________________
११८
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः इत्यत्राह-तन्नाम इत्यादि । यस्य नाम्ना योजनात् मृतिस्मृत्यादयः तत् तन्नाम इत्युच्यते, तस्य स्मृतेरयोगात् । एतदुक्तं भवति-न यत्र यत्र स्वार्थः तत्र तत्र तन्नाम, यतः तद्योजनात् नियमेन मतिस्मृत्यादयः स्युः अपि तु सङ्केतस्य योजनात् , तत्स्मृतेरेव च अयोगात् प्रकृतमिति । कुत एतत्? इत्यत्राह-अनवस्थानादेः अनवस्था [नम्]आदिर्यस्य अन्योन्यसंश्रयस्य स तथोक्तः तस्मात्। ५ तथाहि- प्रथमा नामस्मृतिः तद्विषयाभिधानस्मृतः, सापि तद्विषयनामस्मृतेः इत्यनवस्था । सन्निहिते च वस्तुनि मत्यादिना निर्णीते नामविशेषे स्मृतिः, तस्याश्च सत्यादिः (मत्यादिः) इत्यन्योऽन्यसमाश्रयः । अत एव अप्रतिपत्तिः प्रतिपत्तेरभावः, अन्धमूकं जगत् स्यादिति मन्यते । चर्चितं चैतत्-"सदृशार्थाभिलापादिस्मृतिः" [सिद्धिवि० १।८] इत्यादिना ।
एवं तावत् 'प्रमाणस्य फलं साक्षात् सिद्धिः स्वार्थवि निश्चयः' [सिद्धि१० वि० १।३] इत्यस्य समर्थनद्वारेण *"अधिगतिः तत्फलम्" इत्येतन्निरस्तम् । इदानीम्
*"सारूप्यं प्रमाणम्" [न्यायबि० १।२०] इत्येतत् प्रकारान्तरेण दूषयन्नाह-'प्रत्यक्षाः' इत्यादि।
[प्रत्यक्षाः परमाणवो बहिरिमे स्थूलैकचित्राकृतेः, संवित्तेविषया इति प्रलपता स्याद्वादविद्वषिणा । बुद्धेनालमलं बहिरन्तर्वाऽश्लीलमेवाकुलम् ,
तन्नैरात्म्यमपीतरेण न विवेकात्मा न सा युज्यते ॥२८॥] विषयो द्विविधो बौद्धस्य प्रत्यक्षः अनुमेयश्च । तत्र प्रत्यक्षः (क्षाः) सन्तो विषया गोचराः । के ? इत्याह-परमाणवः । क ? बहिरिति । के पुनस्ते ? इत्याह-[१००क] इमे
परिदृश्यमानघटादिव्यपदेशभाजः । कस्याः ? इत्यत्राह-संवित्तः। कथम्भूतायाः ? इत्याह२० स्थूलैकचित्राकृतेः स्थूला एका चित्रा शबला आकृतिः आकारो यस्याः सा तथोक्तः (क्ता)
तस्याः *"सञ्चितालम्बनाः पञ्च विज्ञानकायाः" इति राद्धान्तात् । प्रलपता अलम् । केन ? बुद्धेन इतर (इतरेण) केन ? दि ग्ना गा दिना । कथं प्रलपता ? अश्लीलमेव असम्बद्धमेव यथा भवति आकुलं च । अपिशब्दः भिन्नप्रक्रमः अत्र द्रष्टव्यः च शब्दार्थः ।
कथंभूतेन ? इत्यत्राह-स्याद्वादविद्वेषिणा । एतदुक्तं भवति-यथा नीलाकृतेः संवित्तेः नीलं २५ प्रत्यक्षं न पीतादि, सारूप्यकल्पनावैफल्यभयात् तथा स्थूलैकचित्राकृतेः तस्याः प्रत्यक्षो विषयोऽपि तथाविधं एव कल्पनीयो न परमाणवः इति ।
यत्पुनरत्रोक्तं प्रज्ञा क र गुप्तेन-*"तथाविधायाः तथाविधविषयसिद्धिः दूरस्थितविरलकेशेषु अतदात्मसु तथाविधायाः तस्याः दशनात् ।" इति ; तत्र न तर्हि परमाणवः ३० तस्याः प्रत्यक्षः (क्षाः) सन्तो विषयाः किन्तु अनुमेयाः, इतरथा दूरस्थितविरलकेशा अपि अनेक
(१) वाचकेन शब्देन । (२) "न प्रत्यक्षपरोक्षाभ्यां मेयस्यान्यस्य संभवः।"-प्र० वा० २।६३ । (३) “पञ्चसञ्चयस्यालम्बात्"-4. समु० १।१७। (४) संवित्तेः। (५) स्थूलैकचित्राकार एव । (६) "यथैव केशा दवीयसि देशे असंसक्ता अपि धनसन्निवेशावभासिनः परमाणवोऽपि तथेति न विरोधः।"-प्र. वार्तिकाल. पृ० २९६, पृ०९४।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org