्टतर्कणम्"-न्यायकुमु. पृ० ४०४ । (४) यथा बौद्धानाम् अनुमान सामान्यविषयं न तथा । (५) "श्रुतं मतिपूर्व द्वथनेकद्वादशभेदम्"-त०सू० । (६) बौद्धः प्राह । (७) निर्विकल्पकम् । (6) विकल्पः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org