________________
१२२८ ]
व्यवसायात्मकप्रमाणक्रमः संवित्तेविषयाः तथा इति न भ्रान्तं नाम किश्चित् , यन्निरासार्थम् 'अभ्रान्तग्रहणं क्रियमाणमर्थवत् स्यात् । अथ तत्केशानां विरलनाननुकरणेऽपि कृष्णतामात्रानुकरणवत् परमाणूनामन्योन्यविवेकाननुकरणेऽपि नीलतामात्रानुकरणात् ते प्रत्यक्षा इति; तर्हि एकस्य गृहीतेतररूपतया अनेकान्तसिद्धिः ऐति ( इति ) [१००ख] स्याद्वादविद्वेषिणा अलम् अलम् इति । न तत्त्वतः तस्याः ते प्रत्यक्षं [क्षाः ] किन्तु व्यवहारेणेति चेत् ; उक्तमत्र नीलाकारसंवित्तेः नील- ५ वत् तस्या अपि स्थूलैकचित्रार्थप्रत्यक्षताप्रसङ्गादिति ।
. किंच, संवित्तिवद् एकस्य स्थूलैकचित्राकारोऽपि न विरुध्यते इति, एवमर्थं च 'स्थूलैकचित्राकृतेः' इति वचनम् । तर्हि प्रतिपरमाणुभेदात् संवित्तिरपि तथाविधा मा भूत् । तदुक्तम्*"किं स्यात् सा चित्रतैकस्यां न स्यात्तस्यां मतावपि"
[प्र० वा० २।२१०] इत्यादि । १० इति चेत् ; अत्राह-न सापि इत्यादि । न केवलं बहिरर्थोऽपितु साऽपि संवित्तिरपि विवेकात्मा न न युज्यते युज्येतैव, प्रतिषेधद्वयेन प्रकृतार्थगतेः, इतरथा उक्तन्यायेन सकलशून्यता स्यादिति मन्यते । सैवास्तु इति चेत् ; अत्राह-तन्नैरात्म्यम् इत्यादि । यत एवं तस्मात् नैरात्म्यं सकलशून्यत्वं बहिरन्तर्वा इति एवं 'प्रलपता' इत्यादिना सम्बन्धः । स्याद्वादमन्तरेण तदप्रतिपत्तेरिति भावः । छ ।।
इति श्री र वि भ द्र पादोपजीवि-अ न न्त वीर्य विरचितायां सि द्धि
वि निश्च य टी का यां प्रत्यक्षसिद्धिः प्रथमः प्रस्तावः । छ ।।
(१) प्रत्यक्षलक्षणे । (२) परमाणवः । (३) परमाणवः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org