________________
१।२७]
व्यवसायात्मकप्रमाणक्रमः
११७
ईश्वरादिकल्पना नानुपलक्षिताः उदयन्ते व्ययन्ते च तथा प्रकृता अपि इति । तथा तेनैव प्रकारेण इतराकृतयः अबह्वाद्याकृतयः न सत्योऽपि अनुपलक्षिता उदयन्ते व्ययन्ते वा इति । तर्हि तथैव स्वलक्षणसंवेदनाकृतयः सामान्यसंवेदनाकृतय एव वा स्वयं स्वसंविदिता एव उदयन्ते व्ययन्ते चेति चेत्; अत्राह - स्वलक्षण इत्यादि । स्वलक्षणं च सामान्यलक्षणं च ते एव एकान्तौ तयोः संवेदनाकृतीः पुनः न पश्यामः । चर्चितं चैतत् । तथापि ताः सत्यः कल्प्य- ५ ता (न्ता) मिति चेत् ; अत्राह - तथैव इत्यादि । तथैव परपरिकल्पितप्रकारेणैव अपश्यत्तत (श्यन्तः) कथं कल्पनया स्वलक्षणसामान्यलक्षणैकान्ते संवेदनाकृतिकल्पनया आत्मानमेव विप्रलभामहे वञ्चयामः ।
उपसंहारमाह-तदेवम् इत्यादिना । तत्त गोत् (तत् तस्मात् ) एवम् उक्तप्रकारेण परमार्थतः सिद्धिः सर्वभावानां निष्पत्तिः प्रतिपत्तिर्वा अनेकान्ताद् अनेकान्तमाश्रित्य ।
१०
मत्यादीनां निरु [क्तिं] दर्शयन्नाह - मन्यते इत्यादि ' । सुगमम् । तत्त्वार्थ सूत्र का रे - ण सहात्मनः ए [क] वाक्यतां दर्शयन्नाह - तथा इत्यादि । तथा उक्तप्रकारेण आमनन्ति त स्त्वा र्थ सूत्र का राः । कथम् ? [९९क] इत्याह-*“मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्यनर्थान्तरम्" [त० सू० १।१३] इत्येवम् । सर्वसूत्राणां सोपस्कारत्वात् अत्र 'प्रवर्त्तकः' इत्यध्याहार्यम् । इति शब्दः स्वसूत्रे वाक्यान्तरसमाप्त्यर्थः । ततोऽयमर्थो जायते - 'मतिः प्रव- १५ र्तिका इति, स्मृतिः प्रवर्तिका इति, संज्ञा प्रवर्तिका इति चिन्ता प्रवर्तिका इति, अभिनिबोधः प्रवर्तकः, चिन्ताभिनिबोधः प्रवर्तकः, मतिः स्मृति: संज्ञा चिन्ताऽभिनिबोधः प्रवर्तकः इति च ।
ननु च एतन्मत्यादिकमन्योन्यं भिन्नमभिन्नं वा ? उभयथापि 'स्वलक्षण' इत्यादि विरुध्यते इति चेत्; अत्राह-अनर्थान्तरम् इति । ईषदर्थे नत ( नञ् ) प्रवर्तते । ईषत् कथञ्चिद् अर्थान्तरम् अनर्थान्तरमिति । उक्तं [च] लघीयस्त्रये - " प्रमाणफलयोः क्रमभावेऽपि तादात्म्यं २० प्रत्येयम्” [लघी० स्व० श्लो० ६ ] इति । अथवा, यदा ( द ) वग्रहविषयीकृतम् ईहा प्रत्येति, ईहितम् अवायोऽवैति, अवायानुभूतं धारणा, एवम् उत्तरत्रापि योज्यम्, तदेवमाह अनर्थान्तरम् इति कथञ्चिदभिन्नविषय (यं) मत्यादिकम् इत्यर्थः । अन्त्यवाक्यापेक्षया 'अनर्थान्तरम् - अभिन्नप्रवृत्तिप्रयोजनम्' इति वा व्याख्येयम् ।
ननु मत्यादिकं सर्वम् अभिधानपुरस्सरमेव स्वार्थं प्रत्येति इति शब्दश्रुत एवान्तर्भावोऽ- २५ स्य, तथा च तच्चिन्तने एवास्य चिन्ता भविष्यति इति पृथगिह चिन्तनमनर्थकमिति चेत्; अत्राह'शब्दयोजनम्' इत्यादि । मतिस्मृत्यादयः शब्दयोजनमन्तरेण ते न भवन्ति किन्तु तद्योजने सति भवन्ति इत्येवम् एकान्तो न यत एकान्तात् [ ९९ख ] तत्र अन्तर्भाव्येरन् इत्यर्थः । यत इति वा आक्षेपे, नैव संकीर्येरन् । विपक्षे बाधकमाह - तदेकान्त इत्यादि । स चासौ एकान्तश्च तस्मिन् अङ्गीक्रियमाणे पुनः न क्वचिद् बहिरन्तर्वा स्युः मतिस्मृत्यादयः । कुत एतत् ? ३० (१) " मननं मतिः स्मरणं स्मृतिः संज्ञानं संज्ञा चिन्तनं चिन्ता भाभिमुख्येन नियतं बोधनमभिनिबोध इति" - त० वा० १।१३ | ५ |
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org